OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, September 27, 2023

 वहीदा रह्मानस्य फाल्के पुरस्कारलब्धिः। 

नवदिल्ली> २०२१ तमवर्षस्य फाल्के चलच्चित्रपुरस्कारः वरिष्ठा अभिनेत्री वहीदा रह्मान् इत्यस्यै लभते। चलच्चित्रमण्डलाय दत्तं समग्रयोगदानं पुरस्कृत्य एव बहुमतिः इति पुरस्कारं प्रख्यापयन् वार्तावितरणमन्त्रिणा अनुरागठक्कुरेण निगदितम्। 

  १९५० आरभ्य २००० तमवर्ष्यपर्यन्तं चलच्चित्रकलाक्षेत्रे स्वकीयां वैयक्तिकमुद्रां विरचितवती अस्ति वाहिदा रह्मानः। तमिलनाटस्थे चेङ्कल्पेट् प्रदेशीया सा  पूर्वं  राष्ट्रियचलच्चित्रपुरस्कारः [श्रेष्ठा अभिनेत्री १९७१], पद्मश्री [१९७२]- पद्मभूषणम् [२०११]  इत्यादिभिः पुरस्कारैः सम्मानिता आसीत्।

Tuesday, September 26, 2023

 एष्यन् कायिकक्रीडा - महिला क्रिकट् स्पर्धायां भारतस्य सुवर्णप्राप्तिः। 

पुरुषाणां गुलिकाप्रक्षेपे विश्वप्रमाणेन सुवर्णम्। 

आहत्य राष्ट्राय ११ पतकानि। 

हाङ् चौ> चीनराष्ट्रे प्रचाल्यमानायां एष्यन् कायिकक्रीडायां भारतं पतकमृगयामारभत। दिनद्वये अतीते सुवर्णपतकद्वयम् अभिव्याप्य ११ पतकानि सम्पाद्य षष्ठस्थाने वर्तते। 

   महिलानां क्रिकट् स्पर्धायाः अन्तिमचरणे श्रीलङ्कां पराजित्य भारतेन सुवर्णं प्राप्तम्। तथा च पुरुषाणां १० मीटर्  गुलिकाप्रक्षेपे विश्वप्रमाणेन सुवर्णपदकं प्राप्तम्।

Sunday, September 24, 2023

 १९ तमायाः एष्यन् कायिकक्रीडायाः वर्णाभगम्भीरः प्रारम्भः। 

वर्णाभः गभीरश्च उद्घाटनकार्यक्रमः।

हाङ्चौ [चीनः]> एष्या भूखण्डस्य कायिकहृदयः गतदिने चीनराष्ट्रे हाङ् चौ नगरे स्पन्दितः। ४५ राष्ट्राणां कायिकस्वप्नाः विकसितपक्षाः जाताः। उपदशसहस्रं कायिकतारान् ५०,००० प्रेक्षकान् च साक्षीकृत्य चीनस्य राष्ट्रपतिः षि जिन् पिङः १९ तमायाः एष्यन् कायिकक्रीडायाः समुद्घाटनं कृतवान्। 

   पुरातनचीनस्य सम्पन्नं चरितं, कलासांस्कृतिकपारम्पर्यं, आधुनिकचीनस्य तन्त्रज्ञश्रेष्ठता इत्यादीनां सामञ्जससम्मेलनमासीत् उद्घाटनकार्यक्रमाः। 'लेसर्', त्रिमानादितन्त्रविज्ञानीयविद्याप्रकटनैः वर्णाभः गम्भीरश्चासीत् उद्घाटनकार्यक्रमः। अन्तर्राष्ट्रीय ओलिम्पिक् समित्यध्यक्षः तोमस् बाक्, 'ओलिम्पिक् कौण्सिल् ओफ् एष्या' इत्यस्य प्रवर्तनाध्यक्षः राजा रणधीरसिंहः इत्येताभ्यां सह वेदिकां प्राप्तवान् षि जिन् पिङः प्रेक्षकान् अभिसमबोधयत्। ततः चीनस्य राष्ट्रियध्वजमुद्धृतवान्। अनन्तरम् आङ्गलेयाक्षरमालाक्रमनुसृत्य राष्ट्रान्तराणां  पथसञ्चलनं संवृत्तम्।

 नवभ्यः वन्दे भारतरेल् यानेभ्यः अद्य हरितपताका। 

नवदिल्ली> वन्दे भारतश्रेण्याम् अन्तर्भूतानां नवातिशीघ्ररेल् यानानामुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी अद्य करिष्यति। मध्याह्ने १२. ३० वादने ओन् लैन् द्वारा एव हरितपताकावीजनं विधास्यति। 

  केरलाय लब्धं अनन्तपुरी- कासरगोड् , उदयपुरं-जयपुरं, तिरुनेल्वेली-मधुरा-चेन्नै, हैदराबाद-बङ्गलुरु, विजयवाड़ा चेन्नै, पाट्ना-हौरा, रूर्कला-भुवनेश्वरं-पुरी, राञ्ची-हौरा, जामनगरं-अहम्मदाबादः इत्येषां मार्गाणां कृते एव यानानि अनुमोदितानि।

Saturday, September 23, 2023

 श्वः बाह्याकाशात् लघुपेटकमेकं भूमौ पतिष्यति। तं ग्रहीतुं नासा सज्जा।

   यु एस् बाह्याकाशसंस्था नासा तेषां 'ओसैरिक् रेक्' नाम अभियानस्य समाप्तिं याति। बेन्नु नाम छिन्नग्रहात् सञ्चितानि प्रतिरूपाणि भूमौ आनयनमेव ओसैरिक्  रेक् अभियानस्य लक्ष्यम्। सेप्तंबर् मासस्य चतुर्विंशतितमे दिनाङ्के स्वरूपांशः समाहृत्य 'काप्स्यूल्' इति लघुपेटकं बाह्याकाशस्थात् प्रधानपेटकात्  मुक्त्वा भूमौ पतिष्यति। सायङ्काले ८.११ वादने अन्तरिक्षे प्रविष्टा काप्स्यूल् ८.२५ वादने यूटो मरुप्रदेशे अवतरिष्यति। बेन्नु नाम छिन्नग्रहे विद्यमानानां शिलानां मृदां च स्वरूपाण्येव काप्स्यूलस्य अन्ते निभृतानि विद्यन्ते।

 उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्पराविषये अल्मोड़ाजनपदे व्याख्यानम्।

-वार्ताहर:-कुलदीपमैन्दोला।

       उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, प्रचाराय, अनुसन्धानाय च व्याख्यानमाला आयोज्यते। तस्मिन् एव क्रमे अस्मिन् वर्षे अपि श्रावणपूर्णिमात: -भाद्रपदपूर्णिमा (३१ अगस्त २०२३त: 29-09-23पर्यन्तं) संस्कृतमासस्य आयोजनं भवति। उत्तरखण्डस्य १३ जिल्हेषु "उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्परा" इत्यस्मिन् विषये व्याख्यानमाला आयोजिता अस्ति यस्य अन्तर्गतं २४ दिनाङ्के अल्मोडाजनपदे व्याख्यानमाला आयोज्यते सितम्बर 2023 अपराह्न 03:00 वादनतः। यस्य मुख्यविषयः उत्तराखण्डस्य संस्कृत नाट्यपरम्परा इति वर्तते । 


  उक्तकार्यक्रमस्य अध्यक्षता प्राचार्य: प्रो० ललनप्रसादवर्मा, राजकीयमहाविद्यालयशीतालाखेत-अल्मोडात: , मुख्यातिथि : रानीखेतविधानसभात: माननीयविधायक: डॉ. प्रमोदनैनवाल:, विशेषातिथि: कुमाऊँविश्वविद्यालयनैनीतालस्य संस्कृतविभागाध्यक्ष: प्रो.जयतिवारी, सारस्वतातिथि: हेमवतीनंदनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयश्रीनगरस्य संस्कृतविभागाध्यक्ष: डॉ. आशुतोषगुप्ता च आकाशवाणीनवीदिल्लीतः संस्कृतस्य मुख्यसम्पादकः डॉ. बलदेवानन्दसागरः मुख्यवक्तृरूपेण कार्यक्रमे उपस्थिता: भविष्यन्ति, ये उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः विषये स्वविचारं प्रकटयिष्यन्ति। सूचनां दत्त्वा कार्यक्रमस्य जिलासंयोजकः , डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन उक्तं यत् उत्तराखण्डः आरम्भादेव संस्कृतनाट्यशास्त्रे निरतः अस्ति। उत्तराखण्डस्य भूमिः संस्कृतभूमि: अस्ति । अत्र च वेदपुराणमहाभारतस्य रचना अभवत्। उत्तरकाशीनगरे स्थितं कविल्थं नाम स्थानं विद्वांसः मन्यन्ते महाकविकालिदासस्य जन्मभूमिः विविधाः संस्कृतविद्भिः च अत्र काले काले लेखनं कृतम् अस्ति तथा च अत्र विविधाः संस्कृतग्रन्थाः लिखिताः सन्ति। उत्तराखण्डस्य साहित्यकाराणाम् नाटकानि अपि काले काले प्राप्यन्ते येषु व्याख्यानमाला आयोज्यते। राज्यसमन्वयकः डॉ. हरीशचन्द्रगुरुराणी उक्तवान् यत् उत्तराखण्डसंस्कृताकादम्याः उद्देश्यं संस्कृतभाषां जनसामान्यं प्रति सुलभं कर्तुं जनान् संस्कृतभाषाविषये जागरूकं कर्तुं च अस्ति।जिलासहसंयोजकरूपेण श्रीजगदीशचन्द्रजोशी अपि कार्यक्रमे उपस्थित: भविष्यति।

 उत्तराखण्ड संस्कृताकादमीद्वारा पाबौविकासखण्डे प्रतियोगिता।


-वार्ताहर:-कुलदीपमैन्दोला।कोटद्वार।

   उत्तराखण्डसंस्कृत-अकादमीद्वारा २६, २७ सेप्टेम्बर् दिनाङ्कयो: संस्कृतप्रतियोगितानाम् आयोजनं प्रतिविकासखण्डेषु क्रियते। कनिष्ठवर्गे ६ कक्षातः १० कक्षापर्यन्तं कनिष्ठवर्गस्य छात्राः तथा वरिष्ठवर्गे ११ कक्षातः स्नातकोत्तरस्तरपर्यन्तं छात्राः भागं ग्रहीतुं शक्नुवन्ति। संस्कृतनाटकं, संस्कृतनृत्यं, संस्कृतसमूहवाक्पटुता, संस्कृतविवादः, श्लोकोच्चारण़प्रतियोगिता उभयत्र वर्गेषु आयोज्यन्ते। पौडीजनपदस्य पाबौविकासखण्डे उत्तराखण्डसंस्कृत-अकादमीद्वारा २६-२७ सितम्बर्-दिनाङ्के खण्डस्तरीय-संस्कृत-छात्र-प्रतियोगिता अपि आयोजिता अस्ति । पाबौविकासखण्डस्य खण्डशिक्षाधिकारी श्री अमितचौहानस्य मार्गदर्शने खण्डसंयोजक: श्रीकांतदुदपुडी प्रतियोगितां सम्पादयिष्यति। मार्गदर्शक: खण्ड-शिक्षा-अधिकारी श्री अमितचौहान: आदिष्टवान् यत् प्रतियोगितासु सर्वविद्यालया: स्वसहभागितां उत्साहपूर्वकं सुनिश्चितं कुर्यात् च प्रथमद्वितीयतृतीयस्थानविजेतृभ्यः अकादमीद्वारा निर्धारितरूपेण साक्षात्पुरस्कारः प्रदत्तः भविष्यति।

Friday, September 22, 2023

 विक्रमः प्रज्ञानः च मौनं भजतः। सन्देशः न लब्धः। ऐ एस् आर् ओ संस्थया प्रयत्नः अनुवर्तते।

सङ्गणके निर्मितं चित्रम्।

      श्रीहरिक्कोट्टा> चन्द्रस्य दक्षिणध्रुवे गतद्विसप्ताहात् पूर्वं सूर्यास्तङ्गमनम् अनुवर्तिते सन्दर्भे सुप्तावस्थायां परिवर्तितः चन्द्रयानं ३ अभियानस्य विक्रंलाण्डर् , प्रज्ञान रोवर् इति निरीक्षणयानं च पुनः प्रवर्तननिरतौ न भवतः। इतः पर्यन्तं विक्रमतः प्रज्ञानतः च कोऽपि सङ्केतः न लब्धः इति इस्रो संस्थया आवेदितम्। वैज्ञानिकाः प्रतीक्षया प्रतिपालयन्तः सन्ति। 

    ओगस्ट् मासस्य २३ दिनाङ्के आसीत् चन्द्रोपरितले चन्द्रयानस्य मृदुलावतरणम्। दशभौमदिनानि ततः सन्देशानि प्रेषितानि च। सेप्तम्बर् मासस्य चतुर्थे (४) दिनाङ्के विक्रम - अवतारकः (Lander) तथा प्रज्ञान-भ्रामकः (Rover) च सुप्तावस्थायां प्रविष्टौ। तयोः उत्थानं प्रतीक्ष्य आविश्वं वैज्ञानिकाः तिष्ठन्तः सन्ति।

 पाणिनिसंस्कृतविश्वविद्यालये नूतनभवनयो: लोकार्पणं जातम्

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

    उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य नवनिर्मितयो: योगेश्वरश्रीकृष्णयोगभवन-महर्षि  सान्दीपनिभवनयो: लोकार्पणं जातम्। द्वाविंशे तमे दिनाङ्के शुक्रवासरे सायंकाले   विश्वविद्यालयस्य देवासमार्गस्थे परिसरे प्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहनयादवमहोदयस्य करकमलाभ्यां  लोकार्पणविधि  सुसम्पद्यत  लोकार्पणसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन, दीपदीपनेन च जातः। तदनु  वैदिकमङ्गलाचरणं, सरस्वतीवन्दना विश्वविद्यालयस्य कुलगानञ्च अवभत् । 

अथितिनां स्वागतं  विश्वविद्यालयस्य  कुलपतिवर्येण, कुलसचिवमहोदयेन च्  कृतवन्तौ । कार्यक्रमे  मुख्यातिथिरूपेण विराजमानेन उच्चशिक्षामंत्रीमहोदयेन उक्तं यत् पाणिनिसंस्कृतविश्वविद्यालयस्य सर्वविधविकासाय  शासनं कृतसङ्कल्पितो वर्त्तते। प्रदेशे विभिन्ननगरेषु अस्य  परिसरा: संस्थापनीया: यतोहि संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते।  अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। संस्कृतं ज्ञानविज्ञानस्य भाषा अस्ति। कार्यक्रमस्य अध्यक्षः

विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारमेननमहोदय: आसीत् ।महोदयेन उक्तं यत् संस्कृतस्य विश्वविद्यालयस्य च्        विकासाय  मंत्रीमहोदयस्य आभारं  विज्ञापयामि  संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः  संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। विशिष्टातिथिरूपेण श्रीमतिकलावतीयादवमहोदया, सभापति: ,उज्जैननगरनिगम: श्रीश्यामबंसल:, उज्जैनविकास प्राधिकरणाध्यक्ष:,  कार्यपरिषद् सदस्या: श्रीमान्सुशील वाडिया,श्रीमानराजेन्द्रझालानी, डॉ.उपेन्द्रभार्गवः, डॉ.संकल्पमिश्र: च् समुपस्थिताः आसन्।

      सञ्चालनं डॉ.तुलसीदासपारौहामहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्   कार्यक्रमेSस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या: छात्रा: शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।

Thursday, September 21, 2023

 कानडायां वर्तमानानां भारतीयानां कृते जागरूकतानिर्देशः।

नवदिल्ली> खालिस्थानप्रकरणे भारत-कानडयोः सौहृदं जृम्भितमित्यतः कानडामधिवासिनः भारतीयाः जागरूकाः भवेयुरिति भारतविदेशकार्यमन्त्रालयेन निगदितम्। तत्र भारतविरुद्धप्रवर्तनानि राजनैतिकप्रेरिताः अक्रमाश्च वर्धन्ते इत्यस्मादेव ईदृशी सूचना दत्ता। कानडस्थाः भारतीयछात्राः अतिजागरूकाः भवेयुः। तैः भारतस्य स्थानपतिकार्यालये पञ्जीकरणं कार्यम्।

 चन्द्रे सूर्यः उदितः। चन्द्रयानस्य उत्थानं प्रतीक्ष्य  वैज्ञानिकलोकः।

     बाङ्लूर्> द्विसप्ताहात् पूर्वं चन्द्रस्य दक्षिणे ध्रुवे निद्रामुपागतः चन्द्रयान् -३ समुत्थितो भविष्यति वा न वा इत्याकाङ्क्षायां वर्तते वैज्ञानिकलोकः। चन्द्रे सूर्यप्रकाशः यदा आपतति तदा विक्रं लान्टर्,  प्रज्ञान् रोवर् इत्येतान् उत्थापयितुं परिश्रमं कुर्वन्तः सन्ति वैज्ञानिकाः। ऐ एस् आर् ओ संस्था सौरोर्जस्य साहाय्येन प्रवर्तनक्षमैः एतैः सह आशयविनिमयाय सज्जते। सेप्तंबर् मासस्य विंशतितमदिनाङ्का दारभ्य चन्द्रे सूर्यप्रकाशं लब्धुमारब्धम्। शुक्रवासराभ्यन्तरे उपकरणेषु विद्यमानाः सौरफलकः (solar panal) ऊर्जस्वलः भविष्यति इति प्रतीक्षते इति ऐ एस् आर् ओ संस्थया आवेदितम्॥

  खालिस्थान् आतङ्कवादिनः हत्यायां कानडस्य आरोपणं राजनैतिकप्रेरिम् - अरिन्दं बाक्चि।

      खालिस्थान् आतङ्कवादिनः हत्यायां भारतस्य हस्तक्षेपः अस्ति कानडस्य आरोपणं राजनैतिकप्रेरितमिति केन्द्रविदेशकार्य-मन्त्रालयेन प्रोक्तम्। एतत्संबन्धि विषये कानडेन अद्यावधि भारतं प्रति अधिकारिकतया किमपि न सूचितमिति भारतस्य विदेशकार्यवक्तृणा अरिन्दं बाग्चिना पत्रकारमेलने न्यगादीत्।

 केरळेषु संस्कृतदिनमहोत्सवः अद्य सम्पद्यते।

  चेर्तला> आभारतं विश्वसंस्कृतदिनं सामोदं आघुष्यमाणे सन्दर्भे केरलेषु संस्कृतदिनमहोत्सवः अद्य सम्पद्यते। संस्कृताध्ययनस्य अध्यापनस्य सुविधारूपेण निर्मिते Kerala Sanskrit Academy इति ब्लोग् अपि अद्य उदघाटितम्। चेर्तल शैक्षिकमण्डलस्य अध्यक्षा श्रीमति पार्वती चन्द्रन् एल् के ए एस्  ब्लोग् अन्तर्जालसुविधायाः उद्घाटनमकरोत्। 



Wednesday, September 20, 2023

 वनितारक्षणविधेयकं विजयीभूतम्।

    नवदिल्ली> नूतने संसद्भवने प्रथमविधेयकत्वेन वनितारक्षण विधेयकं सफलम् अभवत्। ४५४ सभाङ्गाः विधेयकस्य सफलतायै मतदानं कृतवन्तः। द्वौ अङ्गौ विरुद्धमतदानं कृतवन्तौ च। विधानसभायां तथा विधायिका सभायां च ३३% वनिताभिः आरक्षणं कतुम् उद्दिश्य आसीत् विधेयकम्। श्वः गुरुवासरे विधेयकं राज्यसभायाम् अवतारयिष्यति।

 एष्याचषकक्रिकट् - किरीटं भारतेन प्राप्तम्।  

कोलम्बो> एष्याचषकः नाम क्रिकट् स्पर्धापरम्परायाः अन्तिमे चरणे श्रीलङ्कां १० द्वारकैः पराजित्य भारतं किरीटं प्राप। पञ्चसंवत्सरानन्तरमेव भारतस्य कस्याश्चन समूहक्रीडायाः किरीटप्राप्तिः।  

  १५. २ क्षेपणचक्रैः श्रीलङ्कादलं ५० धावनाङ्कान् सम्पाद्य बहिर्गता। ६. १ क्षेपणचक्रैः भारतं ५१ धावनाङ्काः इति विजयलक्ष्यं प्राप्नोत्। मुहम्मद सिराज् नामकः २१ धावनाङ्कान् प्रदाय ६ द्वारकान् बहिर्नीतवान्। स एव श्रेष्ठक्रीडकरूपेण चितः।

 वनितारक्षणविधेयकं विजयीभूतम्।

   नवदिल्ली> नूतने संसद्भवने प्रथमविधेयकत्वेन वनितारक्षणं सफलम् अभवत्। ४५४ सभाङ्गाः विधेयकस्य सफलतायै मतदानं कृतवन्तः। द्वौ अङ्गौ विरुद्धमतदानं कृतवन्तौ च। विधानसभायां तथा विधायिकासभायां च ३३% वनिताभिः आरक्षणं कर्तुम् उद्दिश्य आसीत् विधेयकम्। श्वः गुरुवासरे विधेयकं राज्यसभायाम् अवतारयिष्यति।

 भारतस्य संसद्सम्मेलनं नूतने सभामन्दिरे समारब्धम्।

नूतने सभामन्दिरे संसद्सभा। 

नवदिल्ली> सोमवासरे आरब्धं भारतीयसंसदः पञ्चदिवसीयं सविशेषं  सम्मेलनं द्वीतीयदिनादारभ्य नूतने सभामन्दिरे संवृत्तम्। १९२१ तमे वर्षे निर्मितं सभामन्दिरं इतःपरं 'संविधान सदनम्' इत्यभिश्रोष्यते।  

  वर्तमानीयमन्दिरस्य अङ्कणे प्रधानमन्त्रिणः नेतृत्वे सर्वे सदस्याः शासनपक्ष विपक्षभेदं विना सौहार्देन सम्मिल्य संघच्छायाचित्रं स्वीचक्रुः। अनन्तरं सर्वे तत्रत्यानि भूतकालस्मरणानि अकथयन्। मध्याह्नानन्तरं नूतनं सभामन्दिरं प्रविश्य नियमानुसारं सम्मेलनं पुनरारब्धम्। तत्र 'नारीशक्तीवन्दन् अधिनियं' नामकं विधेयकमवतारितम्।

Tuesday, September 19, 2023

 आदित्य एल् १ भूभ्रमणपथात् बहिर्गतम्। ११० दिनाभ्यन्तरे लक्ष्यस्थानं प्राप्स्यते।

     बंगलूरू> राष्ट्रस्य प्रथम सूर्याध्ययनयानम् अदित्य एल् ११० दिनाभ्यन्तरे लक्ष्यस्थानं प्राप्स्यते। १५ लक्षं कि. मी. दूरमस्ति लक्ष्यस्थानं प्रति। लग्रान् पोयिन्ट् वण् इति भवति लक्ष्यस्थानस्य नाम। सूर्यं तथा बाह्याकाशकणान् अधिकृत्य अनुशीलनं करिष्यति।

Monday, September 18, 2023

 भारतस्य नवीनविधानसभायाम् उपराष्ट्रपतिः ध्वजारोहणं कृतवान्।

   नवदिली> भारतस्य नवीनविधानसभायाम् उपराष्ट्रपतिः जगदीपधनकरः राष्ट्रध्वजस्य आरोहणं कृतवान्। राष्ट्रस्य पञ्चदिनात्मकस्य विशिष्टमेलनस्य शुभारम्भः अद्य भविष्यति।

Sunday, September 17, 2023

 एष्या चषकक्रिकट् - अद्य भारत श्रीलङ्कयोः किरीटस्पर्धा।

कोलम्बो>  क्रिकट्क्रीडाक्षेत्रस्य एष्यीयवीरं निर्णेतुं कोलम्बोनगरे अद्य भारत श्रीलङ्कयोर्मध्ये अन्तिमा स्पर्धा विधास्यति। रविवासरे मध्याह्नानन्तरं त्रिवादने   प्रेमदासक्रीडाङ्कणे एव स्पर्धा। पूर्वं ५ वारं भारतेन त्रिवारं श्रीलङ्कया च एष्याचषके चुम्बनं कृतम्।

Saturday, September 16, 2023

 २०२३ आतपतमः ग्रीष्मकाल इति नासायाः अभिलेखः। 

न्यूयोर्क्> भूमेः उत्तरार्धगोले उच्चतमः आतपः आतपः अनुभूतः कालः भवति २०२३ इति नासासंस्थया तथा  अमेरिकास्थे 'नाषणल् ओष्यानिक् आन्ड् अट्मोस्फेरिक् अड्मिस्ट्रेषन्' [National Oceanic and Atmospheric administration] नामिकया संस्थया च विधत्ते अनुशीलने एव वृत्तान्तमिदं निगदितम्। जूण् मासतः आगस्ट् पर्यन्तं कालः आतपतमः काल इति अङ्कितम्। आतपतमं शैत्यमपि एतत्काले एव अनुभूतमिति अभिलेखे सूच्यते। 

  पृथिव्याः उत्तरार्धगोले ग्रीष्मकालीनतापमानम् अस्मिन् वर्षे ०. २३ डिग्री सेल्ष्यस् परिमितं वर्धितम्। पूर्वाङ्किततापमानात् १. २ डिग्री सेल्ष्यस् परिमितस्य वर्धनं रेखितम्। एतत् पर्यावरणावस्थाव्यतियानात् मानवराशेः सुस्थितेः भीषा वर्तते इत्यस्य सूचना इति नासायाः अधिकारी बिल् नेल्सणः अवोचत्।

Friday, September 15, 2023

 काश्मीरे संग्रामः - केणल्-मेजर् पदीयौ 'डि एस् पि' पदीयश्च वीरमृत्युं प्राप्तवन्तः।

श्रीनगरं> जम्मु काश्मीरे अनन्तनाग जनपदस्थे कोकर्नागे भीकरैः सह संवृत्ते संग्रामे द्वौ स्थलसेनाधिकारिणौ एकः आरक्षकाधिकारी च वीरमृत्युं प्राप्तवन्तः। '१९ राष्ट्रिय रैफिल्स् युणिट्' इत्यस्थस्य कमान्डर् स्थानीयौ केणल् मन्प्रीत सिंहः, मेजर् आशिष् इत्येतौ, जम्मु सहाधीशः [Deputy Superintendent of Police] हुमयूण् भट्टः इत्येते मृत्युं गतवन्तः। 

  आक्रमणस्य उत्तरदायित्वं लष्कर् इ तोय्बा इत्यस्य भीकरसंघटनस्य अधीशत्वे वर्तमानेन 'रसिस्टन्स् फ्रन्ट्' नामकेन संघटनेन स्वीकृतम्।

 लिबियायां महान् प्रलयः; १०,००० अधिकं मरणानि।

प्रलये विनाशितः लिबियासमुद्रतटः। 

 

ट्रिप्पोली> आफ्रिकाभूखण्डस्य उत्तरभागस्थे लिबियाराष्ट्रे गतदिनेषु दुर्जाते महाप्रलये १०,००० अधिके जनाः मृत्युवशं प्राप्ताः। उपदशसहस्रं जनाः अदृष्टाः जाताः। ग्रीस्, बल्गेरियादिषु राष्ट्रेषु महतः विनाशस्य हेतुभूतः डानियेल् नामकः चक्रवात एव लिबियायाः पूर्वक्षेत्रेषु अतिवृष्टेः जलोपप्लवस्य च हेतुभूतो जातः। 

  तीरप्रदेशाः पूर्णतया सागरेण कबलिताः। बहुत्र जलसमता दशपादपरिमितं उन्नतिं प्राप्ता। द्वौ सेतू विशीर्णौ अभवताम् इत्यत एव दुरन्तस्य तीक्ष्णताम् ऊहयितुं शक्यते। डेर्ना नगरस्य २५% नामावशेषमभवदिति राष्ट्रस्य व्योमयानमन्त्रिणा हिषें स्कियौट् इत्यनेन प्रस्तुतम्।

Thursday, September 14, 2023

 मणिप्पुरे संघर्षस्य शमः नास्ति।

 त्रयः कुक्कीवंशीयाः, एकः आरक्षकाधिकारी च भुषुण्डिप्रयोगेण हताः। 

इम्फाल्> मणिप्पुरे पुनरपि संघर्षः, भुषुण्डिप्रयोगः च। काङ्पोक् पि नामके जनपदे मङ्गलवासरे  अज्ञातानां भुषुण्डिप्रयोगेण त्रयः ग्रामीणाः हताः। कुक्कीवंशीयाः एते इति सूच्यते। मेय्ति विभागानां निरुद्धसंघटनमेव आक्रमणमकरोदिति आरक्षकैः निगदितम्। 

  तथा च बुधवासरे  चुराचन्दपुरजनपदे कर्तव्यनिर्वहणमध्ये ओङ्गोमाङ्कः नामकः आरक्षकाधिकारी  गोलिकास्त्रेण हतः। द्वयोः घटनयोः व्रणितानां विषये   विशदांशाः न प्राप्ताः। 

  उत्तर इम्फाल् जनपदे गतदिने अज्ञातसंघेन भुषुण्डिप्रयोगः बोम्बाक्रमणं च अभवत्। मणिपुरराज्ये मेय् मासे आरब्धे कुक्की - मेय्ती वंशीयसंघर्षे अद्यावधि १८० अधिकाः जनाः हताः, शतशः व्रणिताश्च।

Wednesday, September 13, 2023

 केरले निपा वैराणुबाधा - द्वौ मृतौ। 

कोष़िक्कोट्> केरले कोष़िक्कोट् जनपदे पुनरपि वैराणुबाधा प्रवृत्ता। ज्वरबाधया आगस्त् ३० तमे दिनाङ्के सेप्टम्बर् ११ तमे दिनाङ्के च मृतयोः द्वयोः पुरुषयोः निपा वैराणुबाधा दृढीकृता। केन्द्रस्वास्थ्यमन्त्रिणा मनसुख माण्डव्येन एव ह्यः नवदिल्ल्यां एतत् वृत्तान्तं बहिःप्रकाशितम्। पूनास्थायां वैरोलजी परीक्षणशालायां कृते स्रवपरिशोधने एव निपा वैराणुः प्रत्यभिज्ञातः। कोष़िक्कोट् मलप्पुरं वयनाट् जनपदेषु जागरणनिर्देशः विधत्तः। 

  कोष़िक्कोट् जनपदे कुट्टियाटिप्रदेशे एटवलत्त् मुहम्मद नामकः आगस्त् ३०, आयञ्चेरीस्थः मम्पिलिक्कुनि हारिसः सेप्टम्बर् ११ तमे दिनाङ्के च मृतौ आस्ताम्। तयोः बन्धुजनान् आतुरालयकर्मकरान् च अभिव्याप्य सम्पर्कभूताः १६८ जनाः निरीक्षणे प्रविष्टाः।