OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 27, 2023

 वहीदा रह्मानस्य फाल्के पुरस्कारलब्धिः। 

नवदिल्ली> २०२१ तमवर्षस्य फाल्के चलच्चित्रपुरस्कारः वरिष्ठा अभिनेत्री वहीदा रह्मान् इत्यस्यै लभते। चलच्चित्रमण्डलाय दत्तं समग्रयोगदानं पुरस्कृत्य एव बहुमतिः इति पुरस्कारं प्रख्यापयन् वार्तावितरणमन्त्रिणा अनुरागठक्कुरेण निगदितम्। 

  १९५० आरभ्य २००० तमवर्ष्यपर्यन्तं चलच्चित्रकलाक्षेत्रे स्वकीयां वैयक्तिकमुद्रां विरचितवती अस्ति वाहिदा रह्मानः। तमिलनाटस्थे चेङ्कल्पेट् प्रदेशीया सा  पूर्वं  राष्ट्रियचलच्चित्रपुरस्कारः [श्रेष्ठा अभिनेत्री १९७१], पद्मश्री [१९७२]- पद्मभूषणम् [२०११]  इत्यादिभिः पुरस्कारैः सम्मानिता आसीत्।