OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 23, 2023

 उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्पराविषये अल्मोड़ाजनपदे व्याख्यानम्।

-वार्ताहर:-कुलदीपमैन्दोला।

       उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, प्रचाराय, अनुसन्धानाय च व्याख्यानमाला आयोज्यते। तस्मिन् एव क्रमे अस्मिन् वर्षे अपि श्रावणपूर्णिमात: -भाद्रपदपूर्णिमा (३१ अगस्त २०२३त: 29-09-23पर्यन्तं) संस्कृतमासस्य आयोजनं भवति। उत्तरखण्डस्य १३ जिल्हेषु "उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्परा" इत्यस्मिन् विषये व्याख्यानमाला आयोजिता अस्ति यस्य अन्तर्गतं २४ दिनाङ्के अल्मोडाजनपदे व्याख्यानमाला आयोज्यते सितम्बर 2023 अपराह्न 03:00 वादनतः। यस्य मुख्यविषयः उत्तराखण्डस्य संस्कृत नाट्यपरम्परा इति वर्तते । 


  उक्तकार्यक्रमस्य अध्यक्षता प्राचार्य: प्रो० ललनप्रसादवर्मा, राजकीयमहाविद्यालयशीतालाखेत-अल्मोडात: , मुख्यातिथि : रानीखेतविधानसभात: माननीयविधायक: डॉ. प्रमोदनैनवाल:, विशेषातिथि: कुमाऊँविश्वविद्यालयनैनीतालस्य संस्कृतविभागाध्यक्ष: प्रो.जयतिवारी, सारस्वतातिथि: हेमवतीनंदनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयश्रीनगरस्य संस्कृतविभागाध्यक्ष: डॉ. आशुतोषगुप्ता च आकाशवाणीनवीदिल्लीतः संस्कृतस्य मुख्यसम्पादकः डॉ. बलदेवानन्दसागरः मुख्यवक्तृरूपेण कार्यक्रमे उपस्थिता: भविष्यन्ति, ये उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः विषये स्वविचारं प्रकटयिष्यन्ति। सूचनां दत्त्वा कार्यक्रमस्य जिलासंयोजकः , डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन उक्तं यत् उत्तराखण्डः आरम्भादेव संस्कृतनाट्यशास्त्रे निरतः अस्ति। उत्तराखण्डस्य भूमिः संस्कृतभूमि: अस्ति । अत्र च वेदपुराणमहाभारतस्य रचना अभवत्। उत्तरकाशीनगरे स्थितं कविल्थं नाम स्थानं विद्वांसः मन्यन्ते महाकविकालिदासस्य जन्मभूमिः विविधाः संस्कृतविद्भिः च अत्र काले काले लेखनं कृतम् अस्ति तथा च अत्र विविधाः संस्कृतग्रन्थाः लिखिताः सन्ति। उत्तराखण्डस्य साहित्यकाराणाम् नाटकानि अपि काले काले प्राप्यन्ते येषु व्याख्यानमाला आयोज्यते। राज्यसमन्वयकः डॉ. हरीशचन्द्रगुरुराणी उक्तवान् यत् उत्तराखण्डसंस्कृताकादम्याः उद्देश्यं संस्कृतभाषां जनसामान्यं प्रति सुलभं कर्तुं जनान् संस्कृतभाषाविषये जागरूकं कर्तुं च अस्ति।जिलासहसंयोजकरूपेण श्रीजगदीशचन्द्रजोशी अपि कार्यक्रमे उपस्थित: भविष्यति।