OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 24, 2023

 १९ तमायाः एष्यन् कायिकक्रीडायाः वर्णाभगम्भीरः प्रारम्भः। 

वर्णाभः गभीरश्च उद्घाटनकार्यक्रमः।

हाङ्चौ [चीनः]> एष्या भूखण्डस्य कायिकहृदयः गतदिने चीनराष्ट्रे हाङ् चौ नगरे स्पन्दितः। ४५ राष्ट्राणां कायिकस्वप्नाः विकसितपक्षाः जाताः। उपदशसहस्रं कायिकतारान् ५०,००० प्रेक्षकान् च साक्षीकृत्य चीनस्य राष्ट्रपतिः षि जिन् पिङः १९ तमायाः एष्यन् कायिकक्रीडायाः समुद्घाटनं कृतवान्। 

   पुरातनचीनस्य सम्पन्नं चरितं, कलासांस्कृतिकपारम्पर्यं, आधुनिकचीनस्य तन्त्रज्ञश्रेष्ठता इत्यादीनां सामञ्जससम्मेलनमासीत् उद्घाटनकार्यक्रमाः। 'लेसर्', त्रिमानादितन्त्रविज्ञानीयविद्याप्रकटनैः वर्णाभः गम्भीरश्चासीत् उद्घाटनकार्यक्रमः। अन्तर्राष्ट्रीय ओलिम्पिक् समित्यध्यक्षः तोमस् बाक्, 'ओलिम्पिक् कौण्सिल् ओफ् एष्या' इत्यस्य प्रवर्तनाध्यक्षः राजा रणधीरसिंहः इत्येताभ्यां सह वेदिकां प्राप्तवान् षि जिन् पिङः प्रेक्षकान् अभिसमबोधयत्। ततः चीनस्य राष्ट्रियध्वजमुद्धृतवान्। अनन्तरम् आङ्गलेयाक्षरमालाक्रमनुसृत्य राष्ट्रान्तराणां  पथसञ्चलनं संवृत्तम्।