OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 16, 2023

 २०२३ आतपतमः ग्रीष्मकाल इति नासायाः अभिलेखः। 

न्यूयोर्क्> भूमेः उत्तरार्धगोले उच्चतमः आतपः आतपः अनुभूतः कालः भवति २०२३ इति नासासंस्थया तथा  अमेरिकास्थे 'नाषणल् ओष्यानिक् आन्ड् अट्मोस्फेरिक् अड्मिस्ट्रेषन्' [National Oceanic and Atmospheric administration] नामिकया संस्थया च विधत्ते अनुशीलने एव वृत्तान्तमिदं निगदितम्। जूण् मासतः आगस्ट् पर्यन्तं कालः आतपतमः काल इति अङ्कितम्। आतपतमं शैत्यमपि एतत्काले एव अनुभूतमिति अभिलेखे सूच्यते। 

  पृथिव्याः उत्तरार्धगोले ग्रीष्मकालीनतापमानम् अस्मिन् वर्षे ०. २३ डिग्री सेल्ष्यस् परिमितं वर्धितम्। पूर्वाङ्किततापमानात् १. २ डिग्री सेल्ष्यस् परिमितस्य वर्धनं रेखितम्। एतत् पर्यावरणावस्थाव्यतियानात् मानवराशेः सुस्थितेः भीषा वर्तते इत्यस्य सूचना इति नासायाः अधिकारी बिल् नेल्सणः अवोचत्।