OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, January 27, 2025

 भारतस्य ७६ तमं गणतन्त्रदिनं प्रौढगाम्भीर्येण आघुष्टम्। 

गणतन्त्रदिनाघोषः। 

नवदिल्ली> सैनिकशक्तेः सांस्कृतिकपारम्पर्यस्य च विलम्बरं कुर्वन् भारतस्य ७६ तमः गणतन्त्रदिनेत्सवः दिल्यां कर्तव्यपथे समायोजित‌ः। इन्डोनेष्यायाः राष्ट्रपतिः प्रबावो सुबियान्तो वर्यः मुख्यातिथिः आसीत्। 

  राष्ट्रस्य विभिन्नाः सायुधविभागाः तेषां बलप्रकाशनरूपं पथसञ्चलनं समावृत्तम्। विविधराज्यानां निश्चलदृश्यानि, ५००० कलाकाराणां भागभागित्वयुतं ४६ कलारूपाणि छात्राणां कार्यक्रमाणि च दिनोत्सवस्य प्रौढिं गाम्भीर्यं च विधत्तम्। आमन्त्रितानां दशसहस्रं विशिष्टजनानां पुरतः एव कार्यक्रमाः संवृत्ताः। 

  राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः नेतारः च भागं कृतवन्तः।

 'सुसुकी' संस्थायै भारतस्य आदरसमर्पणं - ओसामु सुसुकीवर्याय पद्मविभूषणम्। 

ओसामु वर्यः मारुति ८०० यानं च। 

नवदिल्ली> भारते सामान्यजनानां कार् यानाभिलाषसफलतायै प्रयत्नं कृतवान् 'सुसुकि मोटोर्स् कोर्परेषन्' इत्यस्य अध्यक्षाय ओसामु सुसुकीवर्याय पद्मविभूषणपुरस्कारं मरणानन्तरबहुमतिरूपेण दत्वा राष्ट्रस्य कृतज्ञताप्रकाशनम्। 'मारुति ८००' इति लघु कार् यानं अवतार्य राष्ट्रे लक्षशः सामान्यजनानाम् अभिलाषः तेन सफलीकृतः। 

  १९८२ तमे वर्षे सुसुकीमोटोर्स् भारतस्य वाहननिर्माणसंस्था मारुती इत्यनया सह सम्बन्धेन अवतारितं 'मारुति ८००' इति लघु कार् यानं विपणिं विजितवत्। ओसामुवर्यः आसीत् तदा सुसुक्याः अध्यक्षः।  तत्तु भारतस्य यात्रायानमण्डले चरितं व्यरचयत्। २०२४ डिसम्बर् २४ तमे दिनाङ्के ओसामुवर्यः जापाने दिवंगतः। भारतस्य आदराञ्जलिरूपेण अस्य वर्षस्य पद्मविभूषणपुरस्कारः तस्मै दत्तः च।

 पद्मविभूषणेन पुरस्कृताः महान्तः।

नवदिल्ली> २०२५ तमे वर्षे पद्मविभूषणपुरस्कारेण सम्मानिताः सप्त प्रतिभाधनाः सन्ति। कैरलीसाहित्यकुलपतिः एं टि वासुदेवन् नायर्,बिहारीया ग्राम्य-श्रेष्ठगानविदुषी शर्दा सिन्हा इत्येतेभ्यः मरणानन्तरबहुमतिरूपेण पद्मविभूणं सम्मानयिष्यति। स्वास्थ्यक्षेत्रे प्रमुखः डो दुवुर नागेश्वर रड्डी [तेलङ्कानं], न्यायाधिपचरः जगदीशसिंह खेहरः [चण्डीगढः], कथकनर्तकी कुमुदिनी रजनीकान्त लखिया [गुजरात्], अन्ताराष्ट्रिय वाहमनिर्माणसंस्था 'सुसुकी' इत्यस्य भूतपूर्वः अधिपः ओसामु सुसुकी [जापानं] इत्येतेSपि पद्मभूषणपुरस्कारेण बहुमानिताः।

Sunday, January 26, 2025

 अद्य भारतस्य ७६ तमः गणतन्त्रदिवसः।

सप्त पद्मविभूषणानि; नवदश पद्मभूषणानि; ११३ पद्मश्रियः। 

 नवदिल्ली> भारतस्य ७६ तमस्य गणतन्त्रदिवसोत्सवस्य अंशतया सप्त प्रतिभाधनाः पद्मविभूषणपुरस्कारेण बहुमानिताः। ज्ञानपीठपुरस्कारेण समादृतः   समीपकाले दिवंगतः कैरलीसाहित्यकारः एम् टि वासुजेवन् नायर् वर्यः, सुप्रसिद्धः वयलिन् वादकः एल् सुब्रह्मण्यम् इत्यादयः पद्मविभूषणेन समादृताः। 

  भारतीययष्टिक्रीडादलस्य भूतपूर्वनायकः पि आर् श्रीजेषः, चलच्चित्राभिनेत्री शोभना, तमिलनटः अजितः, प्रशस्तः हृद्रोगचिकित्सकः हृदयशस्त्रक्रियाकुशलः च डो जोस् चाक्को पेरियप्पुरम् इत्यादयः १९ विशिष्टाः पद्मभूषणेन सम्मानिताः। 

  विविधमण्डलेषु स्वप्रतिभां प्रकाशितवन्तः ११३ जनाः पद्मश्रीबहुमत्या सम्मुदिताः। संगीतज्ञा डो के ओमनक्कुट्टी, पादकन्दुकक्रीडकः ऐ एम् विजयः, नीतिज्ञः सि एस् वैद्यनाथः, तमिलपत्रिकाकारः डो आर् लक्ष्मीपतिः, मृदङ्गवादकः गुरुवायूर् दोरै इत्यादयः पद्मश्रीपुरस्कृतेषु अन्तर्भवन्ति।

 चतस्रः महिलासैनिकाः हमासेन विमोचिताः। 

डेयर् अल् बलाह्> हमास-इस्रयेलयोः युद्धविरामसन्धेः अंशतया हमासेन बन्धितेषु इस्रयेलस्य चतस्रः महिलासैनिकाः विमोचिताः। 'रेड् क्रोस्' संस्थाद्वारा शनिवासरे आसीत् एतासां मोचनम्। 

 गासायां पालस्तीनचत्वरे सन्निहितानां जनानामाभ्यन्तरेण स्मिताननैः सह सैनिकवेषं धृत्वा आसीत् तासां प्रतिनिवर्तनम्। २०२३ ओक्टोबर् सप्तमदिनाङ्के गासायां नहाल् ओस् इत्यस्मात् सेनाशिबिरात् ताः  हमासेन निगृहीताः आसन्।

बालसहितीप्रकाशनस्य द्विदिवसीय साहित्य सङ्गोष्ठी अद्य सम्पत्स्यते

   चेरुतुरुत्ती> सांस्कृतिकग्रन्थानां प्रकाशनेषु निरतेन बालसाहिती-प्रकाशनेन आयोजिता द्विदिवसात्मका आवासीया सङ्गोष्ठी अद्य रविवासरे सम्पत्स्यते। ह्यः आरब्धा सङ्गोष्ठी कथाकारः के. के पल्लशनः उद्घाटनमकरोत्। मलयाळभाषायां विद्यमानाः बालसाहित्यनिपुणाः ग्रन्थरचयितारः कार्यक्रमे अस्मिन् भागं स्वीकुर्वन्तः सन्ति। केरळकलामण्डलम् इति मानितविश्वविद्यालयस्य परिसरे इयं सङ्गोष्ठी प्रचलति। सांस्कृतिकयुक्तानां राष्ट्राभिमानयुक्तानां धर्मोपदेशपराणां साहित्यानां नवीनरचना बालकान् उद्दिश्य भवतु इति उद्देश्येन आयोजिता अस्ति इयं सङ्गोष्ठी।

Saturday, January 25, 2025

 जन्माधिकारपौरत्वनिरासादेशः न्यायालयेन अवरुद्धः। 

ट्रम्पः पुनर्विचाराय उद्यमते।

सियाटिल्> जन्माधिकारपौरत्वं निरस्य यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेण हस्ताक्षरीकृतः आदेशः सियाटिल् जनपदीय न्यायाधीशेन अवरुद्धः। गुरुवासरे आसीत् ट्रम्पस्य निर्वोढव्यादेशः १४ दिनानि यावत् अवरुद्धः। 

  किन्तु न्यायालयस्य अवष्टम्भादेशं विरुध्य पुनर्विचाराभ्यर्थना समर्पयिष्यतीति ट्रम्पेण निगदितम्। वाषिङ्टणः, अरिसोणा, इलिनोय्, ओरिगण् इत्येतेभ्यः राज्येभ्यः समर्पिते प्रकरणे आसीत् न्यायालयस्य प्रक्रमः। ट्रम्पस्यादेशः राष्ट्रसंविधानस्य नग्नं लङ्घनमिति न्यायालयेन निरीक्षितम्।

Friday, January 24, 2025

 दिल्ली विधानसभानिर्वाचनम्। 

प्रचारणोत्साहे राजनैतिकदलानि। 

नवदिल्ली> विधानसभानिर्वाचनस्य प्रचारणोत्साहे दिल्ल्यां प्रमुखानि राजनैतिकदलानि।  अनुस्यूतप्रशासनं लक्ष्यीकृत्य आम् आद्मी पार्टी [आप्], अधिकारग्रहणाय भा ज पा, विनष्टप्रभावस्य पुनर्ग्रहणाय कोण्ग्रस् च सर्वायुधान् परिगृह्य प्रचारणोत्साहे वर्तन्ते। 

   पञ्चवर्षाभ्यन्तरे दिल्ल्याः कर्मराहित्यं परिहरिष्यतीति 'आप्' दलस्य नेता मुख्यमन्त्रिचरश्च अरविन्द केज्रिवालः उद्घोषितवान्। दशवर्षीयप्रशासनेन आप् सर्वकारः भ्रष्टाचारे अन्यानवाप्तोन्नतसीमां [World record] प्राप्तवानिति भाजपादलेन निन्दितम्। दिवंगतायाः भूतपूर्वप्रधानमन्त्रिणः षीला दीक्षितस्य विकासादर्श एव वरमिति कोण्ग्रसनेत्रा राहुलगान्धिना प्रख्यापितम्। फेब्रुवरि पञ्चमदिनाङ्के भवति दिल्लीनिर्वाचनम्।

 आयसयुगारम्भः तमिलनाटे इति राज्यमुख्यमन्त्री। 

५,३०० संवत्सरेभ्यः पूर्वमारब्धमिति स्टालिनः। 

एं के स्टालिनः।

चेन्नै> विश्वस्मिन् आयसयुगस्य प्रारम्भः तमिलनाटे इति अभिमानं ज्ञापयित्वा राज्यमुख्यमन्त्री एं के स्टालिनः। "तमिलनाटे ५,३०० संवत्सरेभ्यः पूर्वमेव आयसयुगमारब्धमिति अहं विश्वं ज्ञापयामि। धातोः अयसः विश्लेषणप्रौद्योगिकी भौगोलिकस्तरे प्रथमतया तमिलनाटे एव अवतारिता। इतः सङ्कलितानां पुरावस्तुसामग्रीणां विशकलनं विश्वस्मिन्नेव श्रेष्ठतरेषु शोधनालयेषु कृतम्। तस्याधारे एवेदं प्रख्यापनम्" स्टालिनः अवोचत्। तमिलनाटस्य अयोपयोगस्य चरित्रं स्पष्टीक्रियमाणस्य 'इरुम्पिन् तोन्मै' इति ग्रन्थस्य प्रकाशनवेलायां भाषमाणः आसीत् स्टालिनवर्यः।

 रेल्यानपेटिकायाम्  अग्निबाधा इति विशङ्क्य  बहिः उत्पतिताः ११ यात्रिकाः मृताः।

    मुम्बै> महाराष्ट्रेषु जल्गावे प्राणरक्षार्थं रेल्यानात् बहिः कूर्दनेन पतिताः द्वादश जनाः मृताः। समीपस्थे रेल्पट्टिकायाः आगतम् अन्यं रेल्यानं घट्टयित्वा एव भूरि जनाः मृताः। दश यात्रिकाः व्रणिताः। लक्नौ देशतः मुम्बैदेशं प्रति आगम्यमानं रेल्यानं भवति पुष्पक् एक्स्प्रस्।  अस्य रेल्यानस्य पेटिकायाः एकस्याः अग्निः धूमः च उत्थितः इति सन्दिह्य यात्रिकाः  रेल्यानात् बहिः कूर्दनमकरोत्। तस्मिन्नवसरे अन्यपट्टिकायाम् आगतं 'कर्णाटक' एक्सप्रस् नाम रेल्यानस्य अधः पतित्वा एव द्वादश जनानां मृत्युः इति प्रतिवेदनमस्ति। विंशत्यधिकाः यात्रिकाः यानात् बहिः कूर्दनमकुर्वन्।

Thursday, January 23, 2025

 राफासीमायाः न प्रतिनिवर्तिष्यते इति इस्रयेलः। 

जरुसलेमः> ईजिप्तस्य समीपस्थायाः राफासीमायाः इस्रयेलसैनिकानां प्रतिनिवर्तनं न भविष्यतीति इस्रयेलेन निगदितम्। ईजिप्तं गासां च संयोज्यमानायाः राफासीमायाः नियन्त्रणं पालस्तीनस्य समितिः स्वीकरिष्यतीति अभ्यूहस्य आधारे एव इस्रयेलस्य विज्ञप्तिः।

 जन्माधिकारनागरिकत्वनिरासः - 

अमेरिकायां २२ राज्यानि न्यायालयं प्रति।

वाषिङ्टणः> यू एस् राष्ट्रस्य राष्ट्रपतिपदं प्राप्य झटित्येव डोणाल्ड ट्रम्पेन आदिष्टस्य जन्माधिकारनागरिकत्वनिरासं विरुद्ध्य २२ राज्यानि न्यायालये प्रकरणं समार्पयन्। डेमोक्रेटिक पार्टी इत्यनेन शासमानानि राज्यानि भवन्त्येतानि। ट्रम्पस्यायं निर्णयः राष्ट्रसंविधानस्य उल्लङ्घनमिति सूचयित्वा   बोस्टण् सियाटिल् इत्येतस्थयोः फेडरल्  न्यायालययोः पुरतः एव प्रकरणं समर्पितम्। 

  ये यू एस् नागरिकाः न भवन्ति, तादृशयोः पित्रोः यू एस् मध्ये जनितानां शिशूनां नागरिकार्हता अस्तीति १८९८ तमवर्षस्य सर्वोच्चनीतिपीठस्य विधेः विरुद्ध एव ट्रम्पस्य आदेशः इति सूचयित्वा भवन्ति प्रकरणानि।

Wednesday, January 22, 2025

 ट्रम्पस्य अधिकारप्राप्त्यनन्तरं  प्रथमदिने ८० निर्वोढव्यादेशाः।

कतिपयाः आशङ्काजनकाः। 

द्वितीयवारं शपथवाचनानन्तरं ट्रम्पः।

वाषिङ्टणः>  राष्ट्रपतिपदस्वीकरणस्यानन्तरं प्रथमदिने डोनाल्ड ट्रम्पः आशङ्काजनकाः कतिपयादेशान् अभिव्याप्य ८० आदेशेषु हस्ताक्षरं कृतवान्। 

  जननाधिकाररूपेण अमेरिकानागरिकत्वं प्राप्तवतां अल्पकालिकाधिनिवेशितानां च पौरत्वरूपाधिकारः ट्रम्पेण निरस्तः। संयुक्तराष्ट्रसभायाः स्वास्थ्यसभातः [WHO], 'पारीस् पर्यावरणसन्धिः' इत्यस्माच्च ट्रम्पस्य आदेशेन अमेरिका अपसृता भविष्यति।

  यू एस् राष्ट्रे इतःपरं पुं-स्त्रीति लिंगद्वयमेव भवेत्। 'मेक्सिको अन्तरालसमुद्रस्य' परं अमेरिका अन्तरालसमुद्रः इति पुनर्नामकरणं विधास्यति। ट्रम्पस्य नूतनादेशाः प्रायेण राष्ट्रिय-अन्ताराष्ट्रियविवादाय कारणं भविष्यतीति अभिज्ञैः सूच्यते।

 हमासेन चतस्रः महिलाः शनिवासरे विमोचयिष्यन्ते। 

जरुसलेमः> इस्रायेलेन सह कृतस्य युद्धविरामसन्धेः अंशतया हमासेन बन्धिताः चतस्रः महिलाः शनिवासरे विमोचिताः भविष्यन्ति। हमासेन निगदितमिदं वृत्तान्तम्।  तस्य स्थाने पलस्थीनीयाः बन्धिताः इस्रायेलेन विमोचयिष्यन्ते। विशदांशाः न लब्धाः। 

  रविवासरे प्रवृत्तिपथमागतं सन्धिमनुसृत्य तिस्रः महिलाः  हमासेन, ९० पालस्थानीयाः इस्रायेलेन च परस्परं प्रतिप्रेषिताः आसन्। युद्धविरामसन्धेः प्रथमसोपाने ३३ बन्धितान् हमासः १९०० पालस्थानीयान् इस्रयेलश्च विमोचयिष्यति।

 छत्तीसगढे १४ मावोवादिनः व्यापादिताः। 

गरिबन्दः> छत्तीसगढस्य ओडीशायाः च सीमायां सुरक्षासेनया सह विधत्ते प्रतिद्वन्द्वे १४ मावोवादिनः व्यापादिताः। मृतेषु मावोवादिसंघस्य समुन्नतः नेता चलपति इत्याहूयमानः जयराम रेड्डिः अपि अन्तर्भवतीति केन्द्रसर्वकारेण निगदितम्। सुरक्षासेनया संवत्सरैः मार्गमाणः मावोवादिनेता आसीत् जयराम रेड्डिः।

Monday, January 20, 2025

 ट्रम्पस्य स्थानारोहणम् अद्य। 


वाषिङ्टणः> यू एस् राष्ट्रस्य ४७ तम राष्ट्रपतिरूपेण डोनाल्ड ट्रम्पः सोमवासरे शपथवाचनं करोति। भारतसमयानुसारं रात्रौ १०. ३० वादने मुख्यन्यायाधिपः जोण् रोबर्ट्स् इत्यस्य पुरतः शपथं करिष्यति। 

  वाषिङ्टणे अतिशैत्यमनुभूयते इत्यतः कापिटोल् भवनस्य 'रोटन्डा' सभागारं भवति शपथवेदिका। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः राष्ट्रं प्रतिनिधीभूय शपथसमारोहे भागं करिष्यति। 

  शपथवाचनानन्तरं ट्रम्पः राष्ट्रम् अभिसम्बुद्धिष्यते। २०१७ - २०२१ कालखण्डे यू एस् राष्ट्रपतिपदम् ऊढवान् सः वर्षचतुष्टयस्य अन्तरानन्तरं द्वितीयवारमेव राष्ट्रपतिपदं प्राप्नोति।

 गासायां शान्तिकालः। [अल्पकालिकः]

गासायां शान्तिः प्रत्यागच्छति इत्यस्यां प्रतीक्षायां भोज्यवस्तुना सह स्वप्रदेशं प्रतिनिवर्तमानाः बालाः। 

गासासिटी> १५ मासाधिककालं यावत् गासायामनुवर्तमानस्य इस्रयेल-हमासयुद्धस्य ह्यः अहसि ११. १५ वादनतः [तद्देशीयसमयः] गासायां ४२ दिनोपेतः विरामः अभवत्। युद्धविरामसन्ध्यनुसारं चतस्रः इस्रयेलीयमहिलाः ये हमासेन निगृहीताः विमोचिताः। तत्स्थाने ९५ पालस्तीनीयाः ये इस्रालयेन बद्धाः  विमोचयितव्याः। 

  सप्ताहषट्केन अवशिष्टान् ३० बद्धान् हमासः मोचयिष्यति। निगृहीतान् ६०० पालस्तीनीयान् इस्रयेलः अपि।

  गतेषु १५ मासेषु २०,००० बालकानभिव्याप्य ५०,००० जनाः अनेन युद्धेन विगतप्राणाः अभवन्। लक्षद्वयं जनाः व्रणिताः जाताः। यू एस्, खत्तरः इत्यादिराष्ट्राणां नेतृत्वे करता शान्तिचर्चा इदानीं फलवत्ता जाता।

 जम्मुकाश्मीरेषु अज्ञातरोगबाधया १६ जनाः मृताः । सर्वकारेण वैद्यसंघाः नियुक्ताः।

श्रीनगरम्> जम्मुकाश्मीरेषु प्रसरितेषु अज्ञातरोगबाधासु १६ जनाः मृताः। रोगव्यापनं प्रतिरोद्धुं सर्वकारेण वैद्यसंधाः नियुक्ताः सन्ति। रौजौरि जनपदे बधाल ग्रामे ४५ दिनाभ्यन्तरे एव ईदृशी मृतिः अभवत्। २०२४ दिसंबर् मासस्य सप्तमे दिनाङ्के आसीत् रोगबाधया प्रथममरणम् आवेदितम्।