OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 27, 2025

 भारतस्य ७६ तमं गणतन्त्रदिनं प्रौढगाम्भीर्येण आघुष्टम्। 

गणतन्त्रदिनाघोषः। 

नवदिल्ली> सैनिकशक्तेः सांस्कृतिकपारम्पर्यस्य च विलम्बरं कुर्वन् भारतस्य ७६ तमः गणतन्त्रदिनेत्सवः दिल्यां कर्तव्यपथे समायोजित‌ः। इन्डोनेष्यायाः राष्ट्रपतिः प्रबावो सुबियान्तो वर्यः मुख्यातिथिः आसीत्। 

  राष्ट्रस्य विभिन्नाः सायुधविभागाः तेषां बलप्रकाशनरूपं पथसञ्चलनं समावृत्तम्। विविधराज्यानां निश्चलदृश्यानि, ५००० कलाकाराणां भागभागित्वयुतं ४६ कलारूपाणि छात्राणां कार्यक्रमाणि च दिनोत्सवस्य प्रौढिं गाम्भीर्यं च विधत्तम्। आमन्त्रितानां दशसहस्रं विशिष्टजनानां पुरतः एव कार्यक्रमाः संवृत्ताः। 

  राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः नेतारः च भागं कृतवन्तः।