दण्डनम् अनुभोक्तव्यमेव; न्यायाधीशस्य कर्णस्य अपेक्षा अवक्षिप्ता।
नवदिल्ली> न्यायालयालक्ष्याय परमोन्नतनीतिपीठेन षण्मासं यावत् कारागारवासेन दण्डित: कोलकत्ताराज्यन्यायालयस्य पूर्वन्यायाधीश: सी कर्ण: दण्डनम् अनुभवेदिति परमोन्नतनीतिपीठ:। लब्ध: षाण्मासिककारागारवास: निरोद्धव्य:, तथा मध्यवेलाजाम्यं च दातव्यमिति सूचयित्वा तेन समर्पिता हरजीं (न्यायापेक्षां) अवक्षिप्यैव परमोन्नतनीतिपीठस्य मध्यवेलोत्पीठिकाया:निर्णय:। अभिभाषकेन समर्पिता न्यायापेक्षा न्यायालयेन अवक्षिप्ता। सर्वोन्नतन्यायाधीशयुता सप्ताङ्गोत्पीठिका एव दण्डनम् व्यदधात्। इत: परम् प्रत्येकोत्पीठिकया एव न्यायापेक्षा परिगणितुं साध्या इत्यपि न्यायालयेन व्यक्तीकृतम् । कर्णं कोलकत्ताया: प्रसिडन्सी कारागारं प्रेषयेत् , उन्नतारक्षकाधिकारिभि: सह कर्णं कोलकत्तां प्रापितवन्त: । मङ्गलवारे सायं षड्वादने जाते कर्णं तमिल्नाडु आरक्षकसाहाय्येन कोलकत्तारक्षका: गृहीत्वा बन्धितवन्त:। आरक्षकान् दृष्ट्वा जस्टिस् कर्ण: तैस्सह रूक्षवाग्वादानन्तरमेव नियन्त्रणविधेय: अभवत्। मई नवमदिनाङ्के एव परमोन्नतनीतिपीठस्य सर्वोन्नतन्यायाधीशस्य जे एस् खेहारस्य नेतृत्वे सप्ताङ्गोत्पीठिका कर्णस्य दण्डनं व्यदधात्। तत: आरक्षकेभ्य: रक्षाम् प्राप्य गुप्तचारी अभवत् स:। मद्रासराज्यन्यायालयस्य न्यायाधीशत्वेन प्रवर्तमाने, सहन्यायाधीशान् प्रति उन्नीतानि आरोपणानि अनुवर्त्य कर्णं कोलकत्तान्यायालयं प्रति स्थानपरिवर्तनं कृतवन्त:। तत: परमोन्नतनीतिपीठस्थन्यायाधीशान् प्रति दण्डनं व्यदधात् इत्येतत् न्यायालयालक्ष्यनिर्णयाय कारणमभवत्। तन्मध्ये दण्डनं रोधितुं परमोन्नतनीतिपीठम् उपगतवान् चेदपि फलं नाभवत्। न्यायाधीशं कर्णं ग्रहणविषये सहकार: न दत्त: इत्युक्त्वा बङ्गाल डी जी पी तमिल्नाड् आरक्षकान् प्रति रूक्षविमर्शं कृतवान्।OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Friday, June 23, 2017
Thursday, June 22, 2017
योगस्य प्रशस्ति: चीनायाः उन्नतप्राकारेपि
योगद्वारा भारतयश: आलोकं व्याप्यमाने सन्दर्भेस्मिन् चैनाया: काचित् कौतुकवार्ता । जूण् एकविंशति: योगदिनत्वेन आघुष्यमाणे चैनाया: उन्नतप्राकारे प्रवृत्ते योगाभ्यासे भागमूढवन्त: बहव: । भारतीया: चीनादेशीयाश्च तत्र भागमभजन्त । चैनाया: भारतनयतन्त्रविभाग: ( चैनीस् पीप्पिल् असोसियेषन् ) चीनाजनकीयसमित्या सह संयुज्य प्रवर्तनमिदम् आयोजयत् । मङ्गलवासरे प्रात: उपद्वादशयोगाभ्यासिभि: उन्नतप्राकारे कृताभ्यासै: कार्यक्रमस्य आरम्भ: अभवत् । चैनायां योगप्रशस्तिवर्धनम् इति उत्तमलक्ष्येन कार्यक्रम: आयोजित: । एतादृशकार्यक्रमा: भारतचीनासौहार्दस्य ऊष्मलतां वर्धयेयु: तदर्थं सहायका: वा भवेयु: इति भारतमन्त्रालयेन व्यक्तीकृतम् । जूण् एकविंशत्यां योगदिने बीजिङ्मध्ये सहस्रं जना: योगाभ्यासे भागमभजन्त । एतस्मादुपरि भारतात् योगे समर्था: ऊनत्रिंशत् वयस्का: विंशति: अभ्यासिन: बीजिङे तथा चैनाया: अन्यनगरेषु च योगप्रचारणाय प्रवर्तितवन्त: ।चैनायां गणनानुसारं अष्टशतोत्तरदशसहस्रं (१०८००) योगविद्यालया: प्रवर्तन्ते ।
एकत्रिंशत् कृत्रिमोपग्रहाः श्वः बहिराकाशे।
![]() |
| Add caption |
पि एस् एल् वी इत्यस्य चत्वारिशत् तम विक्षेपणमिदम्। पञ्चाधिकपञ्चशत कि. मी उपरिस्थे सौरस्थिर भ्रमणपथे एतान् प्रेषयति। नानो उपग्रहेषु नवविंशति संख्यकाः आस्ट्रिया , बेल्जियम् , चिली , चेक् रिप्पब्लिक्, फिन्लाण्ड् , फ्रान्स् , जर्मनी , इट्टली, जप्पान्,लात्विया, लित्वेनिया, स्लोवाक्या, ब्रिट्टन्, अमेरिका इत्यादि राष्ट्राणां भवन्ति। आहत्य त्रिंशत् उपग्रहाणां भारः त्रिचत्वारिंशदुत्तरद्विशत किलोमितः भवति।
भारतीतीर्थस्वामिनं विधुशेखरस्वामिनं कालट्यां प्रोज्वलं स्वीकरणम्।
कालटी>शृङ्गेरि शारदापीठाधिपतिनं भारतीतीर्थस्वामिनं तथा नियुक्त अनुगामिनं विधुशेखरस्वामिनं च अद्वैतभूमौ भक्तिनिर्भरं स्वागतम्। अलुवातः रविवासरे सायं स्वामिनौ कालट्यां प्रापतुः। हर हर शङ्कर जय जय शङ्कर भेरिभिः स्वामिनौ स्वीचक्रुः। रोजि एम् जोऩ् एम् एल् ए, के. तुलसी, पीजे जोई, जोस् तेट्टयिल्, टी पी रवीन्द्रन् इत्यादि प्रमुखाः स्वामिनौ स्वीकर्तुं आगतवन्तः।
स्वीकरणात् परं आश्रम वीथ्या शृङ्गेरीं प्रति घोषयात्रा आरब्धा। 'पुत्तन् काव्' 'मकरचोव्वा' महोत्सवसमितिः, कालटी एन् एस् एस् 'करयोगं', श्रीरामकृष्ण अद्वैताश्रमं च स्वागतं अकुर्वन्। स्वामिनोः शृड़्गेरी मन्दिरदर्शनानन्तरं विशिष्टे मञ्चे धूलीपादपूजा, स्वागतपत्रसमर्पणं, स्वामिनोः अनुग्रहभाषणं च अभवत्। शृड़्गेर्यां निर्मितस्य नूतनमन्दिरस्य उद्घाटनमपि स्वामिनौ अकुरुताम्। आगामिनि पञ्चदिनेषु प्रातः दशवादनादारभ्य सार्धद्वादशवादनपर्यन्तं भक्तानां दर्शनस्य अवसरः विद्यते। प्रतिदिनं रात्रौ सार्ध अष्ट वादने भारतीतीर्थस्वामिनः कार्मिकत्वेन चन्द्रमौलीश्वरपूजा भविष्यति। एकविंशतिदिनाङ्कात् त्रयोविंशतिदिनाङ्कपर्यन्तं सायं चतुर्वादने स्वामिनोः नेतृत्वे विद्वत्सदस्स् अपि भविष्यति। चतुर्विंशति दिनाङ्के स्वामिनौ तृश्शिवपेरूरं प्रति गमिष्यतः।
Wednesday, June 21, 2017
बिहारराज्याध्यक्ष: रामनाथकोविन्द: एन् डी ए दलस्य राष्ट्रपतिस्थानार्थी।
नवदिल्ली>बिहारराज्याध्यक्ष: रामनाथकोविन्द: एन् डी ए दलस्य राष्ट्रपतिस्थानार्थी भविष्यति । काण्पूरत: आगत: दलितनेता भवति रामनाथ:। देशीयाध्यक्ष: अमित षा एव स्थानार्थिप्रख्यापनं कृतवान्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: अध्यक्षतायां समावेशिते भा ज पा नियमनिर्माणसभामण्डलयोगे (पार्लमेन्टरी बोर्ड् ) रामनाथस्य स्थानार्थित्वं निर्णीतम्। अस्मिन् मासे त्रयोविंशत्याम् नामनिर्देशपत्रिका समर्प्यते। प्रधानमन्त्री नरेन्द्रमोदी सोणियागान्धिना मनमोहनसिंहेन च साकं चर्चां कृतवान् । दलेषु चर्चित्वा निर्णयं ज्ञापयिष्यन्ति इति उक्तवन्त: इत्यपि स्थानार्थित्वप्रख्यापनावसरे अमित षा उक्तवान् । तथा च उपराष्ट्रपते: विषये कापि चर्चा न प्रवृत्ता इत्यपि स: व्यक्तीकृतवान् । पञ्चचत्वारिंशदुत्तरनवशताधिकसहस्रतमे ओक्टोबरमासस्य प्रथमदिनाङ्के कानपुरे रामनाथसिंह: जनिम् प्राप्तवान् । कानपुरस्थसर्वकलाशालाया: बी कोम् , नियमबिरुदानि च प्राप्य षोडशवर्षाणि यावत् देहली उन्नतन्यायालये तत: परमोन्नतनीतिपीठे च अभिवक्तृपदवीमलङ्कृतवान्। अशीत्युत्तरनवशताधिकसहस्रत: त्र्यशीत्युत्तरनवशताधिकसहस्रपर्यन्तम् परमोन्नतनीतिपीठे केन्द्रसर्वकारस्य स्टान्डिङ् कोण्सल् आसीत्। उत्तरप्रदेशात् राज्यसभाम् प्रति द्विवारं चित: (१९९४-२०००), (२०००-२००६)। पट्टिकजातिवर्गक्षेम:, आभ्यन्तरम्, सामाजिकनीति:, नियम:, पेट्रोलियम् आदिषु विविधनियमनिर्माणसभासमितिषु अङ्गमासीत्। लक्नौस्थे बी आर् अम्बेदकरसर्वकलाशालाया: प्रबन्धकमण्डले , कोलकत्तासर्वकलाशालाया: अधिकारपदवीमण्डले च अङ्गमासीत्। द्व्युत्तरद्विसहस्रे ऐक्यराष्ट्रसभायाम् भारतस्य प्रातिनिध्यम् अवहत्। विवादेषु असन्निहित:, उत्तमप्रतिच्छायायुक्त: अयम् रामनाथकोविन्द: स्त्रीभिः दलितैः एवं, समाजस्य दुर्बलविभागैः सह स्थितवान्। लोकसभाङ्गेन प्रवर्तनसमये ग्रामीणमेखलायां शिक्षासौकर्यसज्जीकरणे स: विशेषश्रद्धां दत्तवान्। दुर्बलविभागानां स्त्रीणां च नि:शुल्क-नियमसहाय-दानप्रवर्तनेषु नेतृत्वं दत्तवान् च।Tuesday, June 20, 2017
डार्जिलिङे प्रक्षोभ: अनुवर्तते।
नवदिल्ली> डार्जिलिङे रूक्ष: प्रक्षोभ: अनुवर्तते। शान्ततायै श्रम:। गूर्खा जनमुक्ति मोर्चया (जी जे एम्) चाल्यमान: प्रक्षोभ: शक्तीकृत:। तदनुगत्य जना: शान्ता: भवन्तु इति प्रार्थनया केन्द्रमन्त्री राजनाथसिंह: च रङ्गम् प्रविष्ट:। भिन्नता: अबद्धधारणाश्च चर्चाद्वारा परिहर्तुं श्रम: करणीय: इति स: अभ्यर्थितवान्। डार्जिलिङ्ङस्य स्थितिगती: अधिकृत्य पश्चिमबङ्गालमुख्यमन्त्रिणा ममता बानर्जिना सह भाषणमकरोत् इत्यपि व्यक्तीकृतवान्।
महर्षि वेदव्यास सम्मानेन भगीरथप्रसादत्रिपाठी सम्मानीतः
नवदिल्ली >विश्वविख्यातसंस्कृतविदुषे प्रो. भगीरथप्रसादत्रिपाठीति वागीशशास्त्री वर्याय आजीवन संस्कृत-साहित्यक-साधनार्थं अपरोSप्येक: सम्मान: उपायनीक्रियते। असौ दिल्ली-संस्कृत-अकादम्या: सर्वोच्च महर्षि वेदव्यास सम्मानेन " सभाजयिष्यते। सम्मानोSयं सप्तदशाधिक द्विसहस्र तम वर्षस्य जूनमासस्य सप्तविंशे दिनांके तस्मै उपाहरिष्यते। सम्मानस्यान्तर्गतं एकपञ्चाशत् सहस्राधिक-एकलक्ष्यरूप्यकाणां राशिः संप्रदास्यते। अतः प्राग् प्रो. शास्त्रीवर्य: राष्ट्रपति सर्टिफिकेट ऑफ ऑनर, कालिदाससम्मान:, विश्वभारतीसम्मान:, यशभारतीसम्मानश्चेति विभिन्नपुरस्कारै: अपि समलंकृतो वर्त्तते।
प्रो शास्त्री अधुना यावत् संस्कृत-हिंदी-आंग्लम् चेति विभिन्न भाषासु पंचपंचाशन्मौलिकग्रन्थान् व्यरचयत्, अपि च द्विशताधिक पांडुलिपीनां संपादनम् अमुना विहितम्। सम्प्रति चास्य मनीषिणः षड् ग्रन्था: मुद्राणाधीना: सन्ति ।
अनेन रटनं विनैव संस्कृतप्रशिक्षणस्य नूतनविधेरपि आविष्कारो विहित:। येन विधिना भूरि जना: लाभान्विता: जाजायन्ते।
प्रो शास्त्री अधुना यावत् संस्कृत-हिंदी-आंग्लम् चेति विभिन्न भाषासु पंचपंचाशन्मौलिकग्रन्थान् व्यरचयत्, अपि च द्विशताधिक पांडुलिपीनां संपादनम् अमुना विहितम्। सम्प्रति चास्य मनीषिणः षड् ग्रन्था: मुद्राणाधीना: सन्ति ।
अनेन रटनं विनैव संस्कृतप्रशिक्षणस्य नूतनविधेरपि आविष्कारो विहित:। येन विधिना भूरि जना: लाभान्विता: जाजायन्ते।
Monday, June 19, 2017
पाक् अधिवेशनम्; अनधिकृत: दूरवाणीसङ्केत: (टेलिफोण् एक्स्चेञ्च्) दृष्ट:।
लात्तूरु> भारतसैन्यस्य गोप्यविषयान् स्ववशमानेतुम् भारतदूरवाणीशृङ्खलायाम् पाकिस्थानगुप्तचरसङ्घटनाया: अधिवेश:। तीव्रवादविरुद्धगणेन दूरवाणीविभागेन च शुक्रवासरे कृते संयुक्तसूक्ष्मनिरीक्षणसंशोधने महाराष्ट्रस्य लात्तूरुमण्डले अनधिकृतौ द्वौ दूरवाणीसङ्केतौ प्रवर्तितौ लक्षितौ। भारतस्य दूरवाण्यन्तर्जालशृङ्खलायाम् आरुह्य अन्तर्जालस्थानमानोपरि शब्द: (वी ओ ऐ पी) (वोय्स् ओवर् इन्टर्नेट् प्रोटोकोल्) आधारीकृत्य सन्देशविनिमयमार्गेण अतीव गोप्यानि सेनारहस्यानि स्ववशनयनमेवासीत् तेषाम् उद्देश:। जनुवरित: आरब्धे अन्वेषणे दृष्टिपथमागत: चतुर्थ: अनधिकृतदूरवाणीसङ्केतोयम्। इत: पूर्वं देहल्याम् हैदराबादे भोप्पाले च एवं दूरवाणीसङ्केता: दृष्टा:। जम्मुकाश्मीराधारितसैन्यस्य गुप्तान्वेषणविभागात् आरक्षकेभ्य: सूचना: उपलब्धा: । एता: सूचना: अनुसृत्य महाराष्ट्रस्य तीव्रवादविरुद्धगणेन लात्तूरु आरक्षकविभागेन तथा दूरवाणीविभागेन च संयुज्य कृतायां सूक्ष्मनिरीक्षणशोधनायाम् एव अनधिकृतदूरवाणीशृङ्खला दृष्टिप्राप्ता षण्णवति सिम् समपत्राणि, एकं सङ्गणकम्, त्रीणि यन्त्राणि च इत: गृहीतानि । षण्मासेभ्य: केन्द्रमिदम् प्रवर्तनक्षमम्। त्रयस्त्रिंशत् वयस्क: युवक: कश्चन एतस्य चालक:। इत: प्राप्तसूचनाधारेण कृते अन्वेषणे वालाण्टिग्रामस्थात् आपणात् द्वौ अन्ताराष्ट्रकवाटमार्गौ, चतुर्दश सिम् समपत्राणि अन्यवैद्युतोपकरणानि च गृहीतानि। जान्वालमण्डलस्य बाठकगृहे द्वितीयसूक्ष्मनिरीक्षणशोधनं कृतम्। इत: चतुष्षष्टिसंख्याकानि सिम् समपत्राणि एकम् अङ्कसङ्गणकम् द्वौ अन्ताराष्ट्रकवाटमार्गौ वैद्युतोपकरणानि च गृहीतानि। सार्धचतुर्लक्षरूप्यकमूल्ययुतानि उपकरणानि द्वाभ्यां सूक्ष्मनिरीक्षणशोधनाभ्याम् गृहीतानि। सर्वकारवित्तभवने पञ्चदशकोटिरूप्यकाणां नष्टम् एतेषां कुत्सितप्रवर्तनेन जातम्। दूरवाणीमेखलया अभिमुखीक्रियमाण: अतिरूक्ष: भीषण: भवति एवं सिम् पेटिकाभि: चाल्यमानानधिकृतकेन्द्राणि।Sunday, June 18, 2017
कोच्चि>प्रधानमन्त्रिणा नरेन्द्रमोदिना कोच्चि मेट्रो सेवा केरलाय समर्पितम्।
कलूर अन्तरदेशीय क्रीडङ्कणे निर्मितायां विशिष्ट वेद्यां प्रधानमन्त्री
केरलस्य स्वप्नपद्धतीं राष्ट्राय समार्पयत्। केन्द्रमन्त्री वेङ्कय्य नायिडु मेट्रो स्मार्ट् वण् पत्रं तथा मुख्यमन्त्री पिणराई विजयः मोबईल् वण् मेट्रो आप् च प्रकाशितवन्तौ। मेट्रो
यानस्य प्रथमयात्रायाः उद्घाटनं प्रथानमन्त्री अकरोत्। पालारिवट्टं मेट्रो
निस्थाने वस्त्रखण्डं छिद्य उद्घाटनं निर्व्यूढम्। सम्मेलने मुख्यमन्त्री
पिणराई विजयः, राज्यपालः पि सदाशिवः, केन्द्रमन्त्री वेङ्कय्य नायिडु,
भा जा पा राज्यस्थ अद्ध्यक्षः कुम्मनं राजशेखरः, मेट्रोमान् ई श्रीधरः
इत्यादयाः भागं अभजन्। पुनः सः पालारिवट्टं तः पत्तटिप्पालं पर्यन्तं ते
यात्रां अकुर्वन्।
ज्ञानस्य वास्तविकं लक्ष्यं सामाजिकम् आर्थिकपरिवर्तम्- भरतस्य प्रधानमन्त्री
![]() |
| पि एन् पणिक्कर् |
प्रधानमंत्रिणा उक्तम् यत् अनेन प्रयासेन महत्परिवर्तनं भवितुं शक्यते अपि च तेन जनाः अध्यर्थिता: यत् कस्यापि अभिनन्दनसमये तस्मै उपहारस्वरूपेण पुष्पगुच्छस्य स्थाने पुस्तकं प्रयच्छन्तु।
शिक्षायाः साक्षरतायाश्च केरलराज्यस्य उपलब्धयः प्रशंसयन् श्रीमोदिना न्यगदयत् दक्षिणभारतस्य तटवर्तिप्रदेशः सर्वदा राष्ट्रस्य पथप्रदर्शकः प्रेरणास्रोतश्च विद्यते|
कोच्चीनगरस्य उत्तमदिनानि आगमिष्यन्ति; प्रधानमन्त्री मोदी।
कोच्ची>केरलस्य स्वकीयस्य कोच्चीनगरस्य उत्तमदिनानि समीपभाविनि आगमिष्यन्ति इति कोच्ची मेट्रो रेलमार्गस्य उद्घाटनवेलायाम् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। केरलस्य अभिमानपद्धतौ भागभाक् भवति इत्यत: अभिमानम् भजते - स: सूचितवान्। केन्द्र - केरलसर्वकारयो: समानभागभाक्त्वे सफल: उद्यम: एव कोच्ची मेट्रो। द्विसहस्रकोटिरूप्यकाणि पद्धते: पूर्तीकरणाय केन्द्रविहितमिति प्रधानमन्त्री असूचयत्। उपसहस्रसङ्ख्याका: महिला: त्रयोविंशतिभिन्नलिङ्गा: च कोच्ची मेट्रो मध्ये कर्मकरा: - मोदिना उक्तम् । परिस्थितिसौहार्दविकसनस्य उत्तममातृका एव मेट्रो। मेट्रो पद्धते: पूर्तीकरणाय सहकारं दत्तवद्भ्य: कोच्ची नगरवासिभ्य: तथा मेट्रो विधानस्य पृष्ठत: यत्नं कृतवद्भ्य: च प्रधानमन्त्री अभिनन्दनानि दत्तवान् । केन्द्रसर्वकारेण आविष्कृतस्य "भारते निर्माणम् " ( मेक् इन् इन्ड्या ) पद्धते: दर्शनं व्यक्तीकुर्वन्ति मेट्रो यानस्य पेटिकाविभागा:। भारते निर्मितवस्तूनि उपयुज्य चेन्नै नगरस्य 'अल्स्टोम्' कार्यशालया ता: पेटिका: ( कोच् ) निर्मिता:। राष्ट्रस्य प्राथमिकसुविधाविकसने प्रत्येकश्रद्धा विधीयते केन्द्रेण। "समर्थनगरम् " ( स्मार्ट् सिट्टी ) पट्टिकाया: प्रथमचक्रे कोच्चीमपि अन्तर्भावयत्। नाण्यकार्षिकोत्पन्नानां व्यापारकेन्द्रमिति प्रसिद्धा कोच्ची इत: परं वाणिज्यकेन्द्रमिति विश्रुतं स्यात्। राष्ट्रे पञ्चाशत् नगराणि मेट्रो रेल्यानस्य प्रारम्भाय सन्नद्धानीत्यपि प्रधानमन्त्री व्यक्तीकृतवान्।
वर्षत्रयस्य विलम्बेन बाङ्गलूरु मेट्रो प्रथमभागं पूर्तीकृतम्। उद्घाटनं सम्पन्नम्।
बांङ्लूरु> ४२ कि मी दूरस्थ बांङ्लूरु मेट्रो रेलस्य प्राथम भागस्य द्वादश कि मी दूरस्य उद्घाटनं ह्यः राष्ट्रपतिः प्रणाब मुखर्जी अकरोत् । शनिवासरे सायं षट् वादने आसीत् उद्घाटनम्। साबिगे वीथीतः येलच्चनहल्लि पर्यन्तस्य रेलस्य उद्घाटनेन प्रथमभागः पूर्तीकृतः। रविवासरात् गमनागमनं प्रारप्स्यते। नम्म मेट्रोयाः निर्माणं २०११ तमे प्रारभत।
नम्म मेट्रोयाः अनुमतिः २००६ वर्षे लब्धा चेदपि विलम्बेनैव निर्माणं प्रारब्धम्। प्रथम भागस्य निर्माणं वर्षत्रयस्य विलम्बेन पूर्तीकृतम्। २०१४ तमे निर्माणं पूर्तीकरणीयमासीत्। अतिविलम्बेन बहु आर्थिकनष्टं जातमासीत्।
अतिकठिनैः पाषाणखण्डैः पूरितमिदं क्षेत्रम्। विलम्बस्य हेतुः एषः इति बी एम् आर् सी निदेशकेन प्रदीपेन सिंहेन उक्तम्। बहुत्र केवलं अर्थरात्रौ एव निर्माणं साध्यमासीत्। सः अयोजयत्। उद्घाटने पञ्चसहस्राधिक जनाः आगमिष्यन्ति इति बी एम् आर् सी एल् प्रतीक्षते। नवीने मार्गे दशस्थगनस्थानानि सन्ति। चिक्पेट्, के आर् मार्कट्, लाल्बाग्, जयनगरम्, आर् वी रोड्, बनशङ्करी, जे पी नगरम्, सौत् एण्ड् सरक्किल्, यलचनहल्ली एतानि स्थगनस्थानानि।
शिक्षाक्षेत्रे केरलम् आदर्शराज्यम्- उपराष्ट्रपति:
नवदिल्ली> उपराष्ट्रपतिना मोहम्मदहामिद-अंसारिणा शिक्षा देशस्य विकासाय आधारभूतत्वेन प्रतिपादयता निगदितं यत् केरलं सुशिक्षया एव राष्टस्य आदर्शराज्यत्वेन विकसितम्, अपि च अनेन जातिप्रथां परित्यज्य समतामूलकसमाजस्य स्थापना कृता।
इंडियन सोशल साइंस इत्यनेन शिक्षाधिकारसम्बद्धादेशस्य द्विशतवर्षपूर्त्यवसरे आयोजितकार्यक्रमस्य उद्घाटनावसरे डॉ अंसारिणा एतत् प्रतिपादितम्। तेनोक्तं यत् सप्तदशाधिक-अष्टादशशतमवर्षे ट्रावनकोरस्य महाराज्ञीद्वारा सर्वेभ्यः शिक्षाप्रदानाय यः राज्यादेशः प्रख्यापितः आसीत् तेन राज्ये शिक्षाविषये नूतना सामाजिकचेतना जागृता, यया राज्यस्य सामाजिकविकासः वरीवर्धत, अपि च सामाजिकविकासेन आर्थिकविकासस्य आधारशिला स्थापिता।
शिक्षाक्षेत्रे केरलं देशस्य आदर्शराज्यत्वेन प्रतिष्ठितम्, अनेन न केवलं जातिप्रथा समाप्ता अपितु समतामूलक समाज: विनिर्मितः, इतः अनन्तरं केरलं ज्ञानाधारितं राज्यम् अभूत्। उपराष्ट्रपतिना भणितं यत् साम्प्रतं केरलम् आर्थिकविकासं प्रति अग्रे प्रसरेत् तदर्थम् आंकिकीय-साक्षरता-कौशल-विकास: वर्धनीयः। तेन उक्तं केरलराज्ये प्रतिव्यक्ति आय सर्वाधिका वर्तते अपि च पूंजीनिवेशः अपि वर्धितः। केरलस्य रीतयः सर्वै: ज्ञातव्यं, केरलराज्यम् शिक्षाक्षेत्रे एकं उदाहरणरूपेण दृष्टिपथे समागतः।
Saturday, June 17, 2017
कोच्ची मैट्रोरेलसेवायाः उद्घाटनम्
प्रधानमन्त्री नरेन्द्रमोदी अद्य कोच्चि मेट्रो-रेल-यानसेवायाः उद्घाटनम् अभवत् , अत्रावसरे केन्द्रीयनागरविकासमन्त्री वैंकयानायडुः केरलस्य राज्यपालः पी.सदाशिवमः राज्यस्य मुख्यमन्त्री पिनाराई-विजयनः मैट्रोमैन् इति नाम्ना प्रसिद्धः ई.श्रीधरश्च उपस्थिताः आसन् | ध्यातव्यमिदं यत् कोच्ची मैट्रोरेल-सेवायाः किञ्चित्भागः सौरोर्जेन सञ्चालितो भविष्यति। प्रथमे चरणे अलुवा स्थासनात् पलारीवट्टम् स्थासनं यावत् मैट्रोसेवा सञ्चाल्यते, पञ्चविंशति किलोमीटर-मिता मैट्रोसेवा जनसामान्येभ्यः सोमवासरात् प्रारप्स्यते, अस्यां परियोजनायाम् एकादश मेट्रो-स्थासनानि विद्यन्ते |
१९९३ मुम्बई विस्फोटप्रकरणम्
विगतशताब्दस्य त्रिनवतितमे वर्षे दुरापादिते मुम्बई विस्फोटप्रकरणे टाडा इति विशेषन्यायालयेन मुस्तफा-दौसा अबूसलीमौ समेत्य षड्जनाः आरोपिणः प्रतिपादिताः, अब्दुलकयूमघ विमुक्तो जातः, प्रकरणेSस्मिन् जूनमासस्य ऊनविंशदिनांकः कारावसायदण्डाय निर्धारितः| ध्येयास्पदं वर्तते यत् विगतशताब्दे त्रिनवतितमे वर्षे मार्चमासस्य द्वादशे दिनांके मुम्बईयाम् द्वादश क्रमिकविस्फोटेषुे सप्त-पंचाशदधिकद्विशतजनाः मृता: आसन्।
वित्तकोशलेखानां कृते आधारपत्रम् अत्यावश्यकम्।
नवदिल्ली> सर्वासां वित्तकोशलेखानां कृते आधारपत्रस्य [आधार् कार्ड्] आवश्यकत्वं केन्द्रसर्वकारेण विज्ञापितम्। विद्यमानाः सर्वाः उपयोजकसंज्ञाः डिसम्बर् ३१तमदिनाङ्कात् पूर्वमेव आधारसंख्यया सह योजनीयाः। नो चेत् तादृश्यः लेखाः असाध्व्यः भविष्यन्ति। नूतनवित्तकोशलेखाः प्रकाशयितुमपि आधारपत्रम् अत्यावश्यकं भवेत्। "पान् पत्र" मपि आधारपत्रेण सह योजनीयमिति सर्वोच्चन्यायालयस्य आदेशमनुगम्य एव सर्वकारस्य अयं निर्णयः।
भारतवंशजम् चिप् तन्त्रज्ञम् उन्नतवेतनेन सह गूगिल् मध्ये स्वीकृतवन्त:।
आप्पिल् मध्ये उद्योगस्थम् भारतवंशजम् चिप् तन्त्रज्ञम् उन्नतवेतनेन सह गूगिल् मध्ये स्वीकृतवन्त:। पिक्सलदूरवाणिभ्य: चिप्निर्माणाय एव मनु गुलात्तिनामकं चिप् तन्त्रड्ञं गूगिल्कारा: आप्पिलत: आकृष्टवन्त:। गताष्टवर्षेभ्य: आप्पिल्मध्ये क़र्म करोति स्म मनु गुलात्ति:। स्वस्य नूतनकार्यालय: गूगिल् तत्र ए ओ सी तन्त्रविभागस्य नायकस्थाने एव नियमनम् इत्यपि मनु गुलात्ति: लिङ्क्डिन् परिचायनपत्रे दिनानुगुणविवरणं दत्तवान्। विभिन्नसंस्थासु पञ्चदशवर्षेभ्य: चिप्निर्मातृस्थानके कर्म कुर्वन्नासीत् मनु:। अस्याम् मेखलायां आहत्य सप्तविंशतिवर्षाणाम् प्रवृत्तिपरिचय: अस्यास्ति।
कर्णाटके नवीननियम:, चिकित्सामूल्यं सर्वकार: निश्चेष्यति; अधिकमूल्यस्य कृते पञ्चलक्षं रूप्यकाणि यावत् दण्डनम्।
बङ्गलूरु > कर्णाटके स्वकार्यातुरालयेषु चिकित्सामूल्यं निश्चिनोतुं सर्वकारै: नियम: आनीयते। स्वकार्यातुरालया: अधिकमूल्यम् स्वीकुर्वन्ति इति निवेदनं व्यापकमभवत् इत्यत: नियम: आनीयते। चिकित्सामूल्यनिर्णयं लक्षीकृत्य कर्णाटके स्वकार्यवैद्यविन्यासभेदगतिपत्रं स्वास्थ्यमन्त्री रमेशकुमार: नियमसभायाम् अवातारयत्। स्वकार्यवैद्यकलालयस्य, आतुरालयप्रबन्धकानां च सम्मर्दं अवगण्य एव सर्वकार: भेदगतिविज्ञापनं नियमसभायाम् आनयत्। स्वकार्यातुरालयान् पट्टिकारूपेण विन्यस्य स्यात् चिकित्सामूल्यनिर्णय:। एतदर्थं वैद्यरङ्गे विदग्धान् संयोज्य समिति: निर्मीयते। राज्यचरित्रे इदंप्रथमतया एव एतादृशनियमनिर्माणाय सर्वकारपक्षत: क्रमीकरणम्। स्वकार्यातुरालयेषु लभ्यमानचिकित्सार्थं स्वीकार्यमाणव्यय: सर्वकारेण निश्चीयते। अङ्गीकृतचिकित्सामूल्यमुल्लङ्घ्य ये अधिकं स्वीकुर्वन्ति ते पञ्चविंशतित: पञ्चलक्षं यावत् रूप्यकाणां दण्डनम् , षण्मासत: वर्षत्रयं यावत् कारागारवासं च अनुभवेयु:। रोगिभ्य: चिकित्सार्थं पूर्वमेव धनस्वीकारोपि न शक्यते। चिकित्सामध्ये म्रियमाणरोगिणाम् मृतदेहप्राप्त्यै चिकित्सामूल्यं दद्यादिति निर्बन्धोपि न भवेत् । मृतदेहदानानन्तरं व्ययं स्वीकुर्यात्। वैद्यनिरीक्षणायापि व्ययं निश्चिनोति सर्वकार:। तीव्रपरिचरणविभाग:, शस्त्रक्रियाप्रकोष्ठ:, कृत्रिमश्वासविधानम्, शय्याबाठकम् , वैद्यसन्दर्शनशुल्कम् इति आतुरालयक्रमाणां सर्वेषामपि शुल्कं निश्चीयते। एतस्मात् उपरि प्राप्तुं नार्हति। चिकित्साव्ययाय रोगिण: बन्धूनाम् अनुवादोपि प्राप्तव्य:। रोगिणां कृते चिकित्साया: व्ययस्य स्वरूपपत्रम् पूर्वमेव दद्यात्। अन्तिमशुल्कपत्रम् एतस्मात् अधिकं न भवेत्। रोगिण: विशदांशान् - कन्नडा, आङ्गलेयम्, हिन्दी - भाषासु प्रदर्शयेत् इति व्यवस्थापि नियमे विद्यते। आतुरालयेभ्य: चिकित्साप्राप्ति: रोगिणाम् अवकाशं कारयति निर्दिष्टनियम:। सामाजिक- आर्थिक - जाति - मतभेदं विना सर्वेभ्य: चिकित्साप्राप्तिदृढीकरणमेव लक्ष्यम्। रोगिण: वैद्यान् आतुरालयकर्मकरान् प्रत्यपि मान्यरीत्या व्यवहरेयु: च इत्यपि तत्र निर्देश:। आतुरालयसम्बद्धनिवेदनानाम् परिहाराय मण्डलनिवेदनपरिहारशाला प्रवर्तिष्यते। मण्डलग्रामसभा मुख्यनिर्वाहकाधिकारिण: अध्यक्षतायां निवेदनपरिहारशाला प्रवर्तते। सिविल् न्यायालयस्य अधिकार: शालाया: भवेत्।Friday, June 16, 2017
महाट्टालिकाभवनम् अग्निगोपुरम् अभवत्, अनेके हता:।
लण्डन्>अनुवर्तिभीकराक्रमणानाम् आघातात् अनुत्थितं लण्डन्नगरं कम्पयित्वा महाग्निबाधा। नगरस्य पश्चिमदिशि नोट्टिङ् हिल् प्रदेशे विद्यमानं महाट्टालिकाभवनम् अक्षरार्थे अग्निगोपुरम् अभवत्। द्वादशजना: हता: इति प्राथमिकनिगमनम्। बुधवारे प्रात: एव अस्य चतुर्विंशत्यट्टभवनस्य अग्निबाधा लक्षिता। घण्टानामनन्तरमपि भवनम् ज्वलदेव भवति। अस्मिन् भवनसमुच्चये द्विशतं जना: वासं कुर्वन्ति इति चिन्तयति। अग्निबाधाकारणं न स्पष्टम्। अनेके हता: स्यु: इत्यपि विचार्यते। किन्तु अस्मिन् विषये औद्योगिकस्थिरीकरणं नास्ति। कति जना: मृता: कति जना: क्षतदेहा: इति कृत्यतया वक्तुं न शक्यते। अग्निनियन्त्रणे अर्धमात्रं वा विजय: दृष्ट: चेदेव एतादृशकार्येषु निरीक्षणं साध्यम् भवति इति चिन्तयति आरक्षकवृन्द: अग्निशमनसेना च। नोट्टिङ् हिल् प्रदेशस्य लाटिमर् मार्गे ग्रोण्फेल् टवर् नामकम् भवनमेव लण्डन् नगरचरित्रे एव अश्रुतपूर्वया अग्निबाधया विनष्टम्। द्वितीयाट्टस्य उपरिष्टादेव अग्निबाधाया: प्रारम्भ:। पश्चात् अग्नि: करालहस्तावृता । एकैकस्यापि अट्टस्य अग्निबाधा जाता। भवनं यस्मिन् कस्मिन्नपि क्षणे भूमौ पतेत् इति स्थितिम् प्राप्तम्। अग्निशमनसेनाया: चत्वारिंशत् एककानाम् नेतृत्वे, अग्निनियन्त्रणप्रवर्तनानि अनुवर्तितानि। शतसंख्यकानि अग्निशमनसेनाङ्गानि जीवन्मरणसम्मर्दप्रवर्तनेषु नियुक्तानि इति आवेद्यन्ते। लण्डन् नगरस्य पञ्चसु आतुरालयेषु च चतुष्षष्टिजनान् प्रावेशयत् इति प्राथमिकनिगमने सूच्यते। एतेषु नैकेषां स्थिति: गुरुतरा। भवने रक्षामार्गविनष्टा: जङ्गमदूरवाणीस्थकरदीपान् प्रकाश्य साहाय्यम् अभ्यर्थयन्त: वर्तन्ते। बहुवारम् अट्टगृहेभ्य: वैद्युतयन्त्रसामग्र्य: महाशब्दै: सह स्फोटनात्परम् बहि: पतिता:।
भूतपूर्वः सर्वोच्चन्यायालयमुख्यन्यायाधीशः पि एन् भगवतिः दिवंगतः।
नवदिल्ली >सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधीशः न्याय. पि एन् भगवतिः [९५] दिवंगतः। सर्वोच्चन्यायालयस्य सप्तदशतम मुख्यन्यायाधिपः आसीत्। ततः पूर्वं गुजरात् उच्चन्यायालयस्य मुख्यप्राड्विवाकरूपेण सेवां करोति स्म। पौराणाम् अधिकार संरक्षणाय नितान्तजाग्रतां प्रदर्शयन्नासीत्।अन्तिमसंस्कारक्रियाः श्वः भविष्यति।
पुनरपि वित्तकोशलयनोद्यमेन केन्द्रसर्वकारः।
नवदिल्ली> पुनरपि लघुवित्तकोशानां लयनं निर्वोढुं केन्द्रसर्वकारस्य उद्यमः। देना बैंक्, विजया बैंक्, यूको बैंक्, यूणियन् बैंक् ओफ् इन्डिया, युणैटड् बैंक् ओफ् इन्डिया इत्येतान् वित्तकोशान् कानरा बैंक्, बैंक् ओफ् बरोडा इत्येताभ्यां वित्तकोशाभ्यां सह लाययितुमेव सर्वकारस्य उद्यमः। एतस्य साध्यतां परिशोधयितुं नीति आयोग संस्थां प्रति निर्देशः कृतः। पूर्वं एस् बि टि प्रभृतीनां वित्तकोशानां लयनं कारितमासीत्। तस्य द्वितीयपादरूपेणैव अयमुद्यमः। सार्वजनीनवित्तकोशानाम् अनुपलब्ध ऋणस्य समस्यां पुरस्कृत्य एव सर्वकारस्य अयं पदक्षेपः। राष्ट्रे वित्तकोशानां सप्तलक्षाधिककोटिरूप्यकाणां अनुपलब्धर्णमस्तीति भारतीय रिसर्व् बैङ्क् द्वारा निगदितमासीत्।
आयुः २३, भारतीय-शासन-सेवायां १३तमश्रेण्याम् ।
कण्णूर्>कण्णूर् जनपदस्य परिवारं देशीयः अतुल् जनार्दनन् भारतीय शासन सेवायां १३तमं श्रेणीं प्राप्तवान्। सः केरलराज्यस्तरे प्रथमश्रेणीस्थः। भारतीय विदेशसेवा अस्ति अस्य लक्ष्यम्। विदेश-नयतन्त्रबन्धेषु सः तत्परः अस्ति। सम्यक् स्वपिति। हिन्दी गीतानि शृणोति, आङ्गलेय-दूरदर्शनदृश्यानि पश्यति। पठनाय विशेषसमयं नास्ति। मेक्कानिक्कल् अभियान्त्रिक विद्यायां बिरुदप्राप्तः। बिरुदानन्तरं विनाभ्यासं परीक्षा तेन लिखिता। किन्तु पराजितवान्। द्वितीयवारं अभ्यासेन सह परीक्षां लिखितवान्। भूमिशात्रं ऐच्छिकविषयत्वेन स्वीकृतवान्। परीक्षाः कठिनाः आसन्। साक्षात्कारपरीक्षा अपि किञ्चित् कठिनमासीत्। राजनैतिक क्षेत्राणां प्रश्नाः, केरलसम्बन्धयः प्रश्नाः च प्रमुखतया आसन्। अभियान्त्रिक ज्ञानं भारतीय शासन सेवायां प्रचोदनं अकरोत्। निश्चिता निर्धारिता च पठनरीतिः नासीत्। रात्रौ एकादाशवादनतः प्रातः सार्ध सप्तवादनं वा अष्टवादनपर्यन्तं वा स्वपिति। परीक्षावेलासु ग्रामस्य विवाहादि कार्येषु भागभाक् न अभवत्। सर्वेषां विषयाणां विशदं पठनं आवश्यकं। पठनेषु सुहृदां साहाय्यं आसीत्। भारतीयसेनातः विरमितः एम् वी जनार्दनस्य लतायाः च पुत्रः। सहोदरी नीतू वैभव्।
पठनस्य कृते तेन अवलंबितः मार्गः।पठनार्थं स्वरीतीणां स्वीकरणं कार्यम्।
समीचनं परिश्रमं कार्यम्।
सर्वेषां विषयाणां कण्ठस्थीकरणाय श्रमं न कुर्यात्।
प्रधानज्ञानानां लघुलेखाः निर्मातव्याः।
सगौरवं पठनं कुर्यात्।
समूहमाध्यामानां उपयोगं कुर्यात्।
Thursday, June 15, 2017
तम्बाकचर्वणं कृत्वा समायातं वरं वरयितुं विसम्मतिमकरोत् वधू।
चतुर्विंशतिघण्टा: अपि मुखे तम्बाकचर्वणं कुर्वन्त: युवान: जाग्रताम् पालयन्तु, उत्तरप्रदेशस्य एतस्या: युवत्या: निर्णयं सर्वा: युवत्य: मातृकां कुर्वन्ति चेत् आजीवनान्तं भवन्त: विवाहं विना एव जीवेयु:। उत्तरप्रदेशे बल्लिया मण्डले मुरार्पत्तिग्रामस्य युवती एव कठिनमेतं निर्णयं स्वीकृतवती। विवाहदिने तम्बाकचर्वणेन सहागतं वरं त्यक्तवती एषा। लालगञ्जमण्डले दलनचपाराग्रामे वरस्य गृहम्। विवाहदिने वधूगृहम् प्रविष्टाय वरसङ्घाय महत् स्वीकरणम् अलभत। गृहस्य अन्त: प्रत्येकं सज्जीकृतां विवाहवेदिकाम् प्रति वरस्य आगमनसमये एव एकं कार्यं वध्वा लक्षितम्। वर: सर्वदा तम्बाकचर्वणं कुर्वन्नस्ति। एतं वरयितुम् न शक्यते इति वक्तुं सा सङ्कोचं न प्राकटयत् । सर्वे स्तब्धा: जाता:। बान्धवा: युवतिं निर्णयात् प्रत्यानेतुम् परिश्रमं कृतवन्त:, पराजिताश्च। तस्यां रात्रौ उभयो: बान्धवा: सुहृदश्च चर्चां कृत्वा प्रश्नपरिहाराय अयतन्त। किन्तु स्वनिर्णये अचञ्चलमनस्का अतिष्ठत् युवतिरियम्। वरस्य गृहस्था: समीपस्थे दोकाति - आरक्षणालये स्थितिं न्यवेदयन्। आरक्षणालयस्य सहनिरीक्षक: युवत्या सह वार्तालापं कृतवान् चेदपि निर्णयात् नैव व्यत्यचलत् सापि । विवाहदिनेपि त्यक्तुमशक्यस्य तम्बाकचर्वणशीलस्य सेवकेन एकेन सह जीवितुं सन्नद्धा नेति आरक्षकानपि न्यवेदयत् सा।
अभिज्ञानपत्राणां प्रतिलिपयः नवमाध्यमेन न दद्युः
त्रिशिवपेरुर्> वैयक्तिकसङ्केताः तथा प्रत्यभिज्ञान पत्राणां प्रतिलिप्यः च वाट्स्-आप्, फेस्-बुक् आदि नवीनमाध्यमद्वारा विनिमयः मास्तु इति आरक्षकाणां अन्तर्जालावेक्षकविभागेन स्पष्टीकृतम्। विनिमयः पटलद्वारा भवति चेत् एतस्य दुरुपयोगसाध्यता अस्ति। स्वकीय प्रमाणपत्राणां प्रतिलिपयः सार्वजनिक-सङ्गणकयन्त्रे स्थापयति चेत् तदपि आपत्करः इति अपराधान्वेषण-सङ्घेनापि व्यक्तीक्रियते। एतादृशान् प्रमाणान् उपयुज्य अन्तर्जालापराधाः वर्धिताः इत्यनेन एतादृशी उद्घोषणा। मुख्यप्रमाणानां प्रतिलिपयः जंगम दूरवाण्यामपि मा स्थापयेत्। ई-मेल्, फेस् -बुक्, ट्विट्टर् आदि उपयुज्यानान्तरं लेखतः बहिरागमनं करणीयम्। एतान् उपयुज्य कापुरुषाः अपराधान् कर्तुं प्रयत्नं कुर्वन्तः सन्ति इति आरक्षकाः वदन्ति।
उत्तरप्रदेशे नियमलङ्घकानां लोकयानचालकानां भावचित्रग्रहणे तु पुरस्कार:।
लख्नौ>नियमलङ्घकेभ्य: लोकयानचालकेभ्य: दण्डनविधानं शाक्तीकर्तुं नूतनपद्धत्या सह उत्तरप्रदेशसर्वकार:। वाहनं चालयन् एव दूरवाणीसम्भाषणं, नियमलङ्घनं वा कुर्वत: चालकस्य भावचित्रं स्वीकृत्य "वाट्स् आप् " माध्यमेन गतागतविभागाय प्रेषयितुं शक्यते। एवं ये चित्राणि प्रेषयन्ति, तेभ्य: पुरस्कारान् दातुं च सर्वकारेण निश्चितमिति पी टी ऐ न्यवेदयत्। यानचालनसमये जङ्गमदूरवाण्या सम्भाषणं नियमेन निरोधितं चेदपि यात्रिका: प्रतिदिनम् परिदेवनानि कुर्वन्ति इति उत्तरप्रदेशस्य गतागतमन्त्री स्वतन्त्रदेवसिंह: अवदत्। अत: यात्रिकाणां साहाय्यार्थमेव एतत् क्रमीकरणं स्वीकृतम्। नियमलङ्घकानां यानचालकानां चित्रं गृहीत्वा यात्रिका: प्रेषयितुमर्हन्ति। चित्रं गृहीत्वा प्रेषकाणां यात्रिकाणां कृते रूप्यकपुरस्कारं यच्छेयु: इत्यपि स: न्यवेदयत्। क्रमीकरणस्य एतस्य कृते यात्रिकाणाम् पक्षात् उत्तमप्रतिकरणमपि लभते इति मन्त्री सूचितवान् । आशयोयं द्विधा सफलीकृत: भवेत्, स: योजितवान्। नियमलङ्घनम् सूचयितुम् अधिकार: प्राप्त: इति चिन्ता यात्रिकाणाम् भवेत्। तथैव चालका: दायित्वबोधयुक्ताश्च भवेयु: इति प्रतीक्षापि तेन प्रकटीकृता। नियमलङ्घकानां षण्मासं यावत् कारागारवास: सहस्ररूप्यकाणां दण्डनं च प्राप्तव्ये बहुत्र एतानि नियमलङ्घनानि नैव आवेद्यन्ते। एतस्य परिहाररूपेणापि आशयोयम् उत्तरप्रदेशसर्वकारेण रूपीकृत:। अनेन अश्रद्धया वाहनचालनेन सम्भूयमानापघातान् न्यूनीकर्तुं शक्नुम: इत्यपि स: प्रतीक्षाम् प्राकटयत्।।
Subscribe to:
Comments (Atom)













