OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 18, 2017

केरलस्य सवप्नपद्धतिः कार्यान्विता। मेट्रो देशाय समर्पितम्।
कोच्चि>प्रधानमन्त्रिणा नरेन्द्रमोदिना कोच्चि मेट्रो सेवा केरलाय समर्पितम्। कलूर अन्तरदेशीय क्रीडङ्कणे निर्मितायां विशिष्ट वेद्यां प्रधानमन्त्री केरलस्य स्वप्नपद्धतीं राष्ट्राय समार्पयत्। केन्द्रमन्त्री वेङ्कय्य नायिडु मेट्रो स्मार्ट् वण् पत्रं तथा मुख्यमन्त्री पिणराई विजयः मोबईल् वण् मेट्रो आप् च प्रकाशितवन्तौ। मेट्रो यानस्य प्रथमयात्रायाः उद्घाटनं प्रथानमन्त्री अकरोत्। पालारिवट्टं मेट्रो निस्थाने वस्त्रखण्डं छिद्य उद्घाटनं निर्व्यूढम्। सम्मेलने मुख्यमन्त्री पिणराई विजयः, राज्यपालः पि सदाशिवः, केन्द्रमन्त्री वेङ्कय्य नायिडु, भा जा पा राज्यस्थ अद्ध्यक्षः कुम्मनं राजशेखरः, मेट्रोमान् ई श्रीधरः इत्यादयाः भागं अभजन्। पुनः सः पालारिवट्टं तः पत्तटिप्पालं पर्यन्तं ते यात्रां अकुर्वन्।