OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 16, 2017

आयुः २३, भारतीय-शासन-सेवायां १३तमश्रेण्याम् ।
कण्णूर्>कण्णूर्  जनपदस्य  परिवारं देशीयः अतुल् जनार्दनन् भारतीय शासन सेवायां १३तमं  श्रेणीं प्राप्तवान्। सः केरलराज्यस्तरे  प्रथमश्रेणीस्थः। भारतीय  विदेशसेवा अस्ति अस्य लक्ष्यम्। विदेश-नयतन्त्रबन्धेषु सः तत्परः अस्ति। सम्यक् स्वपिति। हिन्दी गीतानि शृणोति, आङ्गलेय-दूरदर्शनदृश्यानि पश्यति। पठनाय विशेषसमयं नास्ति। मेक्कानिक्कल् अभियान्त्रिक विद्यायां बिरुदप्राप्तः। बिरुदानन्तरं विनाभ्यासं परीक्षा तेन लिखिता। किन्तु पराजितवान्। द्वितीयवारं अभ्यासेन सह परीक्षां लिखितवान्। भूमिशात्रं ऐच्छिकविषयत्वेन स्वीकृतवान्। परीक्षाः कठिनाः  आसन्।  साक्षात्कारपरीक्षा अपि किञ्चित् कठिनमासीत्। राजनैतिक क्षेत्राणां प्रश्नाः,  केरलसम्बन्धयः प्रश्नाः च प्रमुखतया आसन्। अभियान्त्रिक ज्ञानं भारतीय शासन सेवायां प्रचोदनं अकरोत्। निश्चिता निर्धारिता च पठनरीतिः नासीत्। रात्रौ एकादाशवादनतः प्रातः सार्ध सप्तवादनं वा अष्टवादनपर्यन्तं वा स्वपिति। परीक्षावेलासु ग्रामस्य विवाहादि कार्येषु भागभाक् न अभवत्। सर्वेषां विषयाणां विशदं पठनं आवश्यकं। पठनेषु सुहृदां साहाय्यं आसीत्। भारतीयसेनातः विरमितः एम् वी जनार्दनस्य लतायाः च पुत्रः। सहोदरी नीतू वैभव्।
पठनस्य कृते तेन अवलंबितः  मार्गः।
पठनार्थं स्वरीतीणां स्वीकरणं कार्यम्।
समीचनं परिश्रमं कार्यम्।
सर्वेषां विषयाणां कण्ठस्थीकरणाय श्रमं न कुर्यात्।
प्रधानज्ञानानां लघुलेखाः निर्मातव्याः।
सगौरवं पठनं कुर्यात्।
समूहमाध्यामानां उपयोगं कुर्यात्।