OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 17, 2017

वित्तकोशलेखानां कृते आधारपत्रम् अत्यावश्यकम्।
नवदिल्ली> सर्वासां वित्तकोशलेखानां कृते आधारपत्रस्य [आधार् कार्ड्] आवश्यकत्वं  केन्द्रसर्वकारेण विज्ञापितम्। विद्यमानाः सर्वाः उपयोजकसंज्ञाः डिसम्बर् ३१तमदिनाङ्कात् पूर्वमेव आधारसंख्यया सह योजनीयाः। नो चेत् तादृश्यः लेखाः असाध्व्यः भविष्यन्ति। नूतनवित्तकोशलेखाः प्रकाशयितुमपि आधारपत्रम् अत्यावश्यकं भवेत्।
    "पान् पत्र" मपि आधारपत्रेण सह योजनीयमिति सर्वोच्चन्यायालयस्य आदेशमनुगम्य एव सर्वकारस्य अयं निर्णयः।