OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 16, 2017

पुनरपि वित्तकोशलयनोद्यमेन केन्द्रसर्वकारः।
नवदिल्ली> पुनरपि लघुवित्तकोशानां लयनं निर्वोढुं केन्द्रसर्वकारस्य उद्यमः। देना बैंक्, विजया बैंक्, यूको बैंक्, यूणियन्  बैंक् ओफ् इन्डिया, युणैटड् बैंक् ओफ् इन्डिया इत्येतान् वित्तकोशान् कानरा बैंक्, बैंक् ओफ् बरोडा इत्येताभ्यां वित्तकोशाभ्यां सह लाययितुमेव सर्वकारस्य उद्यमः। एतस्य साध्यतां परिशोधयितुं नीति आयोग संस्थां प्रति निर्देशः कृतः।
     पूर्वं एस् बि टि प्रभृतीनां  वित्तकोशानां  लयनं कारितमासीत्। तस्य द्वितीयपादरूपेणैव अयमुद्यमः। सार्वजनीनवित्तकोशानाम् अनुपलब्ध ऋणस्य समस्यां पुरस्कृत्य एव सर्वकारस्य अयं पदक्षेपः। राष्ट्रे वित्तकोशानां सप्तलक्षाधिककोटिरूप्यकाणां अनुपलब्धर्णमस्तीति भारतीय रिसर्व् बैङ्क् द्वारा निगदितमासीत्।