OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 18, 2017

वर्षत्रयस्य विलम्बेन बाङ्गलूरु मेट्रो प्रथमभागं पूर्तीकृतम्। उद्घाटनं सम्पन्नम्।
 
बांङ्लूरु> ४२ कि मी दूरस्थ बांङ्लूरु मेट्रो रेलस्य प्राथम भागस्य द्वादश कि मी दूरस्य उद्घाटनं ह्यः  राष्ट्रपतिः प्रणाब मुखर्जी अकरोत् । शनिवासरे सायं षट् वादने आसीत् उद्घाटनम्। साबिगे वीथीतः येलच्चनहल्लि पर्यन्तस्य रेलस्य उद्घाटनेन प्रथमभागः पूर्तीकृतः। रविवासरात् गमनागमनं प्रारप्स्यते। नम्म मेट्रोयाः निर्माणं २०११ तमे प्रारभत।
    नम्म मेट्रोयाः अनुमतिः २००६ वर्षे लब्धा चेदपि विलम्बेनैव निर्माणं प्रारब्धम्। प्रथम भागस्य निर्माणं वर्षत्रयस्य विलम्बेन पूर्तीकृतम्। २०१४ तमे निर्माणं पूर्तीकरणीयमासीत्। अतिविलम्बेन बहु आर्थिकनष्टं जातमासीत्। 

    अतिकठिनैः पाषाणखण्डैः पूरितमिदं क्षेत्रम्। विलम्बस्य हेतुः एषः इति बी एम् आर् सी निदेशकेन प्रदीपेन सिंहेन उक्तम्। बहुत्र केवलं अर्थरात्रौ एव निर्माणं साध्यमासीत्। सः अयोजयत्। उद्घाटने पञ्चसहस्राधिक जनाः आगमिष्यन्ति इति बी एम् आर् सी एल् प्रतीक्षते। नवीने मार्गे दशस्थगनस्थानानि सन्ति। चिक्पेट्, के आर् मार्कट्, लाल्बाग्, जयनगरम्, आर् वी रोड्, बनशङ्करी, जे पी नगरम्, सौत् एण्ड् सरक्किल्, यलचनहल्ली  एतानि स्थगनस्थानानि।