OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 24, 2018

वातशीतीकरणीनां  सामान्यतापमानं २४° इति न्यूनीक्रियते।
   नवदिल्ली> भारतराष्ट्रस्य वातशीतीकरणीनां सामान्यतापमानं चतुर्विंशति डिग्री इति न्यूनीकरतुं केन्द्रसर्वकारः। पर्यालोचयति। कतिपय मासाभ्यन्तरेण एवं भविष्यति इति ऊर्जमन्त्री वि के सिंहः विगतशुक्रवासरे अवदत्। वातशीतीकरणीनां निर्मातारः उपभोक्तृृृृ़णाम् स्वास्थ्याय अनुयेज्यतापमानः  शीतीकरण्याः उपरि लेखनीयम्  इति तेन निर्मातारः अादिष्टाः। मनुष्यस्य शारीरिकतापः ३६°- ३७° मध्ये भवति। किन्तु व्यवसायिक संस्थासु भक्ष्यशालासु च १८- २१° इति क्रमेण तापमानः संस्थापयति इत्यनेन  तत्रत्यानां जनानां स्वेदिका कम्पलादीनि उपयोक्तुम् निर्बन्धिताः अभवन्। एतत् ऊर्जस्य दुर्व्ययमेव भवति इत्यपि सः अवदत्। 

Saturday, June 23, 2018

केन्द्र-बालसाहित्य-पुरस्काराय डा सम्पदानन्दमिश्रः  चितः - संस्कृतस्य साफल्यम्।
     पुतुच्चेरी> ओडीषाराज्यस्य संस्कृतबालसाहित्यरचयिता डा. सम्पदानन्दमिश्रः २०१८ तमस्य बालसाहित्यपुरस्काराय चितः। महोदयेन विरचितं शनैः  शनैः इति पुस्तकस्य कृते भवति पुरस्कारः।    

     संस्कृतक्षेत्रे सुज्ञातस्य सम्पदानन्दस्य यत्नः बालनां कृते सरलतया मनोरञ्जकरूपेण संस्कृतभाषायाः प्रस्तुतिकरणे आसीत्। अनेन दिव्यवाणी नाम संस्कृत-रेडियो प्रसारणं २०१३ तमे ऐदंप्राथम्येन समारब्धम्। २४ होरापर्यन्तम् अस्ति अस्य प्रसारणम्। २०१४ तमे संवत्सरे मिश्रमहोदयः संस्कृतबालसाहित्यपरिषत् इति संस्थां समारब्धवान्। बालसाहित्यस्य पोषणाय अासीत् तस्य यत्नः।

साहित्य अक्कादमि संस्थया २१भाषातः पुरस्काराय पुस्तकानि स्वीकृतानि। तासु संस्कृतमपि अन्यतमा इत्येतत् सा संप्रति नवजीवना इत्यस्य निदानं भवति।

Friday, June 22, 2018

न्यूयोर्क्-नगरे प्रथमे अन्ताराष्ट्रिय-योगविचारसत्त्रे गुरुवरः महामहोपाध्यायः डा. जि गङ्गाधरन् नायर् महोदयः भाषणं करोति सम्प्रतिवार्तापत्रिकायाः तथा दृश्यवाहिन्यः निदेशकः भवति अयम्।
मा गच्छतु गुरो- आक्रन्दनेन छात्राः।
         चेन्नै> छात्राणां प्रियंकरः भवति भगवान् नामकः गुरुः।  तस्मै इदानीं स्थानान्तरणम् इति श्रुत्वा छात्राः क्रन्दिताः तेषां रक्षाकर्तारः अपि क्रन्दिताः। मा गच्छतु इत्युक्त्वा छात्राः तम्  आश्लिष्टवन्तः। गुरुशिष्य बन्धस्य दुर्लभदृश्यमासीत्  चेन्नै समीपे तिरुवळ्ळूरस्थ वळ्ळियगरं सर्वकारीयोच्छविद्यालये। तत्रत्यस्य आङ्गलेयाध्यापकस्य जि भगवानस्य स्थानान्तरणम् एव छात्रान् सङ्कटस्य कारणम्। रक्षाकर्तारः अपि एतस्य स्थानान्तरणं विरुध्य प्रतिषिद्धाः। अनध्ययनेन सर्वे छात्राः बहिर्गताः। भगवान् अध्यापकरूपेण नास्ति चेत् छात्रान् विद्यालयं प्रति न प्रेषयते इति रक्षाकर्तारः नियमसभा सामाजिकानां पुरतः अवदत्।
छात्राणां तथा रक्षाकर्तृृृृणाम् आवश्यं प्राध्यापकेन अरविन्देन शिक्षाविभागस्य अधिकारिणः पुरतः नयवेदितम्। स्थानान्तरणं दशदिनेभ्यः निवारितम् अधिकारिभिः।

     षट्विंशतिवर्षदेशीयस्य अस्य प्रथमा नियुक्तिः भवति इयम्।  तस्य अागमनेन छात्राणां आङ्कलेयाध्ययने प्रगतिः दृश्यते। छात्राः सर्वे उत्तीर्णतां यान्ति।  बुभुक्षितानां कृते अन्नमपि अनेन दीयते। स्वल्पेनैव कालेन  छात्राणां हृदयेषु चिरप्रतिष्ठितः अभवत् सः।
यू ए ई राष्ट्रे मासत्रयात्मकं सामाजिकम् अपराधक्षमादानम्।
   दुबाय् > यथानुसृतम् अधिवासपत्रं  विना ये यू ए ई राष्ट्रमधिवसन्ति तेभ्यः शासनदण्डनं विना स्वदेशं प्रतिगन्तुं सन्दर्भः विधीयते तद्राष्ट्रेण। ओगस्ट् मासस्य प्रथमदिनाङ्कादारभ्य मासत्रयपर्यन्तम् इदं क्षमादानं प्राबल्ये वर्तिष्यते। 
    गतैः कतिपयसप्ताहैः 'विसा'पत्रसम्बन्धिषु विषयेषु यू ए ई राष्ट्रेण अनुवर्तमानानां परिष्काराणाम् अनुस्यूतता भवतीदं क्षमादानम्।
विश्वैक्यस्य  शक्तिस्रोतः भवति योगः - भारतस्य प्रधानमन्त्री।
    देराडूण्>  विश्वं योगं  आलिंगति अन्ताराष्ट्र योगदिनं अस्य सूचनाः एव आविश्वं प्रसारयति  इति प्रधानमन्त्री नरेन्द्रमोदी। आयुरारोग्य-सोख्यस्य अन्वेषणे योगदिनं विश्वस्य बृहत् परम्परा जातम् इति तेन अवदत्। दराडूण् फोरस्ट् इन्टिटूषन् मध्ये योगदिनस्य उद्घाटनं कृत्वा भाषमाणः आसीत् सः। दराडूणतः डब्लिन् पर्यन्तं षाङ्हाईतः चिक्कागो पर्यन्तं  जक्कार्तातः जोहन्नस्बर्ग् पर्यन्तं केवलं योगः  एव अस्ति।
   अतिशीघ्रं प्रचलमाने समाजे एकस्य व्यक्तेः शरीरं मनः मस्तिष्कं च एकीकृत्य योगः  शान्तिः  प्रददति इति प्रधानमन्त्री अभिप्रैति।
    अन्ताराष्ट्र योगदिनस्य भागत्वेन राष्ट्रे सर्वत्र विपुलानि कार्यक्रमाणि प्रचलन्ति। उत्तराखण्ड् राज्ये ५०००० जनानां योगप्रक्रियायां प्रधानमन्त्रिः भागभाक् अभवत्। राफि मार्ग्तः राज् पथ् पर्यन्तं इण्ड्यागेट् परिसरः च जननिबिडं भवति। सहस्रशः जनाः आस्थाने योगासनं कर्तुं समागताः। विविधाः संस्थाः योगदिनाचरणाय राज् पथे आगताः।
      केन्द्र-परिस्थिति मन्त्री हर्षवर्धेनेन सह अनेके प्रमुखाः दिल्यां योगाभ्यासे भागभाजः अभवन्। केन्द्रमन्त्रिणः राज्नाथ् सिंहः लख्नौ नगरे नितिन् गड्करी नाग्पूर् नगरे सुरेष् प्रभुः  चेन्नै मध्ये प्रकाश् जावडेक्करः  मुबाई मध्ये उमाभारती रुद्रप्रयागे रविशंकर प्रसादः पाट्नामध्ये केन्द्र-नैपुण्यविकसनसहमन्त्री अनन्तकुमार् हेड्गे कोच्ची मध्ये च भागभाजः अभवन्।
रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः।
        तिरुवनन्तपुरम्>  केरळराज्यस्य भक्ष्यसुरक्षा विभागेन रासवस्तुमयाः 12,000 किलो मिताः मत्स्याः गृहीताः। अमरविळ घट्टकुट्यां    कृतायां शोधनायामेव फोर्मालिन् नाम रासवस्तु परिषिञ्च्य विक्रयणाय आनीतान् मत्स्यान् अपश्यन्। इतरराज्येभ्यः अानीतेभ्यः 6000 किलोमितेषु मत्स्येषु फोर्मालिन् अधिकतया अासीत्।

    वाळयार् घट्टकुट्यां कृतायां शोधनायां 6000 किलो मत्स्याः उपयोगहीनाः इति स्वास्थ्यमन्त्रिणः कार्यालयस्य वार्तालेखे विज्ञापितम्। प्रतिकिलोमितेषु मत्स्येषु 63 मिल्लीग्रां फोर्मालिन् अस्ति इति सेन्ट्रल् इन्स्टिट्यूट् ओफ् फिषरीस् टेक्नोलजि संस्थायाः परीक्षणशालायाः शोघनया प्रमाणीकृतम्।

   मृतशरीराणि जीर्णतां विहाय संरक्षितुम् उपयुज्यमानं रासवस्तु भवति फोर्मालिन्। अस्य उपयोगेन अामाशयस्य पचनव्यवस्थायाः नाशः अर्बुदादिरेगाः च फलम्।

Thursday, June 21, 2018

सामाजिकसुरक्षानिवृत्तिवेदनवितरणाय नूतना संस्था।
तिरुवनन्तपुरम्> सामाजिक-सुरक्षा-निवृत्तिवेदन-वितरणाय नूतना संस्था अायोक्ष्यते केरळसर्वकारेण। धनकार्य विभागस्य संरक्षणायां भवति नूतन स्थापना। विषयेടस्मिन्  मन्त्रिसभायाः निर्णयः समभवत्। निवृत्त वेतनवितरणाय धनं राज्यसर्वकारः संस्थायै प्रदास्यति। संस्थायां १००℅ भागाधिकारः सर्वकारस्यैव भविष्यति। निदेशकसम्त्यध्यक्षः धनमन्त्री प्रबन्धकनिर्देशकः धनविभागस्य  सचिवः च भविष्यतः। विविधक्षेमनिधि आयोगोन एव इदानीं न्वृत्तवेदनानि वितीर्यते। विविध-विभागतः जायमान नियन्त्रेणेन निवृत्तवेतनवितरणे विलम्बं कारयति इत्यनोन एव नूतनप्रक्रमः।
विश्वकल्याणाय योगः - अद्य विश्व योगदिनम्- ।

Wednesday, June 20, 2018

उष्णवातेन ओडीषायां विद्यालयोद्धाटनम्  विस्तारितम्।
भुवनेश्वरम्> शक्तेन उष्णवातेन ओडीषायां विद्यालयोद्धाटनम्  विस्तारितम्।  उष्णकालविरामानन्तरं विद्यलयोद्घाटने एव  विलम्बः।  जूण्मासस्य२६ दिनाङ्के उद्घाटनं भविष्यति इति मुख्यमन्त्री नवीन पटनायकः अवदत्। एप्रिल्मासस्य २५ दिनाङ्के पिधानं कृतं विद्यालयं जुण्मासस्य १८ दिनाङ्के उद्घाटयितुं निश्चितमासीत् ।
कूपीजले विषांशः। 
   तिरुवनन्तपुरम्- > केरलराज्ये विक्रीते कूपीजले विषसान्निध्यम्। विना शुद्धीकरणं जलविक्रयणं कृतानां  दशसंस्थानां प्रवर्तनं निरोद्धुं भक्ष्यसुरक्षाविभागेन निर्देशः दत्तः। तान् प्रति नियमक्रियाः अपि आरब्धाः। मक्टोवल्स्, गोल्डन् वाली, ग्रीन्वाली इत्यादि प्रमुखानां कूपीजलानां शुद्धता भक्ष्यसुरक्षाविभागेन निरीक्षिता।  ब्लू ऐरिस्, अशोका, मौण्ड् मिस्ट् अक्वा सेयर् , बेसिक्, टिप्लोमाट्, बिस्ट्रोल्, इत्यादीन् इतः परं विक्रयणं न कुर्यादिति निर्दिष्टम्। संस्थाभिः जलादानं शुचित्वं विना कुर्वन्ति इति निरीक्षणे व्यक्तं जातम्। भक्ष्यसुरक्षा विभागस्य आवेदनं भक्ष्यसुरक्षा अध्यक्षाय राजमाणिक्याय प्रदत्तम्।

   राष्ट्रे विक्रीतेषु कूपीजलेषु दशसु त्रीणि मलिनजलयुक्तानि इति केन्द्र-भक्ष्यमन्त्रिणा सी आर् चैधरिणा लोकसभायां प्रख्यापितम्। पलास्तिक-चूर्णयुक्तानि भूरिशानि कूपीजलानि। तानि अर्बुदादि अतिमारक रुग्णहेतूनि भवन्ति।

Tuesday, June 19, 2018

जप्पान् राष्ट्रे शक्तं भूचलनम्- त्रयः मारिताः।
टोकियो>पश्चिम जापानस्य ओसाकि देशे भूचलने त्रयः हताः। हतेषु एका बालिका भवति। उपद्विसहस्रं क्षताः। रिक्टर् मापिकायां ६.१ इति तीव्रं इति अङ्कितम् अस्ति। स्थावरजङ्गमवस्तूनां नाशः अधिकतरः अभवत्। नववयस्कया बालिकया सह त्रयः मारीताः। जनाः भयचकिताः अभवन्। हृदयस्तम्भनेन बहवः अातुरालयं प्रविष्टाः। भौमोपरितलात् १० किलोमीट्टर् अधः एव चलनस्य प्रभवकेन्द्रः। भित्तिपातेन एव वृद्धः बालिका च मृतौ। सुरक्षानुबन्धतया रेल्यानसेवा स्थगिता। मिहाम तकाहाम अोहि अणुनिलयानां सुरक्षादोषाः न सन्ति इति कान्सायि विद्युच्छक्तिविभागेन ज्ञापितः। 

Monday, June 18, 2018

भारतस्य पादकन्दुकक्रीडासंघाय अनुज्ञा 
 -रजीश् नम्पीशः
  नवदल्ही > अस्मिन् वर्षे आगस्तमासे इन्टोणेष्या मध्ये आरभ्यमाने 'एष्यन् गेय्म्स्' मध्ये भागं कर्तुं पादकन्दुकक्रीडासंघाय सर्वकारस्य अनुमतिः लब्धा इति सूचना।गेय्म्स् मध्ये पादकन्दुकक्रीडासंघस्य भागभाक्त्वविषये पूर्वम् अनिश्चितत्वमासीत्। नूतननिर्णयः पादकन्दुकक्रीडाप्रेमिणां कृते आह्लाददायकः भवति।  एष्यायाः उत्तमाः संघाः गेय्म्स् मध्ये भागं करिष्यन्तीत्यतः तै साकं क्रीडनाय अवसरः भारतसंघाय उपकारकः भवेत्  इति परिशीलकेन कोण्स्टन्टैन् महोदयेन अभिप्रेतम्।
काश्मीरे विस्फोटनं पञ्चदश जनाः व्रणिताः 
     श्रीनगरम् > काश्मीरे जायमाने विस्फोटने पञ्चदश जनाः व्रणिताः । गन्दर् बाल् जनपदस्य मनस् बाल् क्रीडोद्याने एव घटना जाता। अवक्षयवस्तूनां पात्रे अासीत् विस्फोटकम् इति अारक्षकैः उक्तम्। व्रणितानाम् अवस्था न गुरुतरा। घटनाम् अधिकृत्य अन्वेषणम् आरब्धम् इति अरक्षकैः उक्तम्।
प्रधानमन्त्रिणः गृहं प्रति अाप् दलस्य पदसञ्चलनम्
     नवदिल्ली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः गृहं प्रति अम आद्मि दलीयेन  कृतं पदसञ्चलनम् आरक्षकैः निवारितम्।  लोककल्याणमार्गे एव भवति वासगृहम्। संसद मार्गे एव अारक्षकैः प्रधिषेधपदसञ्चलनं  निवारितम् इति दलनेतारः टिट्वर् द्वारा प्रकाशितम्। 

Sunday, June 17, 2018

जलशुद्धीकरणाय आगिरणम् (sponge ) नूतनप्रत्यभिज्ञानेन भारतीयवनिता।
      टोरेन्टो> जलेविद्यमानानां मालिन्यानां गिलनाय नूतनम् आगिरणं निर्मीय भारवंशजा अनुसन्धात्री। हैद्राबाद् नगरात् अमेरिकां प्राप्तवती पावणी चेरुकुपळ्ळी नामिका भवति एषा। अगिरणी उपयुज्य लघुव्ययेन जलशुद्धीकरणः शक्यते इति विशेषता अस्ति अस्याः अनुसन्धानाय। टोरन्टो विश्वविद्यालयस्य शोधच्छात्रा भवति पावणी। विश्वविद्यालयस्यल यन्त्रतन्त्रविभागेल भवति तस्याः अनुसन्धानम्।  समान्य अागिरणमेव एतदर्थम् उपयुज्यते।   जले विलीना जैवरासमालिन्यनि एवं निष्कासितुं शक्यते।  पोली यूरत्तिन् उपयुज्य निर्मितः विद्युत् कणेन  निभृतम् आगिरणम् जलमालिन्यात् अयोण् कणान्  इति ज्ञात्वा एव नूतनाशयानाम् प्रकाशनम्।
अमेरिक्कायाः उत्पन्नानानां कृते भारतमपि करः वर्धितः
-डा. अभिलाष् जे
      नवदेहली> चैना अनन्तरं भारतेनापि अमेरिक्कायाः व्यापार युद्धं प्रति कठिना प्रतिक्रिया प्रतिक्रिया प्रारब्धा।अमेरिक्कातः आगतानां  त्रिंशत् उत्पन्नानां करः पञ्चाशत् प्रतिशतं वर्धितुं केन्रसर्वकारः प्रयत्नः आरब्धः।
    वर्धितकराणां उत्पन्नानां सारांशं विशदीकृत्य भारतं विश्व व्यापार संस्थां औपचार्कतया न्यवेदयत्।भारतात् गतानां अयसः अलुमिनियम् उत्पन्नानां करः अमेरिक्कया वर्धितः आसीत्। २४.१ कोटि डोलर् अमेरिक्का भारतस्य उपरि स्थापितः आसीत्।एतस्य प्रतिक्रिया रूपेण अस्ति भारतस्य प्रवृत्तिः।
फिफा विश्वचषकपादकन्दुकक्रीडा - अर्जन्टीनादलं बन्धयित्वा ऐस्लण्ट् ।
-रजीश् नम्पीशः
    स्पार्टक् >  भूतपूर्वविश्वचषकजेतारं अर्जण्टीनादलं १-१ इत्यङ्के बन्धयित्वा ऐस्लण्ट्दलं फिफा विश्वचषकपादकन्दुकक्रीडायां स्वसान्निध्यं न्यवेदयत्। प्रमुखक्रीडकः मेसी ऐस्लेण्ट् क्रीडकस्य अपराधेन लब्धम्‌ पेनाल्टिं नष्टीकृत्य क्रीडायां दुरन्तनायकः अभवत्। क्रीडायां   १९तमे निमेषे अगूरो लक्ष्यं प्राप्य अर्जण्टीनादलं अग्रे नीतः आसीत्। किन्तु चतुर्निमेषाभ्यन्तरे एव फिन्बोगनसन्‌ द्वारा ऐस्लण्ट् लक्ष्यस्य प्रतिदानमकरोत्। ततः परं क्रीडायाः ६४तमे निमेषे पेनाल्टिरूपेण लब्धः सुवर्णावसरः मेसिनः अश्रद्धया नष्टः अभवत्। एतत् तु क्रीडायाः गतिनिर्णये कारणमभवत्। अनया क्रीडया द्वयोरपि दलयोः अङ्कमेकं लब्धम्‌।

Saturday, June 16, 2018

मलालाम् आक्रमितुम् निर्दिष्टवान् भीकरः निहतः।   
      काबूल्> बालिकानां शिक्षायै प्रयतितवती इत्यनेन मलाला यूसफ् साय् नामिकां बालां  हन्तुम् आदेशं दत्तवान् आसीत् तालिबानस्य भीकरनेता मौलाना फसलुल्ला। इदानीं सः अफ्गानिस्थाने निहतः इति अवेदनम् समागच्छति। 
     यु एस् सैनिकप्रक्रमे एव एतस्य मृत्युः। वैमानिकरहित विमानाक्रमणमेव सेनया कृतम्। आक्रमणे तालिबानस्य चत्वारः नेतारः अपि निहताः इति राष्ट्रियवार्तामाध्यमानि वोयिस् ओफ् अमेरिकां साक्षीकृत्य न्यवेदितानि। पेषवार् सैनिकविद्यालयस्य १५१ छात्राणाम् मृत्योः कारणभूतः गोलिकाप्रहराय नेतृत्वमभजत एषः। 
फिफा विश्वचषकपादकन्दुकक्रीडायाम् उरुग्वायदलस्य विजयः। 
रजीश् नम्पीशः
   एकतरीनबेर्ग >   फिफा विश्वचषकपादकन्दुकक्रीडायाः द्वितीयस्फर्धायाम् ईजिप्तदलस्योपरि उरुग्वायदलस्य लक्ष्यमेकेन विजयः(१-०)। प्रमुखक्रीडकं मुहम्मदसलां विना अपि ईजिप्तदलम् उरुग्वायं प्रति अन्तिमनिमेषपर्यन्तम् उत्तमरीत्या एव क्रीडितम्। स्पर्धायाः अन्तिमनिमेषे उरुग्वायदलाय होसे जिमेनेस् उज्वलशिरताडनेन लक्ष्यं समपादयत्। सुवारस्, कवानी इत्येतयोः प्रमुखक्रीडकयोः सान्निध्येऽपि उरुग्वायदलस्य प्रकटनं निराशापूर्णमासीत्।
चरित्रटेस्ट् क्रिकेट् मध्ये अफ्गानिस्थानस्य पराजयः ।
-रजीष् नम्पीशः
      बङ्गलुरु > टेस्ट् क्रिकट् मण्डलं प्रति अफ्गानिस्थानस्य दुःखपूर्णप्रवेशः। टेस्।ट् क्रिकेट् पदवीं सम्पाद्य प्रथमस्पर्धायै भारतमागतवतः अफ्गानसंघस्योपरि भारतस्य विजयः। भारतेन अफ्गानिस्थानदलं क्रमेनैकेन २६२ धावनाङ्कैः च पराजितम्। प्रथमक्रमे भारतेन धवानस्य विजयस्य च शतकबलेन ४७४ धावनाङ्काः सम्पादिताः। किन्तु अफ्गानदलं प्रथमक्रमे १०९ धावनाङ्केषु निष्कासितम्। भारतेन फोलो ओण्‌ क्रमाय निर्बन्धितम् अफ्गानदलं द्वितीयक्रमे १०३ धावनाङ्केषु निष्कासितम्। भारताय अश्विन्, जडेजः, उमेष‌यादवः च उत्तमरीत्या कन्दुकक्षेपणम् अकुर्वन्। शिखर्धवान् क्रीडापुरुषत्वेन चितः अभवत्।

Friday, June 15, 2018

आगमिष्यति जलदौर्लभ्यः - नीतिआयोगः।
   नवदिल्ली> राष्ट्रं इतिहासस्य अतिजलदौर्लभ्येन सह गच्छति इति नीति आयोगस्य आवेदनम्। राष्ट्रस्य ६० कोटि जनाः जलदोर्लभ्यन दुरितमनुभवन्ति। २ लक्षं जनाः सुरक्षितजलस्य अनुपलब्ध्या मृताः इति  च नीति अायोगस्य समग्रजल सुप्रयोगसूचिकायां वदति। २०३० तमे संवत्सरे जलस्य आवश्यकता  द्विगुणीभविष्यति इति आवेदने व्यक्तीकरोति। अन्येषां जीवजन्तुजालानां  दुरितं  अावेदने न परामृष्टम्।
 आराष्ट्रं शुद्धजलस्रोतांसि प्रतिशतं सप्तति अङ्कानि मलिनानि अभवन्। शुद्धजलस्य मानकपट्टिकासु १२२ राष्ट्राणां नामलेखन-प्रकरणेषु भारतस्य स्थानं १२० इति भवति। २०३० संवत्सरे समागते ४० कोटि जनाः पानजलाभावेन दुरितबाधिताः भविष्यति इत्यपि अावेदनं वदति।

Thursday, June 14, 2018

भारतस्य राष्ट्रपतिः क्यूबां प्रति।  भारतस्य प्रथमसन्दर्शनम्
   नवदिल्ली> भारतराष्ट्रपतिः रामनाथकोविन्दः त्रिराष्ट्रसन्दर्शनाय प्रस्थानमकरोत्।  ग्रीस् सुरीनां क्यूब राष्ट्रेषु एव भवति सन्दर्शनम्। स्वतन्त्रता लब्ध्यनन्तरं क्यूबराष्ट्रं सन्दृश्यमानः प्रथमः राष्ट्रपतिः भवति रामनाथकोविन्दः। भारतं कयूबेन सह चत्वारि सम्मतिपत्राणि हस्ताक्षरीक्रियते।  जूण् मासस्य १६ दिनाङ्कात् एव सन्दर्शनम्। अयोविभागसहमन्त्री विष्णुदेव साय् राष्ट्रपतिम् अनुगमिष्यति। द्वौ विधानसभा सामाजिकौ अपि उद्योगपरिवारैै सह भविष्यतः।
केरलेषु शक्ता वर्षा केषुचन जनपदेषु विद्यालयानां विरामः।
कोष़िक्कोट्> बुधवासरे रात्रौ प्रवृत्तमानया अतिवृष्ट्या कोष़िक्कोट् जनपदस्य पर्वतप्रदेशेषु भीषणः भौमजलप्रवाहः  अजायत। कोष़िक्कोट्- कोल्लगल् राष्ट्रियमार्गेषु पादपानि पतित्वा मार्गविघ्नमभवत्। तामरशेरि पर्वतमार्गे एव वृक्षाः पतिताः। नद्यः कूलम् अतिक्रम्य प्रवहन्ति। केदाराः जलान्तर्भागे वर्तन्ते। पेरिङ्ल्कुत्त् सेतोः पिघानी उद्घाटिता चालक्कुटी नदीप्रवाहः कूलमतिक्राम्य भवति। कोष़िक्कोट् वयनाट् जनपदयोः विद्यालयानां कृते अद्य विरामः प्रख्यापितः। कोष़िक्कोट् जनपदस्य कलालयानामपि अद्य विरामः इति जनपदाध्यक्षेण उक्तम्।

Wednesday, June 13, 2018

नवीनबन्धः इति  ट्रम्पः 
विस्मृतं सर्वम् इति 'किम्' महोदयः
  प्रतीक्षया आसन् ह्यस्तनदिने आविश्वं मानवाः। सिङ्गपुरस्थ सेन्टोस् द्वीपे उत्तरकोरिय-अमेरिकराष्ट्रयोः अधिपौ चर्चां समारब्धौ अास्ताम्। आविश्वं मानवाः निर्निमेषाः  जाताः। चर्चायाः अन्त्यं  युद्धं वा शान्तिः वा इति ज्ञातुं सर्वे तिष्ठन्नासीत्। किम् जोङ् उन्-डोणाल्ड् ट्रम्पयेः चतुर्होरापर्यन्तं कृतचर्चायाः  अन्ते शान्तिपाठमभवत्। गतंगतंसर्वमुपेक्षणीयम् इतिवत् विस्मरावः विगतं कष्टम् इत्युक्त्वा शान्तिपत्रं हस्ताक्षरीकृतम्। दशाब्दानां निश्चलावस्थां विहाय अाविश्वं शान्तेः प्रयाणमारभत। चर्चा शताब्दस्य संवादः इति   दक्षिणकोरियेण उक्तम्। नूतनेतिहासं निर्मितवन्तौ इति चीनः तेषां अभिमतं प्रकाशितवान् च।