विधानसभानिर्वाचनं
मतगणना अद्य।
नवदिल्ली> पञ्चसु राज्येषु सम्पन्नानां विधानसभानिर्वाचनानां मतगणना सोमवासरे प्रभाते अष्टवादने आरभ्यते। असमः, केरलं, तमिलनाट्, पश्चिमवंगः इत्येतेषु राज्येषु पुतुच्चेरी केन्द्रप्रशासनप्रदेशे च सम्पन्नस्य निर्वाचनस्य सर्वः परिणामः अद्य उपसायं बहिरागमिष्यतीति प्रतीक्षते।
मतगणनाम् आलक्ष्य बृहत् सुरक्षासन्नाहः पश्चिमवंगे विधत्तः अस्ति। तत्र चरणद्वयेन आसीत् निर्वाचनं सम्पन्नम्। सन्दर्भद्वये अपि बहुत्र अक्रमघटनाः जाताः।