OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, May 3, 2026

 स्वर्णम् अत्रैव तिष्ठतु; विदेशात् 104 मेट्रिक-टण् परिमितं स्वर्णं भारतीय रिज़र्व बैंक (RBI) संस्थयाप्रत्यानीतम्। 

     ​2025 ओक्टोबर् मासतः 2026 मार्च् मासपर्यन्तं भारतीय रिज़र्व बैंकः विदेशेषु स्थितं स्वकीयं स्वर्णशेखरं स्वदेशं प्रति आनीतवान्। स्वर्णमूल्यस्य वर्धनस्य विदेशविनिमय शेखरस्य न्यूनतायाश्च पृष्ठभूमौ इयं योजना कृता अस्ति।

​     वर्धमानस्य भौमराजनीतिक सङ्घर्षस्य (Geopolitical tensions) कारणेन विदेशेषु स्वर्णरक्षणं महते प्रमादाय भविष्यतीति विविधाः राष्ट्राः चिन्तयन्ति। युक्रैन युद्धानन्तरं रष्यादेशस्य विदेशधनसञ्चयः अनेकैः राष्ट्रैः स्थगितवन्तः (Freeze)। एषः वातावरणः भारतम् अपि च अन्यान् राष्ट्रान् पुनर्निर्णयाय प्रेरितवान्। न्युयोर्क् नगरस्थितात् 'फेडरल् रिसर्व् वोल्ट्' इति केन्द्रात् फ्रान्स् देशस्य 'बैङ्क्वे डि फ्रान्स्' 129 मेट्रिक्-टण् स्वर्णं प्रत्यानीतवान्। फ्रान्स् देशं विना जर्मनी, पोलण्ड् इत्येते राष्ट्राः अपि स्वकीयं स्वर्णसञ्चयः स्वदेशं प्रति आनीतवन्तः।

​    2025 सेप्तम्बर् मासस्य अन्त्ये भारतस्य आभ्यन्तर-स्वर्णनिक्षेपः 575.8 मेट्रिक्-टण् परिमितः आसीत्। सः 2026 मार्च मासे 680 मेट्रिक-टण् परिमितः अभवत्। षण्मासेषु आर.बी.आई संस्थया 104 मेट्रिक्-टण् स्वर्णं भारतं प्रति आनीतम् इति एते अङ्काः सूचयन्ति।