OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 24, 2018

वातशीतीकरणीनां  सामान्यतापमानं २४° इति न्यूनीक्रियते।
   नवदिल्ली> भारतराष्ट्रस्य वातशीतीकरणीनां सामान्यतापमानं चतुर्विंशति डिग्री इति न्यूनीकरतुं केन्द्रसर्वकारः। पर्यालोचयति। कतिपय मासाभ्यन्तरेण एवं भविष्यति इति ऊर्जमन्त्री वि के सिंहः विगतशुक्रवासरे अवदत्। वातशीतीकरणीनां निर्मातारः उपभोक्तृृृृ़णाम् स्वास्थ्याय अनुयेज्यतापमानः  शीतीकरण्याः उपरि लेखनीयम्  इति तेन निर्मातारः अादिष्टाः। मनुष्यस्य शारीरिकतापः ३६°- ३७° मध्ये भवति। किन्तु व्यवसायिक संस्थासु भक्ष्यशालासु च १८- २१° इति क्रमेण तापमानः संस्थापयति इत्यनेन  तत्रत्यानां जनानां स्वेदिका कम्पलादीनि उपयोक्तुम् निर्बन्धिताः अभवन्। एतत् ऊर्जस्य दुर्व्ययमेव भवति इत्यपि सः अवदत्।