OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, May 4, 2026

 पाकवातस्य मूल्यं वर्धापितम्। 


पेट्रोल-डीसलयोः मूल्यमपि वर्धनभीषायाम्। 

नवदिल्ली> पश्चिमेष्यासंघर्षस्य आधारे पाकेन्धनस्य दौर्लभ्येन क्लेशे अनुभूयमाने 'एल् पि जी' वाणिज्यानिलकोशाय ९९३ रूप्यकाणां वर्धनं विधत्तम्। १९ किलोमितस्य वातानिलकोशस्य मूल्यं केरले ३१०० रूप्यकाधिकमभवत्। 

  अस्मिन् वर्षे षष्ठवारमस्ति वाणिज्यानिलकोशस्य मूल्यवर्धनम्। पश्चिमेष्यासंघर्षानन्तरं तृतीयवारं च। केरले सर्वत्र मूल्यवर्धनं विरुध्य भोजनशालामण्डले महान् प्रतिषेधः सम्पन्नः।