महिला टि-२० विश्वचषकः।
हर्मन् प्रीता नायिका।
हर्मन् प्रीत् कौर्।
मुम्बई> अस्मिन् वर्षे सम्पद्यमानस्य महिलानां टि-२० क्रिकेट विश्वचषकस्य भारतसंघः सज्जः।हर्मन् प्रीत कौर् नायिका भविष्यति। उपनायिका तु स्मृती मन्थाना। १५ अङ्गोपेतदले पेस् बौलर् नन्दिनी शर्मा नूतनमुखं भवति।
जूण् १२तमदिनाङ्कतः जूलाय् ५तमदिनाङ्कपर्यन्तम् इङ्गलाण्ट्, वैल्स् इत्यत्र स्पर्धाः भविष्यन्ति। जूण् १४ तमे पाकिस्थानं विरुध्य अस्ति भारतस्य प्रथमस्पर्धा।