OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 18, 2016

साहिती-पुरस्काराः वितरिताः
  
भारतस्य सुख्यातया सारस्वत-संस्थया साहित्य-अकादम्या विभिन्न-भारतीय-भाषाभ्यः प्रतिवर्षं प्रदीयमानाः ऐषमः स्वीयाः  साहित्यिक-पुरस्काराः चितेभ्यः कवि-लेखकेभ्यः नवदिल्ल्यां  अद्य वितरिताः | एतेषु चितेषु अन्यतमेन  संस्कृत-कविलेखकेन  डो.रामशंकर-अवस्थि-वर्येण साकं प्रतिपक्षं [मासस्य प्रथमे तृतीये च शनिवासरे] रात्रौ सार्ध-नववादने दिल्ल्यां राजधानी-वाहिकातः [ ६६६किलो-हर्त्टज्-मित्या ] प्रसार्यमाणस्य अर्धहोरावधिकस्य “संस्कृत-सौरभम्”-इति श्रव्य-पत्रिका-कार्यक्रमस्य कृते अद्य साक्षात्सम्भाषणस्य ध्वन्यंकनं सम्पन्नम् | अत्र साक्षात्-सम्भाषमाणः संस्कृत-कविलेखकः   डो.रामशंकर-अवस्थि-वर्यः अब्रवीत् यत् संस्कृत-विद्यायाः समुपासकोsसौ भगवत्याः सीतायाः अनुकम्पया कविकौशलं बिभर्ति | असौ "वनदेवी" इति स्वीय-संस्कृत-महाकाव्यस्य कृते पुरस्कारमेनम् अलभत | स्वीय-महाकाव्ये तेन भगवती सीता "वनदेवी"-रूपेणप्रतिष्ठापितास्ति | कार्यक्रम-संचालकेन डो.बलदेवानन्द-सागरेण पृष्टः अवस्थि-महोदयः न्यगादीत् यत् पारम्परिक-पद्धत्या नाधीतोऽपि सः सारल्येन भगवत्याः अनुग्रहेण कवयितुं पारयति |
कार्यक्रमोsयं फ़रवरी-मासस्य विन्शे दिनाङ्के शनिवासरे [ २०-०२-२०१६ ] रात्रौ सार्धनववादने श्रोतुं शक्यते |

प्राणसङ्कटे अपि अवयवदानसन्नद्धः युवकः।

बंगलुरु >दुर्घटनायां मृतप्रायः अपि बंगलुरु तुमाकुरु स्वदेशीयः हरीष् नञ्चप्पः प्राणरक्षार्थं न रोदिति स्म। परं यावच्छक्यं स्वस्य अवयवान् गृहीतुं भिषग्वरादिरक्षकान् उद्बोधयन्नासीत्।
बंगलुरु नगरस्थे वैयक्तिकस्थापने कर्मकरः हरीष् नञ्चप्पः स्वबैक्याने गृहात् कर्मस्थानं गच्छन्नासीत्। मरणं 'ट्रक्' यानस्य रूपं घृत्वा आगतम्।  किन्तु रक्षकान् स एवमेव अवोचत्। मत्तः यावच्छक्यम् अवयवान् स्वीकुर्वन्तु, अन्येषां प्राणरक्षार्थमुपकरिष्यन्ति। किन्तु दुर्घटनायां छिन्नभिन्नशरीरस्य तस्य नेत्रद्वयमेव उपकारितम्। अन्येषामवयवानां दोषाः संजाताः।

अक्बर् कक्कट्टिल् दिवंगतः।

कोष़िक्कोट् > केरलस्य प्रमुखःसाहित्यकारः अक्बर् कक्कट्टिल् (६८)कोष़िक्कोट् वैयक्तिकातुुरालये दिवंगतः। संवत्सरं यावत् रोगपीडितः आसीत्। 
 सामान्यजनानां चिन्ताः जीवितप्राराब्धाश्च अस्य कथाविषयी भूताः। अनेन विरचिताः अध्यापककथाः प्रसिद्धाः भवन्ति। केरल साहित्य अकादमी पुरस्कारात् प्रभृति अनेके पुरस्काराः एनं प्राप्तवन्ताः।

Wednesday, February 17, 2016

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वमुखछाया चित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वामुखछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ। विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्येतौ एव जलसमाधिं प्राप्तवन्तौ।

यु.एस्.राष्ट्रम् आक्रमितुं ऐ.एस् आतंकवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवंबर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनं श्वः आरभते।

कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनं करिष्यति। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करिष्यति। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि भविष्यन्ति। ६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति।नियमसभासामाजिकः मुल्लक्करा रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा-गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वार्थछायाचित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वार्थछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ।विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्यतौे एव जलसमाधिं प्राप्तवन्तौ

यु एस् राष्ट्रम् आक्रमितुं ऐ एस् आतंगवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवबंर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।

Tuesday, February 16, 2016

विद्यालयसमीपे गोलिकाप्रहारः।

कोल्कोत्ता > कोल्कत्ता नगरे लोरेट्टो विद्यालयस्य समीपे गोलिकाप्रहारः। प्रातः द्वि चक्रिकाभ्याम् आगताभ्यां अज्ञातृभ्यां भीकरावस्था सृष्टा। एकः यात्रिकः व्रणितः। सुरक्षा देलेन इदानीं परिसरः रक्षितः अस्ति।

स्वच्छतायां मैसूर् नगरं प्रथमम्।

नवदिल्ली > स्वच्छतागणनायां भारतस्य नगरेषु मैसूर् नगरं प्रथमश्रेण्याम् अस्ति।Quality Council Of India नामिकया संस्थया कृतानुसन्धानस्य फलमेव एतत्‌। द्वितीय वारमेव भवति मैसूरस्य इयं स्थानप्राप्तिः।
द्वितीयं स्थानं चण्डिघट्टस्य तिरुचिरप्पल्ली, दिल्ली विशाखपट्टणं च प्रथमासु पञ्चमश्रेणीषु अन्तर्भवति । ७३ नगरेषु कृतानुसन्धाने केरळं ५५ तमं भवति। केन्द्रमन्त्रिणा वेङ्कय्यनायिडुना फलं प्रख्यापितम्। प्रथानमन्त्रिणा  नरेन्द्रमोडिना २०१४ तमे आरब्धा इयं स्वच्छ भारतयोजना।

 जे.एन् .यू विषयः प्रक्षुब्धः।

नवदिल्ली - मृत्युदण्डितः अफ्सल् गुरुनामकः जवहर्लाल् नेह्रु विश्वविद्यालये (जे एन् यू) अनुस्मृतः इत्यस्मात् विश्वविद्यालयपरिसरः प्रक्षुब्धः जातः। विद्यार्थिनेता कनय्यकुमारः  राष्ट्रद्रोहापराधित्वेन आरक्षकैः गृहीतः इति कारणेन राजधानीनगरं आन्दोलन संघर्षेषु निमग्नमभवत्।
    कनय्यकुमारस्य मोचनमुन्नीय विद्यार्थिनः अनिश्चितकालान्दोलनम् आरब्धवन्तः। अफ्सल् गुरु अनुस्मरणाय ऐ.एस् संस्थायाः साहाय्यं लब्धमित्यारोप्य आसीत् संघर्षस्य प्रारंभः।

स्त्रीवेषंधृत्वा रक्षां प्राप्तुं ऐ.एस्.भीकरैः कृतः श्रमः पराजितः। 

बाग्दाद् > इराख् सैन्येन रिमाददेशे बन्धनस्थाः  ऐ.ऐस् आतङ्कवादिनः  तु स्वरक्षार्थं  प्रच्छन्नवेषं स्वीकृत्य कृतः श्रमः विफलोऽभवत्। स्त्रीवेषान् स्वीकृतान् नव आतङ्कवादिनः रिमादियायाः प्रान्तप्रदेशस्थेन सैन्यकेन बन्धिताः। ऐ.एस् भीकरैः आक्रमितः अंबर् प्रविश्यायाः राजधानीं, रमादीदेशं संपूर्णतया मोचितम् इति इराख् सैन्येन उक्तम्। शिष्टान् सर्वान् आतङ्कवादिनः ग्रहणाय सैन्येन तीव्रश्रमः क्रियते।
रमादी   इदानीं सैन्यस्य पूर्णाऽधीना भवति इति इराख्  सैन्यः अवदत्।

 ओ.एन् .वि वर्यस्य स्मरणार्थं प्रतिमा कलाग्रामश्च।

अनन्तपुरी - दिवंगतस्य कैरलीकवेः ओ एन् वि कुरुप् महोदयस्य स्मरणार्थं राजनगर्यां तस्य प्रतिमां स्थापयिष्यति। जन्मदेशे चवरायां ओ एन् वि कवितानां दृश्याविष्कारेण कलाग्रामं च स्थापयिष्यति। केरलनियमसभायां संवृत्ते अनुस्मरणसम्मेलने मुख्यमन्त्रिणा एवमुद्घोषितम्।

Monday, February 15, 2016

प्रतिषेधानां मध्ये च पाकिस्थानाय युद्धविमानं  विक्रीयते।
वाषिड़्टण् > भारतस्य प्रतिषेधमवगण्य पाकिस्थानं प्रति एफ् - 16 युद्धविमानानां विक्रये एव यु.एस् राष्ट्रस्य श्रद्धा। पाकिस्थानस्य भीकरवादविरुद्ध प्रवर्तनानि  उचितसमये एव रोधनीयमिति यु.एस् राष्ट्रम्।
अनेन युद्धविमानविक्रयेण सह पाकिस्थानस्य भीकरवादविरुद्ध-प्रवर्तनम् ,अपि च आतङ्कवादिनः उन्मूलनाशं च कर्तुं सहायकः इति यू.एस्‌।
पाकिस्थानाय एफ्- 16 युद्धविमानविक्रयणाय यु.एस् राष्ट्रेण निश्चितः। अपि च बहूनि युद्धोपकरणानि विक्रीयन्ते इति च दुःखात्मकं भवेत् इति भारतेन उक्तम्।
७००दशलक्षं डोलर् मूल्यस्य  विमानानां विक्रयणाय यु.एस् शासनाधिकारिणा अनुमतिः दत्तः। यु.एस्  कोण्ग्रस् अधिकारिणां वाक्यानि विगण्य एवायं निश्चयः। पाकिस्थानराष्ट्रस्य  सुरक्षार्थम् इयं उचिता योजना स्वीकृता इति यु.एस् प्रतिरोध मन्त्रालयेन उक्तः।
दिनरात्रौ विभिन्नायाम् अन्तरीक्ष अवस्थायाम् उपयोक्तुं  सर्वथा उपकारकं भवेत् एफ् 16 युद्धविमानम्।

मुम्बय्यां 'मेक् इन् इन्डिया' वेदिकायां महती अग्निबाधा।

मुम्बई >मुम्बय्यां मेक् इन् इन्डिया वाराचरणमनुबध्य सम्पन्ने सांस्कृतिककार्यक्रमे महती अग्निबाधा सञ्जाता।जीवहानिः नाभवत्।गिर्गाव् चौपात्ति प्रदेशे ह्यः रात्रौ अमिताभ् बच्चन् वर्यस्य कवितावतरणानन्तरमेव अग्निबाधा सञ्जाता। २५००० परिमिताः जनाः भागभागित्वं गृहीतुमागतवन्तः ।किन्तु सर्वानपि अपनेतुम् अवसरः लब्धः।


अन्टार्टिकायां १.५ लक्षं पेन्ग्विन् पक्षिणः मृताः। 


सिडनी - पूर्वान्टार्टिकायां कोमण्वेल्त् अन्तःसमुद्रे महत्तरः हिमखण्डः स्थले कुटति स्म इत्यस्मात् पेन्ग्विन् पक्षिणां मरणावलिः सञ्जाता। १०० चतु.कि.मी. विस्तृतियुक्तः बि०९बि इति नामकः हिमखण्ड एव स्थले २०१०तमे स्थिरभूतः। आवासव्यवस्थायाः विनाशेन तेषां वंशनाशात् भीः जाता।

Sunday, February 14, 2016

संस्कृतमेलनं सम्पन्नम्। 
केरळम् तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः चतुर्वादनपर्यन्तम् अभवत्। अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं कृतवान् । षष्ट्यधिकं कार्यकर्तारः उपस्थिताः आसन्।

काशमीरे पञ्च भीकराः सैन्येन हताः।

श्रीनगरम् > काश्मीरस्य कुप्वारा जनपदे सीमारेखायाः समीपे संवृत्ते संघट्टने पञ्च भीकरान् भारतसैन्यं हन्ति स्म। द्वौ भटावपि निहतौ। चौक्की बाल् प्रविश्यायां कस्मिंश्चित् गृहे भीकराःनिलीय वर्तमाना इति ज्ञात्वा एव सुरक्षासेना अत्र प्राप्ताः।

पाकिस्थानराष्ट्रम् भीकरराष्ट्रम् -बि. जे. पि.

न्यूदिल्ली > मुम्बै भीकराक्रमणस्य सूत्रधारः डेविड् कोल् मान् हेड्लेः वाक्यमनुसृत्य पाक्किस्थानं भीकरराष्ट्रत्वेन प्रख्यापनीयमिति बि. जे.पि  दलानां मतम् । तदर्थं नूतनकार्याणि नय तन्त्रेषु स्वीकरणीयानि । पाक्  गुप्तचराणां संस्थया आदड़्कवादीनां सीमलड़्घने प्रोत्साहनं करोतीति हेड्लेः उक्त्या व्यक्तः। लोकराष्ट्रणां मध्ये पाक्किस्तानं  निराकर्तुं भारतं  श्रद्धालुः भवेयमिति भा.ज.पा. दलस्य देशीयकार्यकर्ता सिद्धार्थनाथ सिंहेन उक्तः।
इस्रत् जहानायाः कलहमृत्युः निर्वाचनवेलायाम् अद्यतनविपक्षस्य अनुकूलं यथा, तथा परिणामयितुं ते ऐच्छन्। इस्रत् जहाना लष्कर् तोयिबायाः  'सन्नद्धमृत्युयोद्ध्री' इति हेड्लिना निर्दिष्टम्। गुजरात्त् देशे इस्रत् गोलिकाप्रहरणेन कारणं विना मारिता इति कुप्रचारः आसीत्।


 कविः ओ एन् वि कुरुप् दिवंगतः।

 अनन्तपुरी> कैरल्याः प्रियङ्करः ,केरलीयानां मनसि लब्धप्रतिष्ठः जनकीयकविः ओ एन् वि कुरुप् महाशयः (८४)हृदयाघातेन अनन्तपुर्यां वैयक्तिकातुरालये दिवंगतः।
ज्ञानपीठ-पद्मविभूषण-पद्मश्रीपुरस्कारैःआदृतः आसीत्। महाकविकालिदासस्य जीवनचरितमुपजीव्य विरचितम् उज्जयिनीकाव्यमवलम्ब्य तस्मै ज्ञानपीठपुरस्कारः दत्तः। कैरलीचलच्चित्रगानशाखायामपि अस्य योगदानं महत्तरमासीत्। १३ वारं उत्तमगानरचयितुः पुरस्कारेण आदृतः।त्रिवारं देशीयपुरस्कारमपि प्राप्तः। 
  ६० संवत्सराणां काव्यसपर्यया नाटक-परिस्थिति-मातृभाषा-संस्कृति-इत्यादिषु जीवनस्पर्शिषु विषयेषु अपि तस्य सर्गवैभवः व्यापृतः।विविधकलालयेषु अध्यापकवृत्तिं कृतवानयं गुरुश्रेष्ठः ।
अन्त्यसंस्कारक्रियाः श्वः भविष्यति।

Saturday, February 13, 2016

यत्र नार्यस्तु पूज्यन्ते।
जार्खण्डे स्त्रीणां कृते धनविनियोगपत्रम्।
राञ्चि> जार्खण्ड् नियमनिर्माणसभायां नारीणां क्षेममुद्दिश्य धनविनियोगपत्रम् अवतारयिष्यते। भारते प्रथमतया एव एतादृशी प्रस्तुति इति मुख्यमन्त्रिणा रघुबरदासेन उक्तम्।
परश्वः प्रस्तूयमाने धनविनियोगपत्रावतरणे स्त्रीणां क्षेमाय निर्मितमिदं पत्रं मुख्यमन्त्रिणा एव सभायां प्रस्तोष्यते। गतवर्षे राज्येषु कृतायां चर्चायामेव स्त्रीणां कृते धनविनियोगपत्रमिति आशयं जातम्।

'फ्री बेसिक्' योजनां समापयति - इति फेस् बुक्।
न्यूदिल्ली > अन्त्रर्जाल-समत्वस्य दृढीकरणाय ट्राय् द्वारा कृतेन विधिना ततःपरं जायमानविवादेन "फ्री बेसिक् " योजना समापयितुं फेस् बुक् अधिकृतैः निश्चितः। टेलिकों  संस्थायाः सहकरणेन फेस् बुकेन आविष्कृतां योजनां प्रति प्रारंभे एव विमर्शनानि आसन्।
फ्री बेसिक्स् द्वारा कानिचन वेब् सैट् स्थानानि निशुल्कानि प्राप्तानि शक्यन्ते। 'सर्वेभ्यः जनेभ्यः अन्तर्जालं लभ्यमानं भवेत्' इति  अन्तर्जाल समत्वस्य लक्ष्यम् ।
"रिलयन्स् कम्यूणिकेषन्स्" संस्थायाः सहकरणेन भारते फ्री बेसिक् इति योजनायाः प्रसारः निश्चितः आसीत्‌। किन्तु " टेलिकों रगुलेटरि अतोरटरि आफ् इन्ड्यायाः " विज्ञापनानुसारेण अन्तर्जालस्य लब्धये विविधानां शुल्कानां स्वीकारः रोधितः। एतेन एयर् टेल् स्य 'सीरो रेट्टिङ्' इत्यस्य  च विरामः भवेत्।
2014 तम वर्षादारभ्य इन्टर् नेट् ओर्ग मार्गेण सप्तादशराज्येषु फेस् बुक् लभ्यमानं भवेत्। विवादाभिमत-प्रकाशनात् परं  'फ्री बेसिक्' इति पुनर्नामकरणं कृतः ।  सर्वेषां सामान्यजनानां सहकरणार्थं टी वि-पत्रमध्यम द्वारा  प्रचारणं कुर्वदासीत्।


 क्षेमपद्धतिवर्षैः आयव्ययपत्रावतरणं केरले।

अनन्तपुरी > केरले निर्वाचनद्वारे तिष्ठति क्षेमपद्धतीनां वर्षैः मुख्यमन्त्रिणा उम्मन् चाण्टिमहाभागेन आयव्ययपत्रम् अवतारितम्। दारिद्र्यरेखाधःस्थितेभ्यः परिवारेभ्यः (बि पि एल्) निःशुल्कव्रीहीदानं प्रख्यापितम्।विपक्षदलैः आयव्ययपत्रावतरणं बहिष्कृतम्।

Friday, February 12, 2016

हनुमन्तप्पा वीरस्वर्गं प्राप्तवान्
न्यूदिल्ली > सियाचिन् देशे हिमपतनदुर्घटनात्  मुक्तः हनुमनन्तप्पा कोप्पाड् ( 35) षष्टे दिने मृतः। दिल्ली कन्टोण्मेन्ट् आर्. आर्. आतुरालये प्रभाते 11.45 वादने एव तस्य मृत्युः।  हनुमन्तप्पावर्यस्य जीवरक्षायै वैद्यकैः कठिनप्रयत्नः कृतः। तथापि  आन्तरिकावयवानां प्रवर्तनं स्थगितम् अभवत्। आन्तरिकावयवानां प्रवर्तनराहित्येन तस्य मृत्युः अभवत्।
कर्णाटकाराज्ये धार्वाड् स्वदेशिं हनुमन्तप्पां सोमवासरे हिमपातस्थलात् अरक्षत्। ३५ पादमितस्य हिमपातस्य अधोभागात् एव सः उद्धारयित्वा रक्षितः। प्रधानमन्त्री नरेन्द्रमोडी , भूतल सैनिकनेता दलबीर् सिंहः च हनुमन्तप्पां द्रष्टुम् आगतवन्तौ । हनुमन्तप्पा महोदयस्य परिवारः च दिल्ल्याम् आसीत्।

गुरुत्वतरङ्गं दर्शितः

वार्षिङ्‌टण् > १०० वर्षेभ्यः पूर्वं वैज्ञानिकः अल्बर्ट ऐन्स्टीन् महाभोगन उद्‌घुष्टं गुरुत्वतरङ्गस्य सान्निध्यम् आधुनिक शास्त्रज्ञैः प्रमाणीकृतम् । प्रपञ्चस्य उत्‍पत्तिम् आरभ्य जायमानेषु कार्या -कारणेषु प्रवेष्टुम् अनेन गवेषणफलेन शक्यते। यू.एस् नाषणल् सयन्स्फौण्डेषन् संस्थायाः वैज्ञानिकाः एव अस्मिन् विषये गवेषणम् अकुर्वन्। १३० कोटि प्रकाशवर्षात् दूरे वर्तमानयोः द्वयोः तमोगर्तयोः मिथः संधट्टनेन जातः तरङ्ग एव तैः परीक्षण शालायां निरीक्षितः। लेसर् इंटर् फेरोमीट्टर् ग्राविट्टेषन् वेव् ओब्सर्वेट्टरि (LIGO) परीक्षणशालायां प्रोट्टोण् एकस्य सहस्रांशाकारकं व्यत्ययं निर्मातुं तेन तरङ्गेन शाक्यते इति 'लगोयाः' नियुक्तो  निदेशकः डेविड् रयिट्य् महोदयः अवदत्।

Wednesday, February 10, 2016