OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, February 18, 2016

साहिती-पुरस्काराः वितरिताः
  
भारतस्य सुख्यातया सारस्वत-संस्थया साहित्य-अकादम्या विभिन्न-भारतीय-भाषाभ्यः प्रतिवर्षं प्रदीयमानाः ऐषमः स्वीयाः  साहित्यिक-पुरस्काराः चितेभ्यः कवि-लेखकेभ्यः नवदिल्ल्यां  अद्य वितरिताः | एतेषु चितेषु अन्यतमेन  संस्कृत-कविलेखकेन  डो.रामशंकर-अवस्थि-वर्येण साकं प्रतिपक्षं [मासस्य प्रथमे तृतीये च शनिवासरे] रात्रौ सार्ध-नववादने दिल्ल्यां राजधानी-वाहिकातः [ ६६६किलो-हर्त्टज्-मित्या ] प्रसार्यमाणस्य अर्धहोरावधिकस्य “संस्कृत-सौरभम्”-इति श्रव्य-पत्रिका-कार्यक्रमस्य कृते अद्य साक्षात्सम्भाषणस्य ध्वन्यंकनं सम्पन्नम् | अत्र साक्षात्-सम्भाषमाणः संस्कृत-कविलेखकः   डो.रामशंकर-अवस्थि-वर्यः अब्रवीत् यत् संस्कृत-विद्यायाः समुपासकोsसौ भगवत्याः सीतायाः अनुकम्पया कविकौशलं बिभर्ति | असौ "वनदेवी" इति स्वीय-संस्कृत-महाकाव्यस्य कृते पुरस्कारमेनम् अलभत | स्वीय-महाकाव्ये तेन भगवती सीता "वनदेवी"-रूपेणप्रतिष्ठापितास्ति | कार्यक्रम-संचालकेन डो.बलदेवानन्द-सागरेण पृष्टः अवस्थि-महोदयः न्यगादीत् यत् पारम्परिक-पद्धत्या नाधीतोऽपि सः सारल्येन भगवत्याः अनुग्रहेण कवयितुं पारयति |
कार्यक्रमोsयं फ़रवरी-मासस्य विन्शे दिनाङ्के शनिवासरे [ २०-०२-२०१६ ] रात्रौ सार्धनववादने श्रोतुं शक्यते |

प्राणसङ्कटे अपि अवयवदानसन्नद्धः युवकः।

बंगलुरु >दुर्घटनायां मृतप्रायः अपि बंगलुरु तुमाकुरु स्वदेशीयः हरीष् नञ्चप्पः प्राणरक्षार्थं न रोदिति स्म। परं यावच्छक्यं स्वस्य अवयवान् गृहीतुं भिषग्वरादिरक्षकान् उद्बोधयन्नासीत्।
बंगलुरु नगरस्थे वैयक्तिकस्थापने कर्मकरः हरीष् नञ्चप्पः स्वबैक्याने गृहात् कर्मस्थानं गच्छन्नासीत्। मरणं 'ट्रक्' यानस्य रूपं घृत्वा आगतम्।  किन्तु रक्षकान् स एवमेव अवोचत्। मत्तः यावच्छक्यम् अवयवान् स्वीकुर्वन्तु, अन्येषां प्राणरक्षार्थमुपकरिष्यन्ति। किन्तु दुर्घटनायां छिन्नभिन्नशरीरस्य तस्य नेत्रद्वयमेव उपकारितम्। अन्येषामवयवानां दोषाः संजाताः।

अक्बर् कक्कट्टिल् दिवंगतः।

कोष़िक्कोट् > केरलस्य प्रमुखःसाहित्यकारः अक्बर् कक्कट्टिल् (६८)कोष़िक्कोट् वैयक्तिकातुुरालये दिवंगतः। संवत्सरं यावत् रोगपीडितः आसीत्। 
 सामान्यजनानां चिन्ताः जीवितप्राराब्धाश्च अस्य कथाविषयी भूताः। अनेन विरचिताः अध्यापककथाः प्रसिद्धाः भवन्ति। केरल साहित्य अकादमी पुरस्कारात् प्रभृति अनेके पुरस्काराः एनं प्राप्तवन्ताः।