OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, July 9, 2025

 भारतेङ्गलण्टयोः तृतीयनिकषः श्वः। 

लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे सम्पत्स्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते। 

  लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।