OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, February 12, 2016

हनुमन्तप्पा वीरस्वर्गं प्राप्तवान्
न्यूदिल्ली > सियाचिन् देशे हिमपतनदुर्घटनात्  मुक्तः हनुमनन्तप्पा कोप्पाड् ( 35) षष्टे दिने मृतः। दिल्ली कन्टोण्मेन्ट् आर्. आर्. आतुरालये प्रभाते 11.45 वादने एव तस्य मृत्युः।  हनुमन्तप्पावर्यस्य जीवरक्षायै वैद्यकैः कठिनप्रयत्नः कृतः। तथापि  आन्तरिकावयवानां प्रवर्तनं स्थगितम् अभवत्। आन्तरिकावयवानां प्रवर्तनराहित्येन तस्य मृत्युः अभवत्।
कर्णाटकाराज्ये धार्वाड् स्वदेशिं हनुमन्तप्पां सोमवासरे हिमपातस्थलात् अरक्षत्। ३५ पादमितस्य हिमपातस्य अधोभागात् एव सः उद्धारयित्वा रक्षितः। प्रधानमन्त्री नरेन्द्रमोडी , भूतल सैनिकनेता दलबीर् सिंहः च हनुमन्तप्पां द्रष्टुम् आगतवन्तौ । हनुमन्तप्पा महोदयस्य परिवारः च दिल्ल्याम् आसीत्।

गुरुत्वतरङ्गं दर्शितः

वार्षिङ्‌टण् > १०० वर्षेभ्यः पूर्वं वैज्ञानिकः अल्बर्ट ऐन्स्टीन् महाभोगन उद्‌घुष्टं गुरुत्वतरङ्गस्य सान्निध्यम् आधुनिक शास्त्रज्ञैः प्रमाणीकृतम् । प्रपञ्चस्य उत्‍पत्तिम् आरभ्य जायमानेषु कार्या -कारणेषु प्रवेष्टुम् अनेन गवेषणफलेन शक्यते। यू.एस् नाषणल् सयन्स्फौण्डेषन् संस्थायाः वैज्ञानिकाः एव अस्मिन् विषये गवेषणम् अकुर्वन्। १३० कोटि प्रकाशवर्षात् दूरे वर्तमानयोः द्वयोः तमोगर्तयोः मिथः संधट्टनेन जातः तरङ्ग एव तैः परीक्षण शालायां निरीक्षितः। लेसर् इंटर् फेरोमीट्टर् ग्राविट्टेषन् वेव् ओब्सर्वेट्टरि (LIGO) परीक्षणशालायां प्रोट्टोण् एकस्य सहस्रांशाकारकं व्यत्ययं निर्मातुं तेन तरङ्गेन शाक्यते इति 'लगोयाः' नियुक्तो  निदेशकः डेविड् रयिट्य् महोदयः अवदत्।