OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 26, 2018

गोखाद्यकुम्भकोणं - लालुप्रसाद यादवः पुनरपि दण्डितः। 
          राञ्ची > गोखाद्यकुम्भकोणमनुबद्ध्य तृतीये व्यवहारे आर् जे डि दलस्य देशीयाध्यक्षः लालुप्रसादयादवः पञ्चसंवत्सराणां कारागारवासाय दण्डितः। बीहारस्य भूतपूर्वमुख्यमन्त्री तथा कोण्ग्रस् दलस्य भूतपूर्वनेता जगन्नाथमिश्रः च ५ वर्षाणां कारागृहदण्डनाय विहितः।  १९९२-९३ काले सर्वकारवित्तकोशेभ्यः ३३.६७ कोटिरूप्यकाणि व्याजरेखाः समर्प्य स्वायत्तीकृतानीति व्यवहारे एवायं विधिः।

Thursday, January 25, 2018

राष्ट्रपतिना धनं दत्तम्, चतुर्दशवयस्केन चत्वारः कराबद्धाः बहिरानीयन्ते|

         भोपाल् > अध्ययने कुशलः इत्यनेन भारतस्य राष्ट्रपतेः हस्तात् लब्धानि दशसहस्रं रुण्यकाणि उपयुज्य आयुष् किशोरः नामकः चतुर्दशवयस्कः चत्वारान् काराबन्धितान् बहिरानयति। लघुदोषेण द्वि सहस्रं रुप्पकाणि वा दण्डनं लब्ध्वा  तनि प्रत्यर्पणाय नास्ति इत्यनेन कारायां बन्धितानां चतुर्णमेव  एवं बहिरागन्तुं भाग्यः सिद्ध्यते। श्वस्तन-गणतन्त्रदिने चत्वारः कारागृहात् मोचिताः भविष्यन्ति।  

            विशेष-श्रेष्ठतायै २०१६ तमे लब्धस्य राष्ट्रियपुरस्कारस्य राशिः एव किशोरः एवं व्ययीकरोति। गणित विषये विद्यमान कौशलस्य सम्मानन रूपपेण आसीत्  राष्ट्रपतिना  दशसहस्रं रुप्यकाणि दत्तानि। 
 राष्ट्रिय, राष्ट्रान्तर गणितस्पर्धासु बहुवारं विजयीभूतः एषः ' लिंका पुस्ति'कायां राष्ट्रियख्यातिः सम्पादितवान्। यु के वेल्ड् रेक्कोर्ड् विश्वविद्यालयात् सुवर्णपतगः तथा ओणररि डाक्टरैट् च चतुर्दशवयस्केन आयुष् किशोरेण सम्प्राप्तः  अस्ति।

Wednesday, January 24, 2018

Episode 74
संस्कृतपत्रकारितायां त्रैमासिक-एडवांसपाठ्यक्रमस्य शुभारम्भ: 
-पुरुषोत्तम शर्मा
      नवदिल्ली>श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च संयुक्तरूपेण जनवरी मासस्य षोडशे दिने संस्कृतपत्रकारितायां त्रैमासिक-एडवांस पाठ्यक्रमस्य शुभारम्भो विहित:। अस्मिन् कार्यक्रमे पत्रकारिता जगत: नेके गणमान्या: उपस्थिता: आसन्। विद्यापीठस्य कुलपति: प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्षं निरवहत्। 
    अत्रावसरे मुख्यातिथित्वेन केन्द्रीयपत्रसूचनाकार्यालयस्य अथ च रेलमंत्रालयस्य महानिदेशकेन अनिलकुमारसक्सेनावर्येण संस्कृतभाषाया: वैशिष्ट्यं प्रकटयता पत्रकारिताक्षेत्रे संस्कृतस्यावश्यता सबलम प्रतिपादिता, आङ्गलसङ्गणकाभ्यां सह संस्कृतस्य प्रयोगेण राजभाषाकार्यालयेषु श्रेष्ठतमशब्दावली निर्माणस्य संभावनादृशि युवान: सम्प्रेरिता:। येन संस्कृतयुववर्ग: युवभारतस्य निर्माणे विशेषयोगदानं प्रदद्यु:। 
  सम्मानिततिथिना भारतीयजनसञ्चारसंस्थानस्य महानिदेशके डॉ. के.जी. सुरेशेण स्कृतपत्रकारिताया: भाविस्वरूपो व्याख्यायित:। सारस्वततिथि: दिल्ली संस्कृताकादम्या: अध्यक्षा डॉ. कान्तारानी भाटिया विशिष्टातिथि: पार्थसारथी थपलियाल: डॉ.ऋतुराजपूत: विनोदमल्होत्रा च  पाठ्यक्रमस्य उद्घाटनकार्यक्रमे उपस्थिता: आसन् ।  समागततिथिभि: छात्रेभ्य:  प्रमाणपत्राणि प्रदत्तानि । सममेव पाठ्यक्रमसम्बन्द्धमहत्त्वपूर्णविवरणं च प्रदत्तम्। 
संस्कृतपत्रकारिताया: विद्यार्थिनां आधुनिकपत्रकारितया सह संयोजनदिशि महत्त्वपूर्णपदक्षेपस्य श्रेय: पाठ्यक्रमस्य संयोजिकायै प्रो.कमलाभारद्वाजवर्यायै गच्छति। संस्थानद्वयस्य मिथ: सेतुरूपेस्य पाठ्यक्रमस्य विशेषता वर्तते यत् छात्रा: द्विविधशिक्षकाणां निर्देशनं प्राप्स्यन्ति। अस्मिन् क्रमे विद्यापीठेन विगतवर्षे एकवर्षीय: ( पी.जी डिप्लोमा) पत्रकारिता पाठ्यक्रम: संचालित: आसीत् , यस्मिन् त्रिंशच्छात्रै: अध्ययनं प्राप्य कार्यं प्रारब्धम् ।

Tuesday, January 23, 2018

जनतन्त्रस्य सुस्थितये स्वतन्त्रनियमव्यवस्था अनिवार्या - न्यायाधीशः चेलमेश्वरः
           नवदिल्ली>जनतन्त्रस्य सुस्थितये स्वतन्त्रा पक्षरहिता नियमव्यवस्था अनिवार्या इति न्यायाधीशेन चेलमेश्वरेण उक्तम्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं दीपक् मिश्रां विरुद्ध्य कृतस्य  वार्तामेलनानन्तरं भाषमाणः आसीत् सः। नवदिल्याम् आयोजिते पुस्तकप्रकाशनसन्दर्भे आसीत् तस्य अभिमतप्रकाशनम्। जनानाम् उत्कर्षं लक्षीकृत्य  सर्वोच्चन्यायालयस्य प्रवर्तनानि पोषणीयानि इत्यपि तेन उक्तम्।
सर्वेषु पट्टिकाशकटेषु CCTV छायाग्राही संस्थाप्यते।
        नवदिल्ली> यात्रिकाणां सुरक्षायै सर्वेष्वपि रयिल् यानेषु रयिल् निस्थानेषु च सि सि टि वि छायाग्राही उपयुज्य निरीक्षणं कर्तुं  रयिल् विभागः सज्जः अभवत् । 3000 कोटि रुप्यकाणि एतदर्थं 2017 - 18 तम संवत्सरस्य केन्द्र आर्थिकासूत्रणे निवेश्यते इति वार्ताहरसंस्थया आवेदितम्। 11,000 यानेषु 8,500 रयिल् निस्थानेषु च नूतना छायाग्राही संस्थापयितुम् उद्दिश्यते। 12 लक्षं छायाग्राहिण्यः एतदर्थम् अवश्यकानि। यानस्य प्रति प्रकोष्टं प्रति 8 छायाग्राहिण्यः संस्थापयिष्यन्ते। द्वाराणि तथा विन्यस्तानाम् आसन्धानां मध्यमार्गाः च छायाग्राहिण्यः दृष्टिकोणे अन्तर्भविष्यति।
जर्मनी ईस्रायेल् च उभयसौहृदं शक्तीकुरुतः।
जेरुसलेम्> जर्मनी ईस्रायेल् च उभयसौहृदं शाक्तीकुरुतः। तेन अनुबन्ध्य ईस्रायेल् प्रधानमन्त्रिणा बन्चमिन् नेतन्याहुना सह दर्मन् विदेशकार्यमन्त्री सिग्मर् गब्रियेल साक्षात्कारः करिष्यति। ईस्रायेल् राष्ट्रस्य टेल् अवीव् मध्ये जनुवरी २९ दिनात् ३० पर्यन्तं प्रचाल्यमाने इन्स्टिट्यूट् फोर् नाषणल् सेक्यूरिट्टी स्ट्टीस् इतेयस्य एकादशतमे सम्मेलने भागभाक् कर्तुं जर्मन् विदेशकार्यमन्त्री इस्रायेलं आगच्छति। जनुवरी एकत्रिंशत् तमे ईस्रायेल् राष्ट्रे द्वयोः साक्षात्कारः प्रचलति।

Monday, January 22, 2018

केरले ४५,००० कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं प्राप्नुवन्ति; उद्घाटनम् अद्य। 
        अनन्तपुरी >केरलराज्ये सार्वजनीनशैक्षिकसंरक्षणयज्ञस्य अनुबन्धतया कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं [Hi-Tech] प्राप्नुवन्ति। प्रथमसोपाने पञ्चचत्वारिंशत् सहस्रं प्रकोष्ठानि एतद्वैशिष्ट्याय सिद्धानि सन्ति। एतस्य औपचारिकमुद्घाटनम् अद्य अनन्तपुर्यां टागोर् नाट्यशालायां मुख्यमन्त्रिणा पिणरायि विजयेन क्रियते। तथा च एकलक्षं छात्राणां 'लिटिल् कैट्स्' [Little Kites] नामकस्य ऐ टि सङ्गमस्य उद्घाटनमपि सम्पत्स्यते। 
     ४५,००० कक्ष्याप्रकोष्ठेषु 'लाप् टाप्' , 'प्रोजेक्टर्' , 'स्पीक्कर्' , 'ब्राड् बान्ट' अन्तर्जालसुविधा इत्यादिसुविधाः आस्याम् आयोजनायां लप्स्यन्ते। ४७७५ विद्यालयाः Multifunctional printer, Digital camera, Television, Webcam, Surveylance system इत्यादीनि उपकरणान्यपि अध्ययनसुविधायै लभन्ते।
आम् आद्मी सामाजिकानाम् अयोग्यता - राष्ट्रपतिना अङ्गीकृता। 
              नवदिल्ली > आयकरं पदद्वयं युगपद्वहन्ति इत्यारोप्य दिल्लीशासनपक्षे विद्यमानानां २० आम् आद्मी दलसामाजिकानां अयोग्यतां कल्पयितुमुद्दिश्य निर्वाचनसंस्थया समर्पितम् आवेदनं राष्ट्रपतिना रामनाथकोविन्देन अङ्गीकृतम्। नियममन्त्रालयेन तदधिकृत्य विज्ञापना अपि प्रकाशिता।  षण्मासाभ्यन्तरे प्रस्तुतेषु २० मण्डलेषु उपनिर्वाचनं भविष्यति।

Sunday, January 21, 2018

यानचलकानां अश्रद्धया ११०१८ अष्टादशाधिक एकादश सहस्रं प्राणाः विनष्टाः।
         अनन्तपुरी> वाहनचालकानाम् अनवधानतया गत-संवत्सर-त्रयाभ्यन्तरेण अष्टादशाधिक एकादश सहस्रं  मनुष्याणां प्राणाः विनष्टाः। केरळ राज्यस्तरीय गणना भवति इयम् । अष्टादशशतं (१८००) गुरुतरया रीत्या क्षताः च इति आरक्षकाणां गणना
         अनया गणनया  इदानीं  अनुवर्तामानायाः यानचालकाध्ययने  पाठन-अभ्यास प्रणाल्याः अपर्याप्ततायाः  प्रमणमिति  वक्तुं शक्यते। यानचालक-परीक्षा कालानुसृतं परिष्कर्तुं यन्त्रयानविभागोन न उद्युक्तम्। यान चालने प्रथमस्तरे विद्यमानाः अपि परीक्षायाम्  उत्तीर्णतां प्राप्नुवन्ति। यानस्य चालनसमये चलदूरवाणीनाम् उपयोगः, मद्यं पीत्वा यानचालनं च यानादुर्घटनायाः मुख्यकारणत्वेन वदन्ति।