OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, April 8, 2026

 केरलनिर्वाचम्। 

उत्सवोत्साहेन सघोषप्रचारणं समाप्तम्।

त्रयाणां सख्यानां सघोषप्रचारणं कोल्लं नगरे संगच्छति। 

लोकतन्त्रविधिः श्वः। 

८८३ स्थानाशिनः;३०,४९५ मतदानकेन्द्राणि; २,७१,९६,९३६ मतदानिनः। 

अनन्तपुरी>  केरले विधानसभानिर्वाचनाय सघोषप्रचारणं अत्यन्तोत्साहेन उत्सववातावतरणं सृष्ट्वा परिसमाप्तम्। वर्तमानीनप्रशासनपक्षः सि पि ऐ (एम्) राजनैतिकदलेन नेतृत्वमावहत् LDF नामकं वामपक्षीयजनाधिपत्यसख्यं , विपक्षत्वेन वर्तमानं कोण्ग्रस् दलेन नेतृत्वं कुर्वत् ,UDF इति ऐक्यजनाधिपत्यसख्यं, राज्ये पुनरपि विधानसभाप्रवेशं कांक्षत् भाजपा दलस्य नेतृत्वे वर्तमानं NDA सख्यं च समेषु मण्डलेषु तेषां प्रभावं शक्तिं च प्रकाशयितुं सर्वथा प्रयतन्त। 

  २४ वर्षाणामनन्तरं SIR प्रक्रिया संपूर्णतां प्राप्ते केरले २,७१,९६,९३६ मतदानिनः लोकतन्त्रप्रक्रियायां विधिमालेखयन्ति। तेषु ४,६६,४०८ प्रारम्भमतदायकाः सन्ति। प्रभाते सप्तवादनतः सायं षट्वादनपर्यन्तं मतदानं कर्तुं शक्यते। १. ४६ लक्षं अधिकारिणः निर्वाचनार्थं नियुक्ताः सन्ति।