विश्वपादकन्दुकचषकः।
मेस्सी, क्रिस्ट्यानो सज्जौ।
नैमरस्य विषये आशङ्का।
> ब्रसील्, अर्जेन्टीना, पोर्चुगल् इत्येतानि राष्ट्राणि अस्मिन् वर्षे सम्पद्यमानायै विश्वचषकपादकन्दुकक्रीडायै क्षमतां प्रापुः। अर्जन्टीनायै लयणल् मेस्सी, पोर्चुगलाय क्रिस्टियानो रोनाल्डो इत्येतौ क्रीडिष्यतः इति निश्चितमस्ति। किन्तु 'त्रिमूर्तिषु' अन्यतमः नैमरः ब्रसील् दलाय क्रीडिष्यति वा इति विषये आशङ्का वर्तते। नैमरं संघे अन्तर्भावयितुं परिशीलकः कार्लो आञ्चलोट्टी इत्यस्मात् किमपि दृढसमाधानं न लब्धम्। मुहुर्मुहुः जायमानाः क्षताः अन्ये क्षमताविषयाः च परिशीलकं पुनर्विचिन्तनाय प्रेरयन्ति।