OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 8, 2026

श्री चतुर्वेदविद्यागणपतिवेदशास्त्रमहाविद्यास्थाने सप्तमः संस्कृतोत्सवः सम्पन्नः।

     तमिल्नाडु,> चेङ्गल्पट्टु श्री चतुर्वेद-विद्यागणपति-वेदशास्त्र-महाविद्यास्थानस्य  सप्तमः संस्कृतोत्सवः महता वैभवेन समायोजितः आसीत्। तस्मिन्  संस्कृतोत्सवे वेदाश्रमस्य प्राचार्याणां ब्रह्मश्रीकुमारगुरुघनपाठिनां तथा मुख्यातिथीनां करकमलैः प्रदीपं प्रज्वाल्य  कार्यक्रमः समारब्धः। कार्यक्रमेऽस्मिन् भगव‌द्गीता धात्वष्टाध्यायी  सुभाषितानि च कण्ठपाठरूपेण प्राचलत्। एवं सामान्यभाषणस्पर्धा, शास्त्रीयभाषणस्पर्धा, वादविवादस्पर्धा, संस्कृतस्फूर्तिस्पर्धा च समायोजिताः आसन्। तासु स्पर्धासु परिसरीयविद्यार्थिनः अग्रेसरीभावेन भागम् ऊढ्वा पुरस्कारभाज: आसन्। 

     दिनत्रयव्याप्ते संस्कृ‌तोत्सवे पण्डि‌तमण्डितपादाः अध्यक्षाः १. स्वामिनः सुप्रज्ञानन्दमहाराज् श्रीरामकृष्णमठः मद्रपुरी 'उपदेशपञ्चके वेदान्तप्रबोधः' इति शीर्षके, २.शिवश्री.उमासुतमहाभागाः संशोधकाः फ्रांसीय -अनुसन्धान-संस्थानम् 'समासरहस्यम्'

इति शीर्षके, ३.Dr.श्रीशैलमहाभागाः प्राध्यापकाः काञ्चीपुरम् 'धर्मशास्त्रस्य उपयोगिता' इति विषये, ४Dr.श्रीमुरलीमहाभागाः प्राध्यापकाः,मद्रपुरी ज्योतिषे 'कल्पनिरूपणम्' इति शीर्षके,  ५.Dr.श्रीसत्यनारायणमहाभागाः प्राध्यापकाः ,मद्रपुरी 'संस्कृताध्ययनेन प्रयोजनानि' इति विषये, ६.Dr.श्रीलक्ष्मीनरसिंहमहाभागाः प्राध्यापकाः मधुरान्तकम् 'षडङ्गाध्ययनस्य प्राधान्यम्' इति शीर्षके , ७.Dr.चक्रवर्ती श्रीरङ्गनाथमहाभागाः प्राध्यापकाः तिरुपतिः 'निगमवैशिष्ट्यम्' इति शीर्षके च प्रभाषणम् अकुर्वन् इति उल्लेखनीयाः अंशा:।

चेङ्गल्पट्टुतः काञ्चीपुर‌गामिनि राजमार्गे पयस्विन्या पाविते आत्तूर् ग्रामे ScVg वैयक्तिकसंस्था श्रीचतुर्वेदविद्यागणपतिवेदशास्त्रमहाविद्यास्थानम् २०१२ तमे वर्षे प्रत्यष्ठापयत्। अस्य वेदाश्रमस्य स्थापकवर्यः श्रीमान् कामकोटिमहाभागः भवति। चतुर्वेद‌विलासिते अस्मिन् वेदाश्रमे षष्ठ्यधिकद्विशतवेदाध्येतारः सन्ति । अत्र छात्रमणयः लौकिकीं विद्यां तथा संस्कृतशास्त्रविद्यां चाधीयते ।