औषधानां ३६ अधिकरणानां मूल्यं न्यूनं करिष्यति।
नवदिल्ली> अर्बुदः, अपूर्वरोगाः इत्यादीनि ३६ प्रणरक्षौषधानि 'कस्टम्स करात्' निष्कास्य केन्द्रायव्ययपत्रम्। अतः तेषां मूल्यं न्यूनं करिष्यति। इतरेषां षडौषधानां करः ५% इति न्यूनीकृतम्।
आयकरे आश्वासं प्रदाय केन्द्रसर्वकारस्य वित्तपरिकल्पनापत्रम्।
नवदिल्ली> मध्यवर्तिजनेभ्यः महान्तमाश्वासं प्रदाय केन्द्रसर्वकारस्य आयव्ययपत्रे आयकरस्य न्यूनीकरणं विहितम्। तृतीयस्य नरेन्द्रमोदीसर्वकारस्य प्रथमे सम्पूर्णवित्तपरिकल्पनापत्रे वित्तमन्त्री निर्मला सीतारामः येषां प्रतिवर्षं १२ लक्षरूप्यकाणि पर्यन्तं आयः अस्ति ते आयकरसमर्पणात् मोचयिष्यन्ति। एतत्तु मासवेतनवतां मध्यवर्तिजनानाम् अतीव आश्वासाय भविष्यति।
निर्मलासीतारामेण अवतारितमिदमायव्यपत्रकं सामान्यजनानामायव्ययपत्रकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्।
भारतं प्रवर्धत इति आर्थिकसमीक्षणम्।
नवदिल्ली> भौगोलिकस्तरे राजनैतिक-आर्थिकानिश्चितत्वानि वर्तन्ते तथापि भारतस्य आर्थिकव्यवस्था प्रवर्धमानां रीतिमवलम्बते इति सूच्यते। गतदिने राष्ट्रस्य आयव्ययपत्रावतरणस्य अंशतया संसदि वित्तमन्त्रिण्या निर्मला सीतारामेण समर्पिते आर्थिकान्वीक्षणपत्रे अस्त्ययं मूल्यनिर्णयः।
२०२४ - '२५ आर्थिकसंवत्सरे राष्ट्रस्य आभ्यन्तरार्थिकाभिवृद्धिः [जी डी पी] ६. ३ - ६. ८ प्रतिशतमिति प्रतीक्षते। जी डी पी वर्धनाय बहवः उपायाः अपि आर्थिकान्वीक्षणपत्रे निर्दिश्यन्ते।
संसद् सम्मेलनमारब्धम्।
आयव्ययपत्रकावतारणं श्वः।
नवदिल्ली> भारतीयसंसदः आयव्ययपत्रकसम्मेलनम् अद्य राष्ट्रपतेः नयख्यापनभाषणेन समारब्धम्। नूतनसंसदीयभवनस्य लोकसभागारे सभाद्वयमपि राष्ट्रपतिः द्रौपदी मुर्मू अभ्यसंबोधयत्।
राष्ट्रस्य सम्पूर्णमायव्ययपत्रकं वित्तमन्त्रिण्या निर्मला सीतारामेण शनिवासरे अवतारयिष्यति। आयव्ययपत्रकसम्मेलनस्य प्रथमचरणं फेब्रुवरि १३ तमे दिनाङ्के समाप्स्यते।
बहिराकाशनिलयं प्रति प्रथमो भारतीयः - सुधांशु शुक्लः।
![]() |
सुधांशु शक्ला |
न्यूयोर्क्> अन्तर्राष्ट्रीय बहिराकाशनिलयं [ऐ एस् एस्] गन्तुं चितः प्रथमो भारतीयः इति ख्यातिॆ स्वायत्तीकर्तुं सुधांशु शुक्लनामकः व्योमसेनायाः केप्टन् पदीयः सिद्धो जातः। सः अस्मिन् वर्षे भविष्यमाणस्य 'आक्सियों मिषन् 4' इति अभियोजनायां विमानचालकरूपेण चितः। नासा, 'इस्रो', निजीयसंस्था 'आक्सियों स्पेस्' इति संस्थात्रयस्य युगपत् दौत्यमेतत्। अस्मिन् वर्षे फ्लोरिडातः 'आक्सियों मिषन् 4' इत्यस्य विक्षेपणं विधास्यति। सुधांशुवर्यस्य संघः १४ दिनानि ऐ एस् एस् मध्ये यापयिष्यति।
३९ वयस्कः उत्तरप्रदेशे लख्नौ निवासी च सुधांशु शुक्लः वायुसेनायां युद्धविमानचालको भवति। २०१९ तमे वर्षे इस्रो संस्थायाः गगनयानाभियोजनां चितः आसीत्।
यू एस् आकाशे यानसंघट्टनम्
६७ मरणानीति सन्देहः; २८ मृतशरीराणि अधिगतानि। विमानोदग्रयानसंघट्टनानन्तरं पोटोमाकनदीं पतित्वा अप्रत्यक्षाणां कृते अनुवर्तमानमन्वेषणम्।
वाषिङ्टणः> यू एस् राष्ट्रस्य आकाशे यात्राविमानम् उदग्रयानेन सह संघट्य नदीं पतित्वा ६७ जनाः अप्रत्यक्षाः अभवन्। एषु २८ मृतशरीराणि अधिगतानि। नद्यामतिशैत्यः इत्यतः ६७ जनाः अपि विनष्टप्राणाः इति सन्दिह्यते।
बुधवासरे प्रादेशिकसमयानुसारं रात्रौ नववादने [भारतीयसमयः गुरुवासरे प्रभाते ७. ३०] रोणाल्ड् रीगन् राष्ट्रियविमाननिलयस्य समीपं 'अमेरिकन् ईगिल्' इत्यस्य CRJ 700 इति यात्राविमानं वायुसेनायाः उदग्रयानेन सह आकाशे घट्टितमासीत्। विमाने ६० यात्रिकाः ४ सेवकाः चासन्। उदग्रयाने डयनपरिशीलने व्यापृताः त्रयश्चासन्।
बाह्याकाशनिलयात् स्वीकृतं कुम्भमेला नाम महाद्भुतस्य चित्रं त्वरितप्रसरमभवत्।
प्रयागराज्> जनुवरिमासस्य१३ तमे दिनाङ्के समारब्धायाः कुम्भमेलायाः त्रयोदशतमदिनाङ्कस्य दृश्यमेव डोण् पेट्टिट् नाम बाह्याकाशसञ्चारिणा समाजमाध्यमेषु प्रकाशितम्। गङ्गातीरस्थस्य दीपालङ्काराणां प्रभा एव चित्रे अस्ति। विश्वस्मिन् अधिकजनानां एकात्मकमेलनस्य प्रकाशः भवति चित्रमेतत् इति डोण् पेट्टिट् महाभागेन उदीरितम्।
वर्धमानं समुद्रतापमानं वातावरणव्यवस्थाव्यत्ययस्य सूचना।
निर्मतबुद्धिम् उपयुज्य रचितं चित्रम्समुद्रतापमाने वर्धना पुनः अनुवर्तिष्यते इति वैज्ञानिकाः अभिप्रयन्ति। वर्धमानं समुद्रतापमानं वातावरणव्यत्ययस्य शीघ्रगत्यः अभिज्ञानं भवति इति वैज्ञानिकाः प्रवदन्ति। आगोलतापमानं पूर्वकालापेक्षया उन्नतस्थानं प्राप्तम्। एल् निनो इति विशेषघटना ( phenomenon ) एव अस्य हेतुः। समुद्रतापस्य ४४% सूर्यतापः समुद्राः अतिशीघ्रम् आगीरणं करोति इत्येतदेव इति यु के यूणिवेर्सिट्टि ओफ् रीडिंङ् इति संस्थायाः वैज्ञानिकः क्रिस् मर्चन्ट् अभिप्रयति।
तेलुङ्काने अधोषोडशवयस्कानां चलच्चित्रशालां प्रवेशनियन्त्रणम्।
हैदराबादः> तेलुङ्कानराज्ये प्रभाते ११ वादनात् प्राक् रात्रौ ११ वादनात् परं च ऊनषोडशवयस्कानां बालकानां चलच्चित्रप्रदर्शनशालां प्रवेष्टुं राज्योच्चन्यायालयेन निरोधः विहितः। प्रत्युषसि अर्धरात्रे च चलच्चित्रदर्शनं बालकानां मानसिकशारीरिकस्वस्थ्याय प्रतिकूलं भविष्यतीति निरीक्ष्य न्यायमूर्तेः विजयसेनरेड्डिवर्यस्यायमादेशः। निरोधे अन्तिमनिर्णयाय राज्यसर्वकारं निरदिशत्।