OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 3, 2025

 महिला क्रिकट् विश्वचषकं भारतं सम्प्राप। 

प्रथमा किरीटसम्प्राप्तिः।

दीप्ती शर्मा  विजयशिल्पी।अर्धशतकं,५ द्वारकाणि च।

प्राप्तकिरीटस्य भारतगणस्य विजयाह्लादः। 

मुम्बई> महिलानाम् एकदिनक्रिकट् विश्वचषकस्य अन्तिमप्रतिद्वन्दः भारताय चरित्रमुहूर्तं सम्मानितवान्। इदंप्रथमतया महिलानाम् एकदिनक्रिकट् विश्वचषकः भारतगणेन सम्प्राप्तः। दक्षिणाफ्रिका आसीत्  अन्तिमेे प्रतिद्वन्द्वे भारतस्य प्रतियोगी। उत्साहोज्वले प्रतिद्वन्द्वे ५२ धावनाङ्कैः आसीत् सुवर्णविजयः। 

  दीप्ती शर्मा, षेफाली वर्मा इत्येतयोः सर्वमण्डलप्रकटनं [All-round] भारतस्य विजये निर्णायकमभवत्। षेफाली वर्मा ८७ धावनाङ्कान् सम्पादितवती। दीप्ती शर्मणः क्रीडायां ५८ धावनाङ्काः, ५ द्वारकाणि च भारताय उपलब्धानि। प्राप्ताङ्कसूचिका - भारतं ५० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे २९८। दक्षिणाफ्रिका ४५. ३ क्षेपणचक्रेषु २४६ धावनाङ्कैः सर्वे बहिर्नीताः।