टि - २० चतुर्थस्पर्धा
आस्ट्रेलियां ४८ धावनाङ्कैः पराजयत।.webp)
अक्सर पटेलः।
गोल्ड् कोस्ट्> क्रीडकानां सर्वतोसमर्थप्रकटननेन [All round play] आस्ट्रेलियां विरुध्य चतुर्थी टि - २० क्रिकट् स्पर्धा ४८ धावनाङ्कैः भारतेन विजयीभूता। भारतं २० क्षेपणचक्रेषु १६७/८ , आस्ट्रेलिया १८. २ क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः।
सर्वतोसमर्थाः अक्सर पटेलः, शिवं दुबे, वाषिङ्टण सुन्दरः इत्येतेषाम् उत्कृष्टक्रीडा एव उज्वलविजयस्य आधारः। २१ धावनाङ्कान् द्वारकद्वयं च लब्धवान् अक्सर पटेलः श्रेष्ठक्रीडकः अभवत्। अनेन पञ्चस्पर्धोपेतायां परम्परायां भारतं २ - १ इति क्रमेण अग्रे वर्तते। अन्तिमस्पर्धा शनिवासरे सम्पत्स्यते।