वीथीशुनकानां विषये सर्वोच्चन्यायालयस्य सुप्रधानविधिः।
वीथिभ्यः शुनकाः अपनेतव्याः।
वीथिषु अलक्ष्येण अटनं कुर्वन्तः पशवः अपि अपनीय पालयितव्याः।
नवदिल्ली> विद्यालयाः, कलालयाः, आतुरालयाः, बस्-रेल् निस्थानानि इत्यादिषु स्थानेषु तथा च सर्वासां सामाजिककार्यनिर्वाहकभवनानां परिसरेभ्यः वीथीशुनकाः अपनेतव्याः इति सर्वोच्चन्यायालयेन आदिष्टम्। एवम् अपनीयमानान् शुनकान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं च कृत्वा ते अभयशिबिराणि प्रति नेतव्याः इति च नीतिपीठेन स्पष्टीकृतम्। न केवलं वीथीशुनकाः, राष्ट्रिय राज्यवीथिषु अलक्ष्येण अटनं कुर्वतः पशून् अपि अपनीय ते पृथक् बन्धनशालासु पालितव्याः इति च नीतिपीठेन उक्तम्।
शुनकप्रवेशनं निरुध्य सामाजिकसंस्थाः यष्ट्यावरणं कृत्वा संरक्षणीयाः। न्यायाधिपाः सन्दीप मेह्त,विक्रमनाथः, एन् वि अञ्जारिया इत्येतानां नीतिपीठेन अस्ति एषः आदेशः।
.jpeg)