OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 3, 2025

 बिहारविधानसभानिर्वाचनं

प्रचारः अत्युच्चस्तरे। प्रथमसोपानस्य घोषप्रचारः श्वः समाप्यते। 

पट्ना> बिहारराज्ये विधानसभानिर्वाचनस्य प्रचरणम् अत्युच्चस्तरे प्रचाल्यते। एन् डि ए सख्यस्य महासख्यपक्षस्य राष्ट्रियनेतारः वरिष्ठनेतारश्च ऊर्जस्वलेन प्रचारस्य नेतृत्वमावहन्ति। 

  प्रधानमन्त्री नरेन्द्रमोदी गतदिने भोजपुरजनपदे बहुषु प्रदेशेषु पथसञ्चलनम् अभिसम्बुध्य भाषितवान्। पट्नानगरे वीथीप्रदर्शनकार्यक्रमे अपि मोदिवर्यः भागं गृहीतवान्। 

  कोण्ग्रस् नेता राहुलगान्धिः बगुसाराय्,खगारिया  जनपदस्थयोः विविधेषु प्रदेशेषु आयोजितेषु सम्मेलनेषु जनान् अभिमुखीकृत्य महासख्यस्थानाशिनां कृते प्रचरणं कृतवान्। निर्वाचनस्य प्रथमचरणं षष्ठे दिनाङ्के सम्पत्स्यते। सघोषप्रचारणं श्वः समाप्स्यति।