'जीवरहस्यस्य पिता' जयिंस् वाट्सणः दिवंगतः।
वाषिङ्टणः> विश्वशास्त्रस्य परिवर्तनाय कारणभूतं प्राणस्य रहस्यम् अधिगतवत्सु महाशास्त्रज्ञेषु अन्यतमः जयिंस् वाट्सणः [९७] गुरुवासरे दिवंगतः। अमेरिकायां लोङ् ऐलन्ड् इत्यत्र वर्तमाने आतुरालये आसीत् तस्यान्त्यम्। जीवरहस्यमिति विशिष्टस्य 'डि एन् ए' अणुरूपस्य भ्रमणसोपानमार्ग [Revolving Staircase] इव युगलभ्रमणरूपं [double helix] विधानमधिगतवान् शास्त्रज्ञः आसीत् वाट्सणः।
१९५३ तमे वर्षे ब्रिटिश शास्त्रज्ञः फ्रान्सिस् क्रिक् इत्यनेन सह वाट्सणः डि एन् ए विधानम् अधिगतवान्। तदा सः २५ वयस्क आसीत्। २० तमशतकस्य अतिमहत्तरमिदं विधानं १९६२ तमवर्षस्य नोबेलपुरस्कारेण सम्मानितम्। ततः मोलिकुलार् बयोलजी [Molecular Biology] , जनितकश्स्त्रम् इत्यादिषु आविर्भूतानां विकासानाम् आधारः इदं डि एन् ए विधानमासीत्।
