OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 1, 2025

 केरलपुरस्काराः प्रख्यापिताः।

डो एम् आर् राघववार्यरस्य केरलज्योतिः। 

अम् आर् राघववार्यरि। 

द्वयोः केरलप्रभा। 

अनन्तपुरी> प्रमुखः चरित्रपण्डितः अध्यापकश्च डो एम् आर् राघववार्यर् महोदयः केरलसर्वकारस्य 'केरलज्योति'पुरस्कारेण समाद्रियते। शैक्षिकमण्डलाय दत्तं समग्रयोगदानमधिकृत्य अस्ति पुरस्कारः। कोष़कोट् प्रदेशीयः राघववार्यरः कोष़क्कोट् विश्वविद्यालये चरित्रविभागे प्रोफेसर पदीयः अध्यापकः अध्यक्षश्चासीत्। 

  कार्षिकक्षेत्रे कृताय योगदानाय पि बी अनीषः , कलाक्षेत्रे योगदानाय राजश्री वार्यरः च केरलप्रभापुरस्काराय चितौ। कण्णूरजनपदीयः अनीषः राज्यसर्वकारस्य कर्षकोत्तमपुरस्कारलब्धः युवकृषकः अस्ति। शास्त्रीयनृत्तमण्डले विख्याता राजश्री वार्यरः कैरल्याः पूर्वकालीया दूरदर्शनावतारिका च अस्ति।