OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 6, 2025

 वीथीश्वानकप्रकरणे श्वः सर्वोच्चन्यायालयस्य आदेशो भविष्यति। 


नवदिल्ली> वीथिषु अटनं कुर्वतां अनाथशुनकानां विषये सर्वोच्चन्यायालयः नवम्बर मासस्य सप्तमे दिने अन्तिमादेशं विधास्यति। सर्वकारान् अभिव्याप्य इतरसंस्थाभिश्च अयं विषयः कथं व्यवहर्तव्यः इति मार्गनिर्देशाः आदेशे भविष्यन्ति। न्यायाधीशस्य विक्रमनाथस्य अध्यक्षतायां वर्तमानेन पीठेनैव आदेशः करिष्यते। 

  दिल्लीनगरस्थानां वीथीशुनकानां प्रकरणे पत्रिकावृत्तान्तस्य आधारे पञ्जीकृतं प्रकरणमस्ति  सर्वोच्चन्यायालयस्य परिगणनायाम्। आगस्ट् ११ तमे दिनाङ्के आदिष्टं यत् नगरस्थान् वीथीशुनकान् गृहीत्वा ते अभयकेन्द्रेषु उषितव्याः। अस्मिन्नादेशे प्रतिषेधे जाते प्रकरणं विक्रमनाथस्य पीठं प्रति परिवर्तितम्। तस्य सुव्यक्तः आदेश एव श्वः प्रतीक्षते।