OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 5, 2025

 अद्य विश्वपर्यावरणदिनम्। 

पलास्तिकमालिन्यनिर्मार्जनम् इदानीन्तनसन्देशः। 


दिल्ल्यां प्रधानमन्त्री अश्वत्थं रोपयति। 

नवदिल्ली> आविश्वम् अद्य पर्यावरणसंरक्षणदिनत्वेन आमन्यते।  विश्वपर्यावरणदिनाचरणस्य अंशतया प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्लीस्थे भगवान् महावीर वनस्थली उद्याने बालकाश्वत्थसस्यं रोपयिष्यति। 'मातुः नाम्नि एको वृक्षः' इत्यायोजनायाः अंशतया बालकवृक्षरोपणम्। 

 दिल्लीतः गुजरातपर्यन्तं सप्तशतं कि मी दूरं विस्तृतस्य आरवल्लिगिरिपङ्क्तेः पुनरुज्जीवनाय सविशेषायोजना अस्य वर्षस्य पर्यावरणदिनस्य अंशतया स्वीकृता अस्ति।

Wednesday, June 4, 2025

 ओपरेषन् सिन्दूरम्।

पाकिस्थानस्य षट् युद्धविमानानि विनष्टानि। 

अधिकेषु प्रदेशेषु भारतस्य आक्रमणमभवदिति पाक् प्रशासनम्।

नवदिल्ली> ओपरेषन् सिन्दूरस्य अंशतया भारतेन विधत्ते प्रतिप्रहरे पाकिस्थानव्योमसेनाया‌ः षट् पि ए एफ् युद्धविमानानि, अन्ये द्वे विमाने, सि १३० इति प्रवहणव्योमयानं च विनष्टानीति भारतसेनाधिकारिभिः निगदितम्। दशाधिकानि मनुष्यरहिानि युद्धविमानानि च भग्नानि। एतेषां प्रमाणानि सेनया सङ्कलितानीति सूच्यते। 

  तथा च पूर्वं प्रस्तुतेभ्यः अधिकेषु स्थानेषु भारतस्य आक्रमणमभवदिति प्रमाणीकृतं पाकिस्थानस्य पत्रं च बहिरागतम्। पेषवार्, झङ्, हैदराबाद् [सिन्ध्], गुज्रात् [पञ्चाब], बहावल् , इत्यादिषु १८ स्थानेषु भारतस्याक्रमणं जातमिति तेषां पुनरुद्धारणाय पाकिस्थानस्य उद्यमोपेतं पत्रमेव बहिरागतम्। पाकिस्थाने पाक् अधीन काश्मीरे च नवसु स्थानेषु आक्रमणं विधत्तमिति भारतेन पूर्वं प्रस्तुतम्।

 भोज्यवितरणकेन्द्रसमीपे पुनरपि इस्रयेलस्य भुषुण्डिप्रयोगः - सप्तविंशति मरणानि। 

राफा> गासायाम् अन्नं प्रतीक्षमाणान् ३४ अभयार्थिजनान् अवधीत् इति प्रकरणे इस्रयेले अन्ताराष्ट्रीयस्तरे विमर्शने अभिमुखीकुर्वति समानकृत्यम् अनुवर्त्य इस्रयेलः। दक्षिणगासायां राफायां भोज्यवितरणकेन्द्रस्य समीपं इस्रयेलसेनया कृतेन भुषुण्डिप्रयोगेण  सप्तविंशति अभयार्थिनः निहताः। द्व्यशीत्यधिकशतं जनाः क्षताश्च। 

  इस्रयेलस्य अङ्गीकारेण प्रवर्तमानं 'गासा ह्युमानिटेरियन् फौण्डेशन्' [जि एछ् एफ्] इत्यस्य केन्द्रे भोज्यानि स्वीकर्तुंमागताः एव भुषुण्डिप्रयोगस्य लक्ष्यमभवन्। निर्दिष्टमार्गात् अपभ्रंश्य सैन्यं लक्ष्यीकृत्य चरन्ति स्म इत्यतः सन्देहेन भुषुण्डिः प्रयुक्तः इति इस्रयेलस्य भाष्यम्।

 ऐ पि एल् किरीटं बङ्गलुरु दलाय प्राप्तम्।


 

अहम्मदाबादः> 'इन्डियन् प्रिमीयर् लीग्' - ऐ पि एल् - नामक टि -२०  क्रिकट् स्पर्धापरम्परायाः एतत्कालीनस्य अन्तिमप्रतिद्वन्द्वे विराट कोह्लेः नायकत्वे वर्तमानं 'बङ्गलुरु रोयल् चलञ्चेर्स्' दलं किरीटं प्राप्तवत्। प्रतिद्वन्दिनं पञ्चाब किङ्स् दलं षट् धावनाङ्कानां व्यत्यये पराजयत। 

  अष्टादश वर्षाणां सहनानन्तरं प्रथमतया एव विराट कोह्लेः दलस्यायं किरीटप्राप्तिः। पञ्चत्रिंशत् कन्दुकैः त्रिचत्वारिंशत् धावनाङ्कान् प्राप्तवान् कोह्ली  दलस्य अङ्कप्रापकानां मूर्ध्नि तिष्ठति। [Top scorer]

  उत्क्षेपनिर्णये [toss] पञ्चाबदलेन  क्षेत्ररक्षणं स्वीकृते बङ्गलुरु दलेन विंशति क्षेपचक्रेषु नव क्रीडकाणां विनष्टेन नवत्यधिकशतं धावनाङ्काः प्राप्ताः। प्रत्युत्तरकन्दुकताडने पञ्चाबेन विंशति क्षेपचक्रेषु सप्त क्रीडकाणां विनष्टे केवलं चतुरशीत्यधिकशतं धावनाङ्काः प्राप्ताः।

Tuesday, June 3, 2025

 राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले। 

नवदिल्ली> केरले कोविड्वैराणुबाधितानां संख्या १४३५ अभवत्। २४ वयस्का महिला गतदिने कोविड्बाधया मृता। राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले इति स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। 

  कोविड्बाधितराज्यानाम् आवल्यां महाराष्ट्रं द्वितीयस्थाने वर्तते। तत्र ५०६ जनाः कोविड्बाधिताः सन्ति। दिल्ल्यां ४८३ जनाः कोविड्बाधया परिचर्यायां वर्तन्ते। कर्णाटके २५३, तमिलनाटे १८९ च जनाः कोविड्बाधिताः सन्ति। अशेषे राष्ट्रे ३९६१ कोविड्रोगिणः सन्ति।

 गासायाम् इस्रयेलस्य आक्रमणम् - चतुर्दश मरणानि। 

डेर् अल् बला> उत्तरगासायां जबलिया इत्यत्र अभयार्थिशिबिरं प्रति इस्रयेलेन विधत्ते बोम्बाक्रमणे सप्त बालकान् अभिव्याप्य चतुर्दश जनाः मृताः। आक्रमणमधिकृत्य इस्रयेलस्य प्रतिकरणं नागतम्। गतदिने राफायां भोज्यवस्तूनि प्रतीक्षमाणाः एकत्रिंशत् पालस्तीनीयाः इस्रयेलसेनया निहताः आसन्। एतदधिकृत्य स्वतन्त्रान्वेषणमावश्यकमिति यू एन् संस्थायाः कार्यदर्शिप्रमुखः अन्टोणियो गुटरसः प्रस्तुतवान्।

Monday, June 2, 2025

 एष्यन् कायिकक्रीडा समाप्ता। 

भारतस्य द्वितीयस्थानम्। 

१०० मी स्प्रिन्ट् स्पर्धायां राष्ट्रियाभिलेखेन कांस्यं प्राप्तवतः अनिमेष् कुजूरस्य आह्लादः। 

गुमी> दक्षिणकोरियायाः गुमीनगरे समायोजिता पञ्चदिवसीया एष्यायाः कायिकक्रीडास्पर्धा शनिवासरे समाप्ता। अन्तिमदिने भारताय त्रीणि रजतानि त्रीणि कांस्यानि चोपलब्धानि। कुन्तप्रक्षेपे सच्चिन् यादवः, महिलानां पञ्चसहस्रं मीटर् मिते धावने पारुल् चौधरी,  ४ × १०० मीटर् अनुक्रामके  महिलाः च भारताय रजतपतकं प्राप्तवन्तः। वनितानां ८०० मीटर् धावने पूजया, ४०० मीटर् अन्तरायधावने [Hurdles] वितृ राम राजेन, १०० मीटर् प्रधावने [Sprint] राष्ट्रीयाभिलेखं प्राप्य अनिमेष् कुजूर् इत्यनेन च भारतं कांस्यानि चालभत। 

  आहत्य अष्ट सुवर्णानि दश रजतानि षट् कांस्यानि चोपलभ्य भारतं द्वितीयस्थानं प्राप। प्रथमे तु नवदश  सुवर्णानि, नव रजतानि, चत्वारि कांस्यानि च लब्ध्वा द्वात्रिंशत् पतकैः चीनः अस्ति।

 चत्वारिंशत् रूसीययुद्धविमानानि भञ्जितानीति युक्रेनः। 

कीव्> सैबीरियायां वर्तमानान् रूसीयव्योमनिलयान् प्रति रविवासरे युक्रेनेन कृते ड्रोणाक्रमणे रष्यायाः चत्वारिंशत् बोम्बवर्षकविमानानि भञ्जितानीति युक्रेनेन अभिमानितम्। तद्राष्ट्रस्य 'एस् बी यू' इति सुरक्षासेवासंस्थया एव वृत्तान्तमिदं निगदितम्। 

  ओपरेषन् स्पैडर् वेब् [Operation Spider Web] इति कृतनामधेये आक्रमणे मुर्मान्क् इत्यस्थं ओलन्या, इर्कुट्स् इत्यस्थं बेलाया इत्यादीनि सैबीरियायाः चत्वारि व्योमनिलयस्थानानि आक्रमितानि। रष्यायाः टि यू ९५, दीर्घदूर शब्दातिशीघ्रविमानं टि यू २२ एम् ३ एस्, ए ५० इत्येतानि युद्धविमानानि भग्नेषु अन्तर्भवन्ति।

 उत्तरपूर्वीयराज्येषु भीषणवृष्टिः।

एकत्रिंशत् प्राणहानिः। 

गुहावती> दिनद्वयेन अनुवर्तमानायाः घोरवृष्ट्याः दुष्प्रभावेण भारतस्य उत्तरपूर्वीयराज्येषु एकत्रिंशत् जनाः मृत्युमुपगताः। असमः, सिक्किमः, अरुणाचलप्रदेशः, मेघालयः, मिसोरामः, नागालान्ट् त्रिपुरम् इत्यादिषु राज्येषु एव वृष्टिदुष्प्रभावः अधिकतया दुरापन्नः।  सहस्रशः जनानां वासपरिवर्तनं विधत्तम्। बहूनि वासस्थानानि भग्नानि। 

  बहवः ग्रामाः वीथयः केदाराश्च जलसञ्चये निमग्नाः। ब्रह्मपुत्रः, बराक् इत्याद्यः नद्यः जलोपप्लवभीषायां वर्तन्ते।

Sunday, June 1, 2025

 विख्यातः व्याघ्रसंरक्षकः वाल्मीक थाप्परः दिवंगतः। 


नवदिल्ली>  व्याघ्रसंरक्षणाय स्वजीवनं समर्प्य 'व्याघ्रमानवः' [The Tiger man] इति विख्यातः पर्यावरणप्रवर्तकः वाल्मीक थाप्परः (७३) नवदिल्ल्यां दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत् परिचर्यायामासीत्। 

  १९५२ तमे वर्षे पत्रकारदम्पत्योः रोमेष् थापर राजथापरयोः पुत्रत्वेन लब्धजन्मा वाल्मीक थापरः पञ्चाशत् संवत्सराणि वन्यजीविसंरक्षणाय स्वजीवनं निनाय। राजस्थानस्थे रणथम्भोर् व्याघ्रसङ्केतस्य संरक्षणाय १९८७ तमे वर्षे 'रणथम्भोर् फौण्टेषन्' इति संस्थां रूपीचकार। 'लान्ड् ओफ् टैगर्', भारतोपभूखण्डस्य स्वतश्चरितं, Tiger fire - 500 years of Tiger in India इत्यादयः ३२ ग्रन्थाः तेन विरचिताः।

 विरामकालः समाप्तः 

केरले विद्यालयाः श्वः उद्घाट्यन्ते। 

अनन्तपुरी> ग्रीष्मकालीनविरामानन्तरं केरले सामाजिकविद्यालयाः जूण् द्वितीये दिने सोमवासरे पुनरुद्घाट्यन्ते। प्रवेशनोत्सवैः सर्वेषु विद्यालयेषु २०२५ - २६ शैक्षिकवर्षस्य प्रवर्तनानि समारभ्यन्ते। राज्यस्तरीयं प्रवेशनोत्सवं आलप्पुष़ा कलवूर् सर्वकारीयोच्चविद्यालये मुख्यमन्त्री पिणरायि विजयः उद्घाटयिष्यति। 

  अस्माद् वर्षादारभ्य उच्चस्तरीयकक्ष्यासु  अर्धहोरायाः अधिकः शैक्षिककालः कल्पितः। प्रतिवर्षं १२०० होराणां पठनकालः इति निर्णयं दृढीकर्तुमेवायं परिष्कारः। षट् शनिवासराः अपि प्रवृत्तिदिनानि भविष्यन्ति।

Saturday, May 31, 2025

 एष्यन् कायिकवीरतास्पर्धा 

भारतं द्वितीयस्थाने। 

दीर्घदूरधावने गुल् वीरसिंहः अभिलेखेन सुवर्णं प्राप्तवान्। 

सुवर्णपतकं प्राप्तवन्तौ पूजासिंहः, गुल वीरसिंहः, तथा राष्ट्रीयाभिलेखेन रजत प्राप्तवती पारुल् चौधरी च।

गुमी> दक्षिणकोरियायां गुमीनगरे सम्पत्स्यमानायाम् एष्यन् कायिकवीरतास्पर्धापरम्परायां शुक्रवासरे भारतेन त्रीणि सुवर्णपतकानि सम्प्राप्तानि। दीर्घदूरधावकः गुल वीरसिंहः पुरुषाणां पञ्चसहस्रं मीटर् धावने एष्यन् क्रीडाभिलेखनेन [Meet record] प्रथमः भूत्वा सुवर्णपतकं सम्प्राप्तवान्। अनेन अस्यां क्रीडायां तेन सुवर्णद्वयं लब्धम्। 

  महिलानाम् उत्कूर्दने [high jump] पूजा सिंहः, स्पर्धासप्तके [Heptathlon] नन्दिनी अगसरा च सुवर्णं प्राप्तवती। 

   अष्ट सुवर्णानि, सप्त रजतानि, त्रीणि कांस्यानि इति क्रमेण आहत्य अष्टादश पतकैः भारतं द्वितीयस्थाने वर्तते। प्रथमस्थाने १५ सुवर्णानि अभिव्याप्य २६ पतकैः चीनराष्ट्रमस्ति।

 अतिवृष्टिदुष्प्रभावेन केरले ह्यः अष्ट मरणानि। 

सप्ताहे २६ मरणानि; कोटिशः रूप्यकाणां विनाशः।

केरले प्रलयसमाने अतिवृष्टिदुष्प्रभावे लग्नं परिवारः रक्षासेनया अभयस्थानं नीयते। 

अनन्तपुरी> केरलराज्य गतसप्ताहेन अनुवर्तमानेन घोरवर्षेण आहत्य षड्विंशति जनाः मृत्युमुपगताः। शुक्रवासरे राज्यस्य विविधस्थानेषु अष्ट जनाः मृताः। विष़िञ्ञं प्रदेशात् मत्स्यबन्धनाय गतवन्तः नव धीवराः समुद्रे मत्स्यबन्धननौकोत्प्लुतेन अप्रत्यक्षाः अभवन्। 

 राज्यमशेषे निम्नप्रदेशाः जलनिमग्नाः जाताः। शतशः परिवाराः अभयस्थानानि नीताः। शतशः वासगृहाणि भग्नानि जातानि। 

  अतिवृष्ट्या सह प्रचण्डवातस्य च दुष्प्रभावेण बहुत्र विद्युत् स्थगिता। यातायातानि निश्चलीभूतानि। केदाराणि जले निमज्य द्विशतकोट्यधिकरूप्यकाणां कृषिनाशोSभवदिति कृषिविभागेन निगदितम्। 

  अद्य त्रिषु जनपदेषु रक्तजागरूकता निर्दिष्टा। अन्येषां जनपदानां 'पीत'जागरूकता निर्दिष्टा। शनिवासरतः वृष्ट्याः तीव्रता आकुञ्चिष्यते इति पर्यावरणविभागेन सूच्यते।

Friday, May 30, 2025

 विश्वविजेत्र्यौ महिले। 

पटवातनौकया विश्वप्रदक्षिणं कृतवद्भ्यां 'भारतस्य धीरपुत्रिभ्यां' उज्वलं स्वीकरणम्।

तरणी इति पटवातनौकायां विश्वप्रदक्षिणं कुर्वन्त्यौ रूपा दिल्ना च। 

 

गोवा> विश्वविजेतृरूपेण द्वे युवमहिले गोवायां समुद्रतीरं प्राप्तवत्यौ। राष्ट्ररक्षामन्त्री ते अभिवाद्य हस्तदानेन स्वीकरोति। अनन्तरं महिलाशक्तिमधिकृत्य मन्त्रिणः नाविकाधिकारिणां च  प्रशंसावाक्यानि! 

    नौसेनायाःतरणीति पवनचालितनौकायां समुद्रसञ्चारेण  भूमिं प्रदक्षणीकृत्य द्वे अपि गुरुवासरे सायं गोवायाः तटे अवातरताम्। नौसेनायां लफ्टनन्ट् कमान्डर् पदीये केरलीया के दिल्ना तमिलनाट् राज्यीया ए रूपा च एतादृशसाहसिककृत्याय उद्युक्तवत्यौ। एते भारतस्य धीरपुत्र्यौ इति रक्षामन्त्रिणा राजनाथसिंहेन प्रशंसितम्। 

  गतवर्षे ओक्टोबर् द्वितीये दिनाङ्के  गोवातः एतयोः समुद्रयात्रा आरब्धा। मासाष्टभिः एते चतुर्भिः भूखण्डैः, त्रिभिः समुद्रैः , त्रिभिः भूकोटिभिः च पञ्चाशत् सहस्रं किलोमीटर् दूरं पावनचालितनौकया यात्रां कृतवत्यौ। 

  गोवाराज्यस्य मुख्यकार्यदर्शी डो वि कान्डवेलुः, सायुधसेनायाः स्वास्थ्यसेवा निदेशिका वैस् अड्मिरल् पदीया आरती सरिनः, दक्षिण नाविक कमान्ड् अधिकारी वैस् अड्मिरल् पदीयः वि श्रीनिवासः, प्रशस्तः पटवातनौकासञ्चारी अभिलाष् टोमी इत्यादयः प्रमुखाः स्वीकरणसमारोहे भागं कृतवन्तः।

 जम्मु काश्मीरे द्वौ लष्करभीकरौ निगृहीतौ। 

श्रीनगरं> जम्मु काश्मीरस्य षोपियानप्रदेशात् आयुधसञ्चयेन द्वौ लष्कर् ई तोय्बाभीकरौ सीमारक्षासेनया निगृहीतौ। द्वौ ए के ५६ शतघ्निनौ, द्वे 'ग्रनेड्' नामकस्फोटके, इतराणि स्फोटकसम्भाराणि च निगृहीतानि।

 पण्यमहानौकायाः दुर्घटना राज्यमहाविपत्। 

अनन्तपुरी>  आरबसमुद्रे कोच्ची तीरसमीपं एम् एस् सि - एल्सा ३ इति पण्यमहानौकायाः निमज्जनेन जाता दुर्घटना राज्यस्तरीयविपद्रूपेण राज्यप्रशासनेन विज्ञापिता। दुर्घटनया ये उपजीवनरहिताः अभवन् तेषां धीवराणां परिवारेभ्यः सहस्ररूप्यकाणि तथा षट् किलोमितं  निःशुल्कान्नपरिमाणं च दातुं निर्णयः जातः। मुख्यमन्त्रिणा पिणरायि विजयेन ह्यः समाकारिते वार्ताहरसम्मेलने  आसीदिदम् उद्घोषणम्।

Thursday, May 29, 2025

 भारतेन सह चर्चायै सज्जमिति पाकिस्थानम्।

शहबास शरीफः। 

टेह्रान्> काश्मीरं, जलोपभोगः, व्यापारः इत्यादीनां दीर्घकालीयसमस्यानां परिहाराय भारतेन सह चर्चायै सज्जमिति पाकिस्थानस्य प्रधानमन्त्री शहबास शरीफः प्रोक्तवान्। तेन कृते इरानसन्दर्शने राष्ट्रपतिः मसूद पेसेष्की इत्यनेन सह विधत्ते वार्ताहरसम्मेलने भाषमाणः आसीत् शहबासः। पाकिस्थानं शान्तिमभिलषतीति तेनोक्तम्। 

  भारतेन सह संघर्षे पाकिस्थानम् अनुकूलितवत् तुर्कीराष्ट्रं सम्पश्यानन्तरमासीत् शहबासस्य इरानं प्रति  प्राप्तिः।

 वंगसमुद्रान्तराले न्यूनमर्दः - अतिवृष्टिरनुवर्तिष्यते।

अनन्तपुरी> वंगसुद्रान्तराले नूतनतया न्यूनमर्दः जातः इत्यतः पञ्च दिनानि यावत् केरले तथा  तमिलनाटस्य कतिपयप्रदेशेषु च अतिवृष्टिः अनुवर्तिष्यते इति केन्द्रपर्यावरणविभागेन निगदितम्। 

  केरले अद्य चतुर्षु जनपदेषु राक्तजागरूकता निर्दिष्टा। इतरेषु जनपदेषु 'ओरञ्ज्' जागरूकता च।