OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 4, 2025

 भोज्यवितरणकेन्द्रसमीपे पुनरपि इस्रयेलस्य भुषुण्डिप्रयोगः - सप्तविंशति मरणानि। 

राफा> गासायाम् अन्नं प्रतीक्षमाणान् ३४ अभयार्थिजनान् अवधीत् इति प्रकरणे इस्रयेले अन्ताराष्ट्रीयस्तरे विमर्शने अभिमुखीकुर्वति समानकृत्यम् अनुवर्त्य इस्रयेलः। दक्षिणगासायां राफायां भोज्यवितरणकेन्द्रस्य समीपं इस्रयेलसेनया कृतेन भुषुण्डिप्रयोगेण  सप्तविंशति अभयार्थिनः निहताः। द्व्यशीत्यधिकशतं जनाः क्षताश्च। 

  इस्रयेलस्य अङ्गीकारेण प्रवर्तमानं 'गासा ह्युमानिटेरियन् फौण्डेशन्' [जि एछ् एफ्] इत्यस्य केन्द्रे भोज्यानि स्वीकर्तुंमागताः एव भुषुण्डिप्रयोगस्य लक्ष्यमभवन्। निर्दिष्टमार्गात् अपभ्रंश्य सैन्यं लक्ष्यीकृत्य चरन्ति स्म इत्यतः सन्देहेन भुषुण्डिः प्रयुक्तः इति इस्रयेलस्य भाष्यम्।