भोज्यवितरणकेन्द्रसमीपे पुनरपि इस्रयेलस्य भुषुण्डिप्रयोगः - सप्तविंशति मरणानि।
राफा> गासायाम् अन्नं प्रतीक्षमाणान् ३४ अभयार्थिजनान् अवधीत् इति प्रकरणे इस्रयेले अन्ताराष्ट्रीयस्तरे विमर्शने अभिमुखीकुर्वति समानकृत्यम् अनुवर्त्य इस्रयेलः। दक्षिणगासायां राफायां भोज्यवितरणकेन्द्रस्य समीपं इस्रयेलसेनया कृतेन भुषुण्डिप्रयोगेण सप्तविंशति अभयार्थिनः निहताः। द्व्यशीत्यधिकशतं जनाः क्षताश्च।
इस्रयेलस्य अङ्गीकारेण प्रवर्तमानं 'गासा ह्युमानिटेरियन् फौण्डेशन्' [जि एछ् एफ्] इत्यस्य केन्द्रे भोज्यानि स्वीकर्तुंमागताः एव भुषुण्डिप्रयोगस्य लक्ष्यमभवन्। निर्दिष्टमार्गात् अपभ्रंश्य सैन्यं लक्ष्यीकृत्य चरन्ति स्म इत्यतः सन्देहेन भुषुण्डिः प्रयुक्तः इति इस्रयेलस्य भाष्यम्।