OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 5, 2025

 अद्य विश्वपर्यावरणदिनम्। 

पलास्तिकमालिन्यनिर्मार्जनम् इदानीन्तनसन्देशः। 


दिल्ल्यां प्रधानमन्त्री अश्वत्थं रोपयति। 

नवदिल्ली> आविश्वम् अद्य पर्यावरणसंरक्षणदिनत्वेन आमन्यते।  विश्वपर्यावरणदिनाचरणस्य अंशतया प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्लीस्थे भगवान् महावीर वनस्थली उद्याने बालकाश्वत्थसस्यं रोपयिष्यति। 'मातुः नाम्नि एको वृक्षः' इत्यायोजनायाः अंशतया बालकवृक्षरोपणम्। 

 दिल्लीतः गुजरातपर्यन्तं सप्तशतं कि मी दूरं विस्तृतस्य आरवल्लिगिरिपङ्क्तेः पुनरुज्जीवनाय सविशेषायोजना अस्य वर्षस्य पर्यावरणदिनस्य अंशतया स्वीकृता अस्ति।