OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 4, 2025

 ऐ पि एल् किरीटं बङ्गलुरु दलाय प्राप्तम्।


 

अहम्मदाबादः> 'इन्डियन् प्रिमीयर् लीग्' - ऐ पि एल् - नामक टि -२०  क्रिकट् स्पर्धापरम्परायाः एतत्कालीनस्य अन्तिमप्रतिद्वन्द्वे विराट कोह्लेः नायकत्वे वर्तमानं 'बङ्गलुरु रोयल् चलञ्चेर्स्' दलं किरीटं प्राप्तवत्। प्रतिद्वन्दिनं पञ्चाब किङ्स् दलं षट् धावनाङ्कानां व्यत्यये पराजयत। 

  अष्टादश वर्षाणां सहनानन्तरं प्रथमतया एव विराट कोह्लेः दलस्यायं किरीटप्राप्तिः। पञ्चत्रिंशत् कन्दुकैः त्रिचत्वारिंशत् धावनाङ्कान् प्राप्तवान् कोह्ली  दलस्य अङ्कप्रापकानां मूर्ध्नि तिष्ठति। [Top scorer]

  उत्क्षेपनिर्णये [toss] पञ्चाबदलेन  क्षेत्ररक्षणं स्वीकृते बङ्गलुरु दलेन विंशति क्षेपचक्रेषु नव क्रीडकाणां विनष्टेन नवत्यधिकशतं धावनाङ्काः प्राप्ताः। प्रत्युत्तरकन्दुकताडने पञ्चाबेन विंशति क्षेपचक्रेषु सप्त क्रीडकाणां विनष्टे केवलं चतुरशीत्यधिकशतं धावनाङ्काः प्राप्ताः।