दिल्ल्यां गंगाराममार्गस्थेन बालभारती पब्लिक स्कूल् इत्यनेन हर्षोल्लासेन मानित: शिक्षकदिवस:
वार्ताप्रेषक: युवराज: भट्टराई
(समवाप्त साहित्याकादेमीयुवपुरस्कार:)
दिल्ल्यां गंगाराममार्गस्थेन बालभारती पब्लिक स्कूल् इत्यनेन हर्षोल्लासेन मानित: शिक्षकदिवस:
वार्ताप्रेषक: युवराज: भट्टराई
(समवाप्त साहित्याकादेमीयुवपुरस्कार:)
ओमिक्रोण् प्रतिरोधक्षमता रक्षाकवचं भविष्यति। इतः परं पुनः तरङ्गसाध्यता नास्ति इति वैज्ञानिकाः।
नवदिल्ली> राष्ट्रे कोविड्व्यापनं गण्यतया आकुञ्चति। अतः अपरतरङ्गसाध्यता नास्ति इति स्थास्थ्यविशारदाः अभिप्रयन्ति। जनसंख्यायाः प्रतिशतं अधिकजनाः कोविडस्य तृतीयतरङ्गे ओमिक्रोण् बाधिताः सन्तः रोगमुक्तिं प्रापुः। रोगबाधया आर्जिता प्रतिरोधक्षमता तेषां रक्षाकवचं भविष्यति। नातिगुरुतराः त्रिशताधिकाः ओमिक्रोण् विभेदाः भारते दृश्यन्ते। १८-५९ वयस्केषु ८८% जनाः प्रतिरोधवाक्सिनस्य अनुमोदकमात्रा न स्वीकृताः तथापि एतत् कोविड्व्यापनस्य कारणं न भविष्यति। नूतनप्रभेदान् संद्रष्टुं जाग्रता, परिशोधना, निरीक्षणं च दृढं करणीयमिति एन् टि ए जि ऐ मेधावी डो. एन् के अरोरया प्रोक्तम्।
भारतबयोटेक् इत्यस्य नासिका-वाक्सिनाय अनुज्ञा लब्धा।
केरले लक्षद्वीपे च तीव्रवृष्टिसाध्यता।
अनन्तपुरी> केरले लक्षद्वीपे च गुरुवासरपर्यन्तम् अतितीव्रवृष्टेः साध्यता वर्तते इति केन्द्रपर्यावरणविभागेन निगदितम्। अद्य तिरुवनंतपुरं, कोल्लं, पत्तनंतिट्टा, इटुक्की जनपदेभ्यः रक्तजागरणनिर्देशः दत्तः। अन्येषु जनपदेषु 'ओरञ्च्' जागरणनिर्देशः विहितः। लक्षद्वीपे च घोरवातेन सह तीव्रवृष्टिर्भविष्यति। अतः तत्र मत्स्यबन्धनादिकं सामुद्रिकयत्नं निरुद्धम्।
केरलेषु अद्य श्रावणिकोत्सवः समारभ्यते इत्यतः विविधोद्योगमण्डलेषु व्यापरन्तः जनाः केरलीयाश्च आशङ्काकुलाः वर्तन्ते।
उद्योगप्रमुखः सैरस् मिस्त्री कार् यानदुर्घनया मृतः।
मुम्बई> टाटा सण्स् नामकोद्योगसंस्थायाः भूतपूर्वाध्यक्षः सैरस् मिस्त्री मुम्बय्याः समीपे पाल्घरजनपदस्थे चरोट्टीनाकस्थाने दुरापन्नया कार् यानदुर्घनया मृतः। मिस्त्री तस्य परिवारमित्राणि च कार् यानेन अहम्मदाबादतः मुम्बयीं सञ्चरन्तः आसन्। मुम्बयीतः १३५ कि मी दूरे सूर्यनद्याः सेतुमध्ये विद्यमाने विभजके घट्टनं कृत्वा एव दुर्घटना जातेति आरक्षकाधिकारिभिः उक्तम्। सहयात्रिकेषु जहांगीर् बिन्षा पन्डोल् नामकः अपि दुर्घटनास्थाने एव मृतः। अन्ये सर्वे मुम्बयीस्थं रिलयन्स् आतुरालयं प्रवेशिताः।
दुर्घटनामधिकृत्य विशदमन्वेषणं कर्तुं महाराष्ट्रस्य उपमुख्यमन्त्री तथा च गृहमन्त्री देवेन्द्र फट्नाविसेन आदिष्टम्। मिस्त्रीमहोदयस्य आकस्मिकनिर्याणे प्रधानमन्त्री नरेन्द्रमोदी, राहुलगान्धी, विविधाः नेतारः इत्यादयः अनुशोचितवन्तः।
ब्रिट्टने लिस् ट्रस् प्रधानमन्त्री भविष्यति।
मार्गरट् ताच्चरः, तेरेसा मे इत्यनयोः अनन्तरं प्रधानमन्त्रिपदं प्राप्नुवन्ती महिला भवति लिस् ट्रस्। अद्य स्कोट्लान्टे सम्पद्यमाने कार्यक्रमे सा पदं स्वीकरिष्यति।
युक्रैन् संघर्षे कोविड् संक्रमणवेलायां च भारतेन अत्यधिकं साहाय्यं दत्तम्। मोदिनं प्रशंस्य शैख् हसीना।
धाक्का> रष्या-युक्रैनयोः च मिथः जातायां संघर्षवेलायां पूर्वयूरोप्पे स्थगितान् बङ्गलादेशीयान् विद्यार्थिनः स्वदेशं प्रति प्रत्यानेतुं नेतृत्वं दत्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बड्लादेशस्य प्रधानमन्त्रिण्या शैख् हसीनया प्रशंसिता। सर्वत्र कोविडस्य अतिशीघ्रव्यापनवेलायां 'वाक्सिन् मैत्री' नाम परियोजनया कोविड् प्रतिरोधवाक्सिनं दातुं मोदिना प्रकाशिताय सौमनस्याय च शैख् हसीना मोदिनं प्रशशंस।
अतिशीघ्रं परिवर्तनं व्यापनं च। नूतनाः कोविड् विभेदाः पुनः भवेयुः - इ एम् ए।
भारतीयसमुद्रसीमायै अद्य प्रभृति विक्रान्त् सुरक्षा।
अतिशक्तः चक्रवातः भविष्यति। वेगः होरायां ३१४ कि.मी
मिखायेल् गर्बच्चोवः यशःशरीरोSभवत्।
मोस्को> विंशशतकस्य चरित्रगतेः परिवर्तनं कृतवान्, तृतीयविश्वमहायुद्धस्य अग्रात् लोकं रक्षितवान् , सोवियट् राष्ट्रसमूहस्य अन्तिमः राष्ट्रपतिः मिखायेल् गर्बच्चोवः दिवं गतः। मोस्कोस्थेन 'सेन्ट्रल् क्लिनिक्कल्' आतुरालयेन वृत्तान्तमिदं गतदिने निगदितम्।
सोवियट् यूणियन् इति राष्ट्रस्य समग्रप्रगत्यर्थं गर्बच्चोवेण आविष्कृतं 'ग्लास्नोस्ट्' [विशालमनः], पेरिस्ट्रोयिक्का' [पुनर्निर्माणं] इति कृतनामधेयं परिष्करणद्वयं विधिवैपरीत्येन पराजयमभवत्। प्रबलराष्ट्रेषु अनुवर्तिताभ्यः आणवस्पर्धाभ्यः गर्बच्चोवस्य प्रतिनिवर्तनं पाश्चात्यराष्ट्रैः सह शीतयुद्धस्य विरामकारणमभवत्। तेन प्रक्रमेण सः १९९० तमस्य शान्तिनोबल् सम्मानार्हः जातः।
प्रधानमन्त्री अद्य कोच्चीं सम्प्राप्नोति।
कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी अद्य सायं चतुर्वादने कोच्चीं सम्प्राप्नोति। भारतेन स्वकीयतया निर्मिता प्रथमा विमानवाहिनियुद्धमहानौका 'विक्रान्तः' इत्यस्य राष्ट्रसमर्पणं प्रधानमन्त्रिणा करिष्यति। श्वः कोच्ची महानौकानिर्माणशालायामेव कार्यक्रमः सम्पत्स्यते।
अद्य कोच्ची अन्ताराष्ट्रविमाननिलये अवतीर्यमाणः प्रधानमन्त्री सायं कालट्यां आदिशङ्करजन्मभूमिमन्दिरं सन्द्रक्ष्यति। पेट्टा - तृप्पूणित्तुरा मेट्रो रेल् सेवायाः समुद्घाटनं, एरणाकुलं जेङ्शन्, एरणाकुलं टौण्, कोल्लम् इत्येतेषां रेल् निस्थानकेन्द्राणां नवीकरणस्य निर्माणोद्घाटनं च प्रधानमन्त्रिणः अद्यतनकार्यक्रमेषु अन्तर्भवन्ति।
केरले अतिवृष्टिदुष्प्रभावः - भूस्खलनेन पञ्च जनाः मृताः।
इटुक्की> केरलस्य पर्वतसमीपजनपदेषु अतिवृष्टिः अनुवर्तते। वयनाट्, पालक्काट्, कोष़िक्कोट्, पत्तनंतिट्टा, इटुक्की इत्यादिषु जनपदेषु वृष्टिदुष्प्रभावः तीव्रः जातः।
इटुक्किजनपदे तोटुपुष़ासमीपे कुटयत्तूरुग्रामे सोमवासरस्य प्रत्युषसि दुरापन्ने भूस्खलने एकस्मिन्नेव परिवारे पञ्च जनाः अपमृत्युमुपगताः। संगमं नामकचत्वरस्य समीपं पन्तप्पिलाव् चिट्टटिच्चालिल् भवने सोमः [५३] ,तस्य माता , पत्नी, पुत्री, पञ्चवयस्कः पौत्रः इत्येते मृदन्तर्धानेन प्राणविनष्टाः जाताः।
बहुषु स्थानेषु शीघ्रवृष्टिरेव आकस्मिकजलोपप्लवस्य भूस्खलनस्य कारणमिति पर्यावरणविचक्षणैः कथितम्।
२०-२० क्रिक्कट् क्रीडा - भारतं विजितम्।
दुबाय्> एष्या चषक २०-२० क्रिक्कट् स्पर्धायाः द्वितीये प्रतिद्वन्द्वे पाकिस्थानस्य उपरि भारतस्य विजयः। पञ्च द्वारकैः भारतं विजयं प्राप्तवत्। पाकिस्थानेन उन्नीतः १४८ धावनाङ्कानां विजयलक्ष्यं ५ द्वारकाणां विनष्टेन भारतेन प्राप्तम्।
अन्तिमे क्षेपचक्रे विजयाय ७ धावनाङ्काः अपेक्षिताः। किन्तु मुहम्मद नवासेन क्षिप्ते क्षेपचक्रे प्रथमक्षेपणेन जडेजः बहिर्भूतः। द्वितीयेन एकः धावनाङ्कः। तृतीयक्षेपः धावनाङ्करहितः आसीत्। क्षेपणत्रये अवशिष्टे भारताय ६ धावनाङ्काः आवश्यकाः। अनन्तरक्षेपं ताडकः हार्दिक पाण्ड्यः षड्काय डायितवान्। भारतस्य उज्वलविजयः।
वातावरणव्यत्ययेन महादुरन्तः भारतेन अभिमुखीक्रियते।
यू यू ललितः शपथवाचनमकरोत्।
न्याय. ललितः केवलं ७४ दिनान्येव मुख्यन्यायाधिपपदे अनुवर्तिष्यते। नवम्बर् अष्टमदिनाङ्के सः निवर्तिष्यते।
'एष्या चषक' २०- २० क्रिकेट स्पर्धाः आरब्धाः - अद्य भारत पाकिस्थानप्रतिद्वन्द्वः।
दुबाय्> एष्याकप् नामक २०-२० क्रिक्कट्क्रीडास्पर्धापरम्परा ह्यः दुबायनगरे समारब्धा। अफ्गानिस्थान-श्रीलङ्कयोः प्रथमे प्रतिद्वन्द्वे अफ्गानिस्थानं विजयं प्राप्तवत्। श्रीलङ्का अष्ट द्वारकैः पराजिता। लब्धसंख्या - श्रीलङ्का १९. ४क्षेपणचक्रैः १०५ धावनाङ्कैः सह बहिर्नीता। अफ्गानिस्थानं तु १०. १ क्षेपणचक्रैः द्वारकद्वयेन १०६ धावनाङ्कान् प्राप्तवत्।
परम्परायाः द्वितीये प्रतिद्वन्द्वे अद्य भारत-पाकिस्थानयोः प्रतिद्वन्द्वः सम्पत्स्यति। गतवर्षे २०-२० विश्वचषकस्पर्धायां भारतं पाकिस्थानेन पराजितमासीत्। ततःपरं प्रथमतया एव अनयोः दलयोः अभिमुखस्पर्धा सम्पद्यते। भारतस्य नायकः रोहितशर्मा तथा पाकिस्थानस्य नायकः बाबर् असमः च भवतः।
नासया अन्यग्रहेषु अङ्गाराम्लवायोः सान्निध्यम् संदृष्टम्।
सौरयूथात् बहिः ग्रहस्य अन्तरिक्षे अङ्गाराम्लवायोः (carbon dioxide) सानिध्यमस्ति इति प्रथमं प्रमाणं जेयिम्स् वेब् दूरदर्शिना दत्तम्। डब्लियू ए एस् पि-३९ बि इति बृहत् वातकग्रहमधिकृत्य कृते निरीक्षणे एव नूतनज्ञानलब्धिः। ग्रहस्य जननं तथा तस्य घटनानुबन्ध ज्ञानमपि लब्धमिति नासया निगदितम् ।
नियन्त्रणरेखायां संगृहीताय आतङ्कवादिने रक्तदानं कृत्वा भारतीयसैनिकाः अरक्षत्।
श्रीनगर्> कश्मीरे रजौर्यतः संगृहीते पाकिस्थानस्य आतङ्कवादिने चिकित्सामध्ये रक्तं दानं कृत्वा भारतीयसैनिकैः जीवसंरक्षणं कृतम्।
सीमायां नियन्त्रणरेखायाः समीपात् भारतीयसुरक्षाभटैः संगृहीतः तबराक् हुसैन् नाम आतङ्कवादी एव सेनायाः चिकित्साकेन्द्रे परिचर्यायां वर्तते। सेनायाः नेतृत्वे जाते प्रतिद्वन्दे हुसैनः व्रणितः आसीत्। पाकिस्थानसेनायाः सैन्यदलाध्यक्षेण यूनस् चौधरेः निर्देशेनैव अन्येभ्यः चत्वारि आतङ्कवादिभिः साकं नियन्त्रणरेखायां प्राप्तवान् इति सः अवदत्। भारतीयसैनिकानामुपरि आक्रमणं कर्तुं धनमपि तेन दत्तमिति हुसैनेन उक्तम्।
केरले +१ कक्ष्याः अद्य आरभन्त।
कोच्ची> केरलराज्ये उच्चतरविद्यालयेषु एकादशीकक्ष्याः अद्य आरभन्त। एकजालकमिति 'ओण् लेन्' प्रवेशकप्रणाल्या प्रवेशनं सिद्धाः उपत्रिलक्षं छात्राः अद्यतनकक्ष्यासु उपस्थिताः भविष्यन्ति।
प्रतिविद्यालयं अधिकभूतानामासनानां वृत्तान्तान् श्वः उच्चतरशैक्षिकविभागस्य तन्त्रजाले प्रसिद्धीकरिष्यन्ति। तानवलोक्य इतःपर्यन्तं प्रवेशनमलब्धाः छात्राः परिशिष्टांशप्रवेशाय अभ्यर्थनापत्राणि परिष्कृत्य समर्पयितव्यानि इति अधिकारिभिः निगदितम्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य फरीदाबादे 'अमृत' नाम विशिष्टातुरालयस्य उद्घाटनं कृतम्।
कोविड्, विवाहं जननमानम् च आकुञ्चति इति चीनः।
कोविड्व्यापनहेतुना चीनेषु जननमानं तथा विवाहानां संख्या च आकुञ्चति इति अध्ययनानि सूचयन्ति। चीनस्य राष्ट्रिय - स्वास्थ्य समित्या एव एतद्विषयसम्बन्धितं प्रतिवेदनं बहिः प्रकाशितम् । शिशुपरिपालनाय तेषां शिक्षायै च व्ययः अधिकः इत्यनेन कारणेनैव विवाहानां संख्या तथा जननमानं च आकुञ्चितमिति वदन्ति। युवकाः बहवः नगरेषु उषित्वा शिक्षायै कर्मसम्पादनाय च श्रद्धां केन्द्रीकरोति । चीनस्य अतिकठिनानि सीरो कोविड् नयानि च विवाह-जननमानं आकुञ्चयितुं कारणमभवत् इति जनसंख्यावैज्ञानिकाः सूचयन्ति।
भारतीयछात्राणां कृते 'विसापत्रम्' अनुमोदितुं चीनः।
बीजिङ्> चीनराष्ट्रस्य कठिनैः कोविड्नियन्त्रणैः अध्ययनं स्थगित्वा वर्षद्वयं यावत् भारते लग्नानां छात्राणां प्रतिनिवर्तनायः मार्गः प्रकाशितः। प्रत्यागत्य अध्यनमनुवर्तितुमिच्छद्भ्यः भारतीयछात्रेभ्यः विसापत्रम् अनुमोदयिष्यते इति चीनेन गतदिने विज्ञापितम्। अपि च व्यापारविसापत्रमभिव्यप्य विविधानि यात्राविसापत्राणि च लप्स्यन्ते इति च निगदितम्।
२३,०००अधिकाः भारतीयछात्राः कोविड्व्यापनात् पूर्वं चीने अध्ययनं कृतवन्तः आसन्। तेषु ये अध्यनमनुवर्तितुमिच्छन्तः तेषां नामादिकं भारतेन चीनाय समर्पितमासीत्। यद्यपि विसापत्रे अनुमोदिते भारतचीनयोर्मध्ये साक्षात् विमानयात्रासुविधा इदानीमपि नास्तीति आशङ्कास्पदं वर्तते।
संगणकलिपिः पराजयिष्यते। विश्वहस्तलेखनस्पर्धायाम् आन्मरिया प्रथमस्थानं प्राप्तवती।