OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 2, 2022

अतिशक्तः चक्रवातः भविष्यति। वेगः होरायां ३१४ कि.मी


डोक्कियो> विश्वस्मिन् संवत्सरीये अतितीव्रः चक्रवातः पूर्वचीनासमुद्रे प्रबलः भविष्यति इति प्रतिवेदनम्। एषः चक्रवातः जाप्पानः फिलिप्पीन्स् चीना राष्ट्रान् बाधिष्यते इति प्रतिवेदनं बहिरागच्छति। १५ किं मि. उपरि समुद्रतरङ्गस्य दुष्प्रभावः भविष्यति इति पूर्वसूचना अस्ति। हिन्ननोर् इति ख्यातस्य चक्रवातस्य होरायां २५७ कि मि. आरभ्य ३१४ कि.मि. पर्यन्तं शीघ्रताम् आर्जयितुं शक्तः भवति इति सूचना अस्ति। अमेरिक्कायाः चक्रवातसूचना-विभागेन तथा जापानस्य वातावरणनिरीक्षणविभागेन च संयुक्ततया एव पूर्वसूचना प्रदत्ता।