OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 6, 2022

ओमिक्रोण् प्रतिरोधक्षमता रक्षाकवचं भविष्यति। इतः परं पुनः तरङ्गसाध्यता नास्ति इति वैज्ञानिकाः।

नवदिल्ली> राष्ट्रे कोविड्व्यापनं गण्यतया आकुञ्चति। अतः अपरतरङ्गसाध्यता नास्ति इति स्थास्थ्यविशारदाः अभिप्रयन्ति। जनसंख्यायाः प्रतिशतं अधिकजनाः कोविडस्य तृतीयतरङ्गे ओमिक्रोण् बाधिताः सन्तः रोगमुक्तिं प्रापुः। रोगबाधया आर्जिता प्रतिरोधक्षमता तेषां रक्षाकवचं भविष्यति। नातिगुरुतराः त्रिशताधिकाः ओमिक्रोण् विभेदाः भारते दृश्यन्ते। १८-५९ वयस्केषु  ८८% जनाः प्रतिरोधवाक्सिनस्य अनुमोदकमात्रा न स्वीकृताः तथापि एतत् कोविड्व्यापनस्य कारणं न भविष्यति। नूतनप्रभेदान् संद्रष्टुं जाग्रता, परिशोधना, निरीक्षणं च दृढं करणीयमिति एन् टि ए जि ऐ मेधावी डो. एन् के अरोरया प्रोक्तम्।