OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, August 31, 2022

 केरले अतिवृष्टिदुष्प्रभावः - भूस्खलनेन पञ्च जनाः मृताः।

इटुक्की> केरलस्य पर्वतसमीपजनपदेषु अतिवृष्टिः अनुवर्तते। वयनाट्, पालक्काट्, कोष़िक्कोट्, पत्तनंतिट्टा, इटुक्की इत्यादिषु जनपदेषु वृष्टिदुष्प्रभावः तीव्रः जातः। 

  इटुक्किजनपदे तोटुपुष़ासमीपे कुटयत्तूरुग्रामे सोमवासरस्य प्रत्युषसि दुरापन्ने भूस्खलने एकस्मिन्नेव परिवारे पञ्च जनाः अपमृत्युमुपगताः। संगमं नामकचत्वरस्य समीपं पन्तप्पिलाव् चिट्टटिच्चालिल् भवने सोमः [५३] ,तस्य माता , पत्नी, पुत्री, पञ्चवयस्कः  पौत्रः इत्येते मृदन्तर्धानेन प्राणविनष्टाः जाताः। 

  बहुषु स्थानेषु शीघ्रवृष्टिरेव आकस्मिकजलोपप्लवस्य भूस्खलनस्य कारणमिति पर्यावरणविचक्षणैः कथितम्।