OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 6, 2022

 उद्योगप्रमुखः सैरस् मिस्त्री कार् यानदुर्घनया मृतः। 

मुम्बई> टाटा सण्स् नामकोद्योगसंस्थायाः भूतपूर्वाध्यक्षः सैरस् मिस्त्री मुम्बय्याः समीपे पाल्घरजनपदस्थे चरोट्टीनाकस्थाने दुरापन्नया कार् यानदुर्घनया मृतः। मिस्त्री तस्य परिवारमित्राणि च  कार् यानेन अहम्मदाबादतः मुम्बयीं सञ्चरन्तः आसन्। मुम्बयीतः १३५ कि मी दूरे सूर्यनद्याः सेतुमध्ये विद्यमाने  विभजके घट्टनं कृत्वा एव दुर्घटना जातेति आरक्षकाधिकारिभिः उक्तम्। सहयात्रिकेषु जहांगीर् बिन्षा पन्डोल् नामकः अपि दुर्घटनास्थाने एव मृतः। अन्ये सर्वे मुम्बयीस्थं रिलयन्स् आतुरालयं प्रवेशिताः। 

  दुर्घटनामधिकृत्य विशदमन्वेषणं कर्तुं महाराष्ट्रस्य उपमुख्यमन्त्री तथा च गृहमन्त्री देवेन्द्र फट्नाविसेन आदिष्टम्। मिस्त्रीमहोदयस्य आकस्मिकनिर्याणे प्रधानमन्त्री नरेन्द्रमोदी, राहुलगान्धी, विविधाः नेतारः इत्यादयः अनुशोचितवन्तः।