OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 28, 2022

 यू यू ललितः शपथवाचनमकरोत्। 

 


नवदिल्ली> भारतस्य ४९तमः मुख्यन्यायाधिपरूपेण न्याय. यू यू ललितः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। ईश्वरनाम्नि एव ललितः सत्यशपथं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः जगदीपधन्करः, निवृत्तः मुख्यन्यायाधिपः एन् वि रमणः, भूतपूर्वः राष्ट्रपतिः रामनाथकोविन्दः, भूतपूर्वः उपराष्ट्रपतिः वेङ्कय्या नायिडुः इत्यादयः सन्निहिताः आसन्। 

  न्याय. ललितः केवलं ७४ दिनान्येव मुख्यन्यायाधिपपदे अनुवर्तिष्यते। नवम्बर् अष्टमदिनाङ्के सः निवर्तिष्यते।