OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 1, 2022

 प्रधानमन्त्री अद्य कोच्चीं सम्प्राप्नोति। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी अद्य सायं चतुर्वादने कोच्चीं सम्प्राप्नोति।   भारतेन स्वकीयतया निर्मिता प्रथमा विमानवाहिनियुद्धमहानौका 'विक्रान्तः' इत्यस्य राष्ट्रसमर्पणं प्रधानमन्त्रिणा करिष्यति। श्वः कोच्ची महानौकानिर्माणशालायामेव कार्यक्रमः सम्पत्स्यते। 

  अद्य कोच्ची अन्ताराष्ट्रविमाननिलये अवतीर्यमाणः प्रधानमन्त्री सायं कालट्यां आदिशङ्करजन्मभूमिमन्दिरं सन्द्रक्ष्यति। पेट्टा - तृप्पूणित्तुरा मेट्रो रेल् सेवायाः समुद्घाटनं, एरणाकुलं जेङ्शन्,  एरणाकुलं टौण्, कोल्लम् इत्येतेषां रेल् निस्थानकेन्द्राणां नवीकरणस्य निर्माणोद्घाटनं च प्रधानमन्त्रिणः अद्यतनकार्यक्रमेषु अन्तर्भवन्ति।