परम्परागतविज्ञानेन सह एन् सि ई आर् टि संस्थायाः नूतनः अष्टमीकक्ष्यापाठ्यग्रन्थः।
नवदिल्ली> एन् सि ई आर् टि संस्थया आविष्कृते अष्टमीकक्ष्यायाः नूतनं शास्त्रपुस्तकं भारतस्य परम्परागतशास्त्रविज्ञानेन संयुक्तं भवति। क्रिस्तोः पूर्वं जीवितवान् इति मन्यमानस्य कणादमहर्षेः परमाणुसङ्कल्पः, आयुर्वेदीयचिकित्सासम्प्रदायश्च पुस्तके परामृष्टः अस्ति। भास्करस्य द्वितीयस्य ज्योतिशास्त्रतत्त्वमपि पाठपुस्तके प्रतिपादितमस्ति।

.jpeg)
.jpg)



.jpeg)
.jpeg)



.jpg)