OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 16, 2025

 शुभांशोः सहयात्रिकाणां च परं सप्तदिवसीयः पुनरधिवासः। 

अन्ताराष्टबहिराकाशनिलयात् 'ग्रेय्स्' पेटकं प्रतिनिवर्तनयात्रा आरभ्यते। 

हूस्टण्>  अष्टादशदिनानि बहिराकाशनिलये विविधेषु परीक्षणेषु व्यापृत्य कुजवासरे सायं वसुधां प्रत्यागतवन्तः चत्वारः बहिराकाशयात्रिकाः सप्तदिनात्मकाय पुनरधिवासाय विहिताः। इदानीं  चत्वारः अपि  हूस्टणस्थं जोण्सण् बहिराकाशकेन्द्रम् अधिवसन्तः सन्ति। भूमेः गुरुत्वाकर्षणेन सह तादात्म्यं प्राप्तुमेवायम् एकान्तवासः। 

  भारतीयवायुसेनायां ग्रूप् केप्टन् पदीयः शुभांशुः आसीत् आक्सियं - ४ दौत्यस्य मार्गदर्शी। तं विना पेग्गि विट्सण्, स्लावोस् उस्नन् स्की, टिबोर् कापु इत्येते च दौत्यस्य अंशतया  बहिराकाशनिलयं गतवन्तः। 

  जूण् पञ्चविंशे दिनाङ्के ते  ऐ एस् एस् प्रति प्रस्थितवन्तः। ऐ एस् एस् मध्ये स्थित्वा अष्टाशीत्यधिक द्विशतवारं भूमिं प्रदक्षिणं कृतवन्तः। त्रयस्त्रिंशदधिक चतुश्शतं होराः ते परीक्षणाय यापितवन्तः।