OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, July 16, 2025

 बालानाम् 'आधार्' नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः। 

नवदिल्ली> पञ्च - सप्त वयःप्रमाणानां बालानाम् आधारपत्रं नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः आगतः। विद्यालयप्रवेशः, प्रवेशनपरीक्षाः, छात्राणाम् आर्थिकोपायनं  [scholarship], वित्तकोशीयानुमोदनानि इत्यादीनाम् अनर्गलसेवायै नवीकृतमाधारपत्रमावश्यमिति संस्थया निगदितम्। 

  बालानां पितरौ, रक्षितारः इत्येतेषां कस्मिंश्चित् आधारसेवाकेन्द्रे निश्चिताधारकेन्द्रे वा बालानां सूचनाः निश्शुल्केन नवीकर्तुं शक्यन्ते। ऊनपञ्चवयस्कानां छायाचित्रम्, नाम, जन्मदिवसः, लिङ्गभेदः, सङ्केतः, प्रमाणपत्राणि इत्येतानि एव आधारपत्रे युज्यन्ते। यदा पञ्चवयः प्राप्नोति तदा  अङ्गुलीरेखाः, नेत्रमण्डलमित्यादीनि अवश्यं योजनीयानि। सप्तवयःपर्यन्तम् एताः सेवाः निश्शुल्केन कर्तुं शक्यते।