OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 10, 2025

 उष्णतरङ्गः

यूरोपे दशदिनाभ्यन्तरे २३००  मरणानि। 

कोपन् हेगन्> जूलाय् द्वितीयदिनाङ्कं यावत्सु दशदिनेषु यूरोपभूखण्डे जाते  अत्युष्णतरङ्गे २३०० जनाः मृत्युमुपगताः इति पर्यावरणशास्त्रज्ञाः। लण्टनस्थः 'इम्पीरियल् कलालयः', London school of hygiene and tropical medicine  नामिका संस्था च युगपत् कृते अनुसन्धाने अस्त्ययमधिगमः। 

  १२ नगरेषु एव एतावन्ति  मरणानि दुरापन्नानि। स्पेयिने तापमानं ४० डिग्री सेल्ष्यस् पर्यन्तं वर्धितम्। फ्रान्से अरण्याग्निरभवत्। बार्सिलोना, मड्रिड्, लण्टनं, मिलान् इत्यादिषु नगरेषु उष्णतरङ्गसमये सामान्यकालादधिकतया चतुर्डिग्री सेल्ष्यस् यावत् तापमानमुन्नीतम्। अतः प्रस्तुतेषु दशदिनेषु जातानि मरणानि विशकलनं कृत्वा उष्णतरङ्गमेव कारणमिति प्रत्यभिज्ञातम्।